मैत्रेय उवाच
भृग्वादयस्ते मुनयो लोकानां क्षेमदर्शिनः ।
गोप्तर्यसति वै नृणां पश्यन्तः पशुसाम्यताम ॥१॥
वीर मातरमाहुय सुनीथां ब्रह्मावादिनः ।
प्रकृत्यसम्मतं वेनमभ्यषित्र्चन पतिं भुवः ॥२॥
श्रुत्वा नृपासनगतं वेनमत्युग्रशासनम ।
निलिल्युर्दस्यवः सद्यः सर्पत्रस्ता इवाखवः ॥३॥
स आरुढनृपस्थान उन्नाद्धोऽष्टविभुतिभिः ।
अवमेन महाभागान स्तब्धः सम्भावितः स्वतः ॥४॥
एवं मदान्ध उत्सिक्तो निरंकुश इव द्विपः ।
पर्यटन रथमास्थाय कम्पयन्निव रोदसी ॥५॥
न यष्टव्यं न दातव्यं न होतव्यं द्विजाः क्वचित ।
इति न्यवारयद्धर्मं भेरीघोषेण सर्वशः ॥६॥
वेनस्यावेक्ष्य मुनयुओ दुर्वत्तस्य विचेष्टितम ।
विमृश्य लोकाव्यासनं कृपयोचुःस्म सत्रिणः ॥७॥
अहो उभयतः प्राप्तः लोकस्य व्यसनं महत ।
दारुण्युभयतो दीप्त इव तस्करपालयोः ॥८॥
अराजकभयादेष कृतो राजाऽतदर्हणः ।
ततोऽप्यासीद्भयं त्वद्य कथं स्यात्स्वस्ति देहिनाम ॥९॥
अहेरिव पयः पोषः पोषकस्याप्यनर्थभुत ।
वेनः प्रकृत्यैव खलः सुनीथागर्भसम्भव ॥१०॥
निरुपितः प्रजापालः स जिघांसति वै प्रजाः ।
तथापि सान्त्वयेमामुण नास्मास्तत्पातकं स्पृशेत ॥११॥
तद्विद्वद्भिरसद्वृत्तो वेनोऽस्माभिः कृतो नृपः ।
सान्त्वितो यदि नो वाचं न ग्रहीष्यत्यधर्मकृत ॥१२॥
लोकधिक्कारसन्दग्धं दहिष्यामः स्वतेजसाः ।
एवमध्यव्सायैन मुनयो गुढमन्यवः
उपव्रज्याब्रुवन वेन सान्त्वायित्वा च सामभिः ॥१३॥
मुनयऊचुः
नृपवर्य निबोधैतद्यत्ते विज्ञापयाम भोः ।
आयुः श्रीबलकीर्तींना तव तात विवर्धनम ॥१४॥
धर्म आचरितः पुंसां वाड्गंन कायबुद्धीभिः ।
लोकान विशोकान वितरत्यथानत्यमसांगिनाम ॥१५॥
स ते मा विनशेद्विरं प्रजानां क्षेमलक्षणः ।
यस्मिन विनष्टे नृपतिरै श्वर्यादवरोहर्तिः ॥१६॥
राजन्नसाध्वमात्येभ्यश्चोरदिभ्यः प्रजा नृपः ।
रक्षण यथा बलिं गृह्नन्निह प्रेत्य च मोदते ॥१७॥
यस्य राष्ट्रे पुरे चैव भगवान यज्ञपुरुषः ।
इज्यते स्वेन धर्मेण जनैर्वर्णाश्रमान्वितैः ॥१८॥
तस्य राज्ञॊ महाभाग भगवान भूतभावनः ।
परितष्यति विश्वात्मा तिष्ठतो निजशासने ॥१९॥
तस्मिंस्तुष्टे किमप्राप्यं जगतामीश्वरेश्वरे ।
लोकाः सपाला ह्योतस्मै हरन्ति बलिमादृताः ॥२०॥
तं सर्वलोकामरयज्ञसंग्रहं त्रयीमयं द्रव्यमयं तपोमयम ।
यज्ञैर्विचित्रैर्यजतो भवाय ते राजन स्वदेशाननुरोद्धुमर्हसि ॥२१॥
यज्ञेन युष्मद्विषये द्विजातिभिर्वितायमानेन सुराः कला हरेः ।
स्विष्टाः सुतुष्टाः प्रदिशन्ति वात्र्छितं तद्धेलनं नार्हसि वीर चेष्टितुम ॥२२॥
वेन उवाच
बालिशा बत युयं वा अधर्मे धर्ममानिनः ।
