संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद्‍भागवतमहापुराणम्|चतुर्थः स्कन्धः|
अथ अष्टमोऽध्यायः

चतुर्थः स्कन्धः - अथ अष्टमोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


मैत्रेय उवाच

सनकाद्या नारदाश्च ऋभुर्हसोऽरुणिर्यतिः ।

नैते गृहान ब्रह्मसुता ह्यावसन्नुर्ध्वरेतसः ॥१॥

मृषाऽधर्मस्य भार्याऽऽसीद्दम्भं मायां च शत्रुहन ।

असुत मिथुनं तत्तु निऋतिर्जगृहेऽप्रजः ॥२॥

तयोः समभवल्लोभो निकृतिश्च महामते ।

ताभ्यां क्रोधश्च हिंसा च यद्दुरुक्तिः स्वसा कलिः ॥३॥

दुरुक्तौ कलिराधत्त भयं मृत्युं च सत्तम ।

तयोश्च मिथुनं जज्ञे यातना निरयस्तथा ॥४॥

संग्रेहेण मयाऽऽख्यातः प्रतिसर्गस्तवानघ ।

त्रिःश्रुत्वैतत्पुमान पुण्यं विधुनोत्यात्मनो मलम ॥५॥

अथातः कीर्तये वंश पुण्यकीर्तेः कुरुद्वह ।

स्वायम्भुवस्यापि मनोर्हरेरंशाशजन्मनः ॥६॥

प्रियव्रतोत्तानपादौ शतरुपापतेः सुतौ ।

वासुदेवस्य कलया रक्षायां जगतः स्थितौ ॥७॥

जाये उत्तानपादस्य सुनीतिः सुरुचिस्तयोः ।

सुरुचि प्रेयसी पत्युर्नेतरा यत्सुतो ध्रुवः ॥८॥

एकदा सुरुचेः पुत्रमंकमारोप्य लालयन ।

उत्तमं नारुरुक्षन्तं ध्रुंव राजाभ्यनन्दत ॥९॥

तथा चिकीर्षमाणं तं सपन्तास्तनयं ध्रुवम ।

सुरुचिः श्रृण्वतो राज्ञः सेष्यमाहातिगर्विता ॥१०॥

न वत्स नृपतेर्धिष्ण्यं भवानारोढुमर्हति ।

न गृहितो मया यत्त्वं कुक्षावपि नृपात्मजः ॥११॥

बालोऽसि बत नात्मानमन्यस्त्रीगर्भसम्भृतम ।

नुन वेद भवान यस्य दुर्लभेऽर्थें मनोरथः ॥१२॥

तपसाऽऽराध्य पुरुषं तस्यैवानुग्रहेण मे ।

गर्भे त्व साधयात्मानं यदीच्छसि नृपासनम ॥१३॥

मैत्रेय उवाच

मातुः सपत्‍न्याः सदरुक्तिविद्धः श्वसन रुषा दण्डहतो यथाहिः ।

हित्वा मिषन्तं पितरं सन्नवाचं जगाम मातुः प्ररुदन सकाशम ॥१४॥

तं निःचसन्तं स्फुरिताधरोष्ठं सुनीतिरुत्संग उदुह्या बालम ।

निशम्य तत्पौरमुखान्नितान्तं सा विव्यथे यद्गदितं सपन्त्या ॥१५॥

सोत्सृज्य धैर्य विललाप शोक दावग्निना दावलतेव बाला ।

वाक्य संपन्त्याः स्मरती सरोज श्रिया दृशा बाष्पकलामुवाह ॥१६॥

दीर्घं श्वसन्ती वृजिनस्य पार मपश्यती बालकमाह बाला ।

मा‍ऽमगंलं तात परेषु मंस्था भुडक्ते जनो यत्परदुः खदस्तत ॥१७॥

सत्यं सुरुच्याभिहितं भवान्मे यद दुर्भगाया उदरे गृहीतः ।

स्तन्येन वृद्धश्च विलज्जते यां भार्येति वा वोढुमिडस्पतिर्माम ॥१८॥

आतिष्ठ तत्तात विमत्सरस्त्वमुक्तं समात्रापि यदव्यलीकम ।

आराधयाधोक्षजपादपद्मं यदीच्छसेऽध्यासनमुत्तमो यथा ॥१९॥

यस्याडघ्रिपद्मं परिचर्य विश्वं विभवनायत्तगुणाभिपत्तेः ।

अजोऽध्यतिष्ठत्खलु पारमेष्ट्यं पदं जितात्मश्वसनाभिवन्द्यम ॥२०॥

तथा मनुर्वो भगवान पितामाहो यमेकमत्या पुरुदक्षिणै र्मखैः ।

इष्ट्वाभिपेदे दुरवपमन्यतो भौमं सुखंक दिव्यमथापवर्ग्यम ॥२१॥

तमेव वत्साश्रय भृत्यवत्सलं मुमुक्षुभिर्मृग्यपदाब्जपद्धतिम ।

अनन्यभावे निजधर्मभाविते मनस्यव्स्थाप्य भजस्व पुरुषम ॥२२॥

नान्यं ततः पद्मपलाशलोचनाद दुःखच्छिदं ते मृगयामि कंचन ।

यो मृग्यते हस्तगृहीतपद्मया श्रियेतरैरंग विमृग्यमाणया ॥२३॥

मैत्रेय उवाच

एवं संजल्पितं मातुराकर्ण्यार्थागमं वचः ।

संनियम्यात्मनाऽऽत्मानं निश्चक्राम पितृः पुरात ॥२४॥

नरदस्तदुपाकर्ण्य ज्ञात्वा तस्य चिकीर्षितम ।

स्पृष्ट्वा मुर्धन्यघघ्ने पाणिना प्राह विस्मितः ॥२५॥

अहो तेजः क्षत्रियाणां मानभंगममृष्यताम ।

बालोऽप्ययं हृदा धत्ती यत्समातुरसद्वचः ॥२६॥

नारद उवाच

नाधुनाप्यवमानं ते सम्मानं वापि पुत्रक ।

लक्षयामः कुमारस्य सक्तस्य क्रीडनादिषु ॥२७॥

विकल्पे विद्यमानेऽपि न ह्यासंतोषहेतवः ।

पुंसो मोहमृते भिन्न यल्लोके निजकर्मभिः ॥२८॥

परितुष्येत्ततस्तात तावन्मात्रेण पुरुषः ।

दैवोपसादितं यावद्वीक्ष्येवरगतिं बुधः ॥२९॥

अथ मात्रोपदिष्टेन योगेनावरुरुत्ससि ।

यत्प्रसादं स वै पुंसां दुराराध्यो मतो मम ॥३०॥

मुनयः पदवीं यस्य निःसंगेनोरुजन्मभिः ।

न विदुर्मृगयन्तोऽपि तीव्रयोगसमधिना ॥३१॥

अतो निवर्ततामेष निर्बन्धस्तव निष्फलः ।

यतिष्यति भवान काले श्रेयसां समपस्थिते ॥३२॥

यस्य यद दैवविहितं स तेन सुखदुःखयोः ।

आत्मानं तोषयन्देही तमसः पारमृच्छतिः ॥३३॥

गुणाधिकान्मुदं लिप्सेदनुक्रोशं गुणाधमात ।

मैत्रीं समानादन्विच्छेन्न तापैरभिभूयते ॥३४॥

ध्रुव उवाच

सोऽयं शमो भगवता सुखदुःखतात्मनाम ।

दर्शितः कॄपया पुंसां दुर्दर्शोऽस्मद्विधैस्तु यः ॥३५॥

अथापि मेऽविनीतस्य क्षात्त्रं घोरमुपेयुषः ।

सुरुच्या दुर्वचोबाणैर्न भिन्ने श्रयते हृदि ॥३६॥

पदं त्रिभुवनोत्कृष्टं जिगीषोः साधु वर्त्म मे ।

ब्रुह्यास्मत्पितृर्ब्रह्यान्नन्यैरप्यनधिष्ठितम ॥३७॥

नुनं भवान भगवतो योऽगंजः परमेष्ठिनः ।

वितुदन्नटते वीणं हितार्थं जगतोऽर्कवत ॥३८॥

मैत्रेय उवाच

इत्युदाहृतमाकर्ण्य भगवान्नारदस्तदा ।

प्रीतः प्रत्याह तं बालं सद्वाक्यमनुकम्पया ॥३९॥

नारद उवाच

जनन्याभिहित पन्थाः स वै निः श्रेयसस्य ते ।

भगवान वासुदेवस्तं भज तत्प्रवणत्मना ॥४०॥