ये वृत्तिदं पतिं हित्वा जारं पतिमुपासते ॥२३॥
अवजानन्त्यमी मुढा नृपरुपिणमीश्वरम ।
नानुविन्दन्ति ते भद्रमिह लोके परत्र च ॥२४॥
को यज्ञपुरुषो नाम यज्ञ वो भक्तिरीदॄशॊ ।
भर्तृस्नेहविदुराणां यथा जारे कुयोषिताम ॥२५॥
विष्णुर्विरिच्ची गिरिश इन्द्रो वायुर्यमो रविः ।
पर्जन्यो धनदः सोमः क्षितिरग्निरपम्पतिः ॥२६॥
एते चान्ये च विबुधाः प्रभवो वरशापयोः ।
देहे भवन्ति नृपतेः सर्वदेवमयो नृपः ॥२७॥
तस्मान्मा कर्मभिर्विप्रा यजध्वं गतमत्सराः ।
बलिं च मह्यां हरत मत्तोऽन्य कोऽग्रभ्रक पुमान ॥२८॥
मैत्रेय उवाच
इत्थं विपर्ययमतिः पापीयानत्पथं गतः ।
अनुनीयामानस्तद्यात्र्जां न चक्रें भ्रष्टमंगलः ॥२९॥
इति तेऽसत्कृतास्तेन द्विजाः पण्डितमानिना ।
भग्नायां भव्ययात्र्चायां तस्मै विदुर चुक्रुधुः ॥३०॥
हन्यतां हन्यतामेष पापः प्रकृतिदारुणः ।
जीवत्र्जगदसावाशु कुरुते भस्मसाद ध्रुवम ॥३१॥
नायमर्हत्यसदवृत्तो नरदेववरासनम ।
योऽधियज्ञपतिं विष्णुं विनिन्दत्यनपत्रपः ॥३२॥
को वैनं परिचक्षीत वेनमेकमृतेऽशुभम ।
प्राप्त इदृशमैश्वर्य यदनुग्रहभाजनः ॥३३॥
इत्थं व्यवसिता हन्तुमृषयो रुढमन्यवः ।
निजघ्नुर्हुडक्रुतैर्वेन हतमच्युतनिन्दया ॥३४॥
ऋषिभिः स्वाश्रमपदं गते पुत्रकलेवरम ।
सुनीथा पालयामास विद्यायोगेन शोचती ॥३५॥
एकदा मुनयस्ते तु सरस्वत्सलिलाप्लुताः ।
हुत्वाग्रीन सत्कथा श्चक्रुरुपविष्टाः सरित्तटे ॥३६॥
वीक्ष्योत्थितांस्तदोप्तातानाहुर्लोकभयंरान ।
अप्यभक्रमनाथाया दस्युभ्यो न भवेद्भुवः ॥३७॥
एवं मृशन्त ऋषयो धावतां सर्वतोदिशम ।
पांसुः समुत्थितो भुरिश्छोराणामभिलुम्पताम ॥३८॥
तदुपद्रवमाज्ञाय लोकस्य वसु लुम्पताम ।
भर्तर्युपरते तस्मिन्नन्योन्यं च जिंघासताम ॥३९॥
चोरप्रायं जनपदं हीनसत्त्वमराजकम ।
लोकान्नावारयत्र्छक्ता अपि तद्दोषदर्शिनः ॥४०॥
ब्राह्मणः समदृक शान्तो दीनानां समुपेक्षकः ।
स्रवते ब्रह्मा तस्यापि भिन्नभाण्डात्पयो यथा ॥४१॥
नांगस्य वंशो राजर्षेरेष संस्थातुमर्हति ।
अमोघवीर्या हि नृपा वंशेऽस्मिन केशवाश्रयाः ॥४२॥
विनिश्चित्यैवमृषयो विपन्नस्य महिपतेः ।
ममन्थुरुरुं तरसा तत्रासीद्वाहुको नरः ॥४३॥
काककृष्णोऽतिह्रस्वांगो ह्रस्वबाहुर्महाहनुः ।
ह्रस्वपान्निम्रनासागो रक्ताक्षस्ताम्रमुर्धजः ॥४४॥
तं तु तेऽवनतं दीनं किं करोमीति वादिनम ।
निषीदेत्यब्रुवंस्तात स निषादस्ततोऽभवत ॥४५॥
तस्य वंश्यास्तु नैषादा निगिकाननगोचराः ।
येनाहरज्जायमानो वेनकल्मषमुल्बणम ॥४६॥
इति श्रीमद्भागवते महापुराणे पारमंहंस्या संहितायां चतुर्थस्कन्धे पृथुचरिते निषादोत्पप्तिर्नाम चतुर्दशोऽध्ययः ॥१४॥