धर्मार्थकाममोक्षाख्यं य इच्छेच्छ्रेय आत्मनः ।

एकमेव हरेस्तव कारणं पादसेवनम ॥४१॥

तत्तात गच्छ भद्रं ते यमुनायास्तटं शुचि ।

पुण्यं मधुवनं यत्र सांनिध्यं नित्यदा हरेः ॥४२॥

स्नात्वानुसवनं तस्मिन कालिन्द्याः सलिल शिवे ।

कृत्वोचितानि निवसन्नात्मनः कल्पितासनह ॥४३॥

प्राणायामेन त्रिवृता प्राणेन्द्रियमनोमलम ।

शनैर्व्युदस्याभिध्ययेन्मनसा गुरुणा गुरुम ॥४४॥

प्रसादाभिमुखं शश्वत्प्रसन्नवदनेक्षणम ।

सुनासं सुभ्रुवं चारुकपोलं सुरसुन्दरम ॥४५॥

तरुणं रमणीयागंमरुणोष्ठेक्षणाधरम ।

प्रणताश्रयणं नृम्णं शरण्यं करुनाणार्णवम ॥४६॥

श्रीवत्सांग घनश्यामं पुरुषं वनमालिनम ।

शंखचक्रगदापद्यैरभिव्यक्तचतुर्भुजम ॥४७॥

कीरीटिनं कुण्डलिनं केयुरवलयान्वितम ।

कौस्तुभाभरणग्रीवं पीतकौशेवयवाससम ॥४८॥

काच्त्रीकलापपर्यस्तं लसत्कात्र्चननुपुरम ।

दर्शनीयतमं शान्तं मनोनयनवर्धनम ॥४९॥

पद्म्भ्यां नखमाणिश्रेण्यां विलसद्भ्यां समर्चताम ।

हृत्पद्मकर्णिकाधिष्ण्यमाक्रम्यात्मन्यवस्थितम ॥५०॥

स्मयमानमभिध्यायेत्सानुरागवलोकनम ।

नियतेनैकभुतेन मनसा वरदर्षभम ॥५१॥

एवं भगवतो रुपं सुभद्रं ध्यायतो मनः ।

निर्वृत्या परया तुर्ण सम्पन्नं न निवर्तते ॥५२॥

जप्यश्च परमो गुह्याः श्रुयतां मे नृपात्मज ।

यं सप्तरात्रं प्रपठन पुमान पश्यति खेचरान ॥५३॥

' ॐ नमो भगवते वासुदेवाय ' ।

मन्त्रेणानेन देवस्य कुर्याद द्रव्यमयीं बुधः ।

सपर्यां विविधैर्द्रव्यैर्देशकालविभागवित ॥५४॥

सलिलैः शुचिभिर्माल्यैर्वन्यैर्मूलफलादिभिः ।

शस्ताडकुरांशुकैश्चार्चेतुल्लस्या प्रियया प्रभुम ॥५५॥

लब्ध्वा द्रव्यामयीमर्ची क्षित्यस्म्बावदिषु वार्चयेत ।

आभृतात्मा मुनिः शान्तो यतवाड मितवन्यभुक ॥५६॥

स्वेच्छवतारचरितैरचिन्त्यनिजमायया ।

करिष्यत्त्युत्तमश्लोकस्तदध्यायेद हृदयंगमम ॥५७॥

परिचर्या भगवतो यावत्यः पुर्वसेविताः ।

ता मन्त्रहृदयेनैव प्रयुत्र्ज्यान्मन्त्रमुर्तये ॥५८॥

एवं कायेन मनसा वचसा च मनोगतम ।

परिचर्यमानो भगवान भक्तिमत्परिचर्यया ॥५९॥

पुंसामयायिनाम सम्यग्भ्जतां भाववर्धनः ।

श्रेयो दिशत्याभिमतं यद्धर्मादिषु देहिनाम ॥६०॥

विरक्तश्चेन्दिर्यतौ भक्तियोगेन भुयसा ।

तं निरन्तरभावेन भजेताद्धा विमुक्तये ॥६१॥

इत्युक्तस्तं परिक्रम्य प्रणम्यं च नृपार्भकः ।

ययौ मधुवनं पुण्यं हरेश्वरणचर्चितम ॥६२॥

तपोवनं गते तस्मिन्प्रविष्टोऽन्तः पुरं मुनिः ।

अर्हितोर्हणको राज्ञा सुखासीन उवाच तम ॥६३॥

नारद उवाच

राजन कीं ध्यायसे दीर्घं मुखेन परिशुष्यता ।

किंवा न रिष्यते कामो धर्मो वार्थेन संयुतः ॥६४॥

राजोवाच

सुतो मे बालको ब्रह्मान स्त्रैणेनाकरुणात्मना ।

निर्वासितः पंचवर्षः सह मात्रा महान्कविः ॥६५॥

अप्यनाथं वने ब्रह्मान्मास्मादन्त्यर्भकं वृकाः ।

श्रान्तं शयानं क्षिधितं परिम्लानमुखाम्बुजम ॥६६॥

अहो मे बत दौरात्म्यं स्त्रीजितस्योपधारय ।

योऽकं प्रेम्णाऽऽरुरुक्षन्तं न्जाभ्यनन्दमसत्तमः ॥६७॥

नारद उवाच

मा मा शुचः स्वतनयं देवगुप्तं विशाम्पते ।

तत्प्रभावमविज्ञाय प्रावृक्तें यद्यशो जगत ॥६८॥

सुदुष्करं कर्म कृत्वा लोकपालैरपि प्रभुः ।

एष्यत्यचिरतो राजन यशो विपुलयंस्तव ॥६९॥

मैत्रेय उवाच

इति देवर्षिणा पोक्तं विश्रुत्वा जगतीपतिः ।

राजलक्ष्मीमनाद्वत्य पुत्रमेवान्वचिन्तयत ॥७०॥

तत्राभिषिक्तः प्रयतस्तामुपोष्य विभावरीम ।

समाहितः पर्यचरदृष्टादेशेन पुरुषम ॥७१॥

त्रिरात्रान्ते त्रिरात्रान्ते कपित्थबदराशनः ।

आत्मवृत्त्यनुसारेण मासं निन्येऽर्चयन्हरिम ॥७२॥

द्वितीयं च तथा मांस षष्ठे षष्ठेऽर्भको दिने ।

तृणपर्णदिभिः शीणैः कृतान्नोऽभ्यर्चयद्विभुम ॥७३॥

तृतीयं चानयन्मासं नवमे नवमेऽहनि ।

अब्भक्ष उत्तमश्‍लोकमुपाधावत्समाधिना ॥७४॥

चतुर्थमपि वै मासं द्वादशे द्वादशेऽहनि ।

वायुभक्षो जितश्वासो ध्यायन्देवमधारयत ॥७५॥

पंचमे मास्यनुप्राप्ते जितश्वासो नॄपात्मजः ।

ध्यायन ब्रह्मापदैकेन तस्थौ स्थाणुरिवाचलः ॥७६॥

सर्वतो मन आकृष्य हृदि भुतेन्द्रियाशयम ।

ध्यायन्भगवतो रुपं नाद्रक्षीत्किंचनापरम ॥७७॥

आधार महदादीनां प्रधानपुरुषेश्वरम ।

ब्रह्मा धारयमाणस्य त्रयो लोकाश्चकम्पिरे ॥७८॥

यदैकपादेन स पार्थिवार्भक सतस्थौ तदंगुष्ठनिपीडिता मही ।

ननाम तत्रार्धामिभिन्द्रधिष्ठिता तरीव सव्येतरतः पदे पदे ॥७९॥

तस्मिन्नभिध्ययति विश्वमात्मानो द्वारं निरुध्यासुमन्यया धिया ।

लोका निरुच्छ्वासनिपीडिता भॄशं सलोकपालाः शरणं ययुर्हुरिम ॥८०॥

देवा ऊचुः

नैवं विदामो भगवान पाणरोधं चराचरस्याखिलसत्वधाम्रः ।

विधेहि तन्नो वृजिनाद्विमोक्षं प्राप्तां वयं त्वां शरणं शरण्यम ॥८१॥

श्रीभगवानुवाच

मा भैष्ट बालं तपसो दुरत्यया न्निवर्तयिष्ये प्रतियात स्वधाम ।

यतो हि वः प्राणनिरोध आसी दौत्तानपादिर्मयि संगतात्मा ॥८२॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यं संहितायां चतुर्थस्कन्धे ध्रुवचरितेऽष्टमोध्यायः ॥८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP