मैत्रेय उवाच
एवं स भगवान वैन्यःख्यापितो गुणकर्मभिः ।
छन्दयामास तान कमैः प्रतिपुज्याभिनन्द्य च ॥१॥
ब्राह्मणप्रमुखान वर्णानः भृत्यामात्यपुरोधसः ।
पौरात्र्जानपदान श्रेणीः प्रकृतीः समपुजयत ॥२॥
विदुर उवाच
कस्माद्दधारं गोरुपं धरित्री बहुरुपिणी ।
यां दुदोह पृथुस्तत्र को वत्सो दोहनं च किम ॥३॥
प्रकृत्या विषमा देवी कृता तेन समा कथम ।
तस्य मेध्यं हयं देवः कस्य हेतोरपाहरत ॥४॥
सनत्कुमाराद्भगवतो ब्रह्मान ब्रह्मविदुत्तामात ।
लब्धा ज्ञानं सविज्ञानं राजर्षिः कां गतिं गतः ॥५॥
यच्चान्यदपि कृष्णस्य भवान भगवतः प्रभोः ।
श्रवः सुश्रवसः पुण्यं पुर्वदेहकथाश्रयम ॥६॥
भक्ताय मेऽनुरक्ताय तव चाधोक्षजस्य च ।
वक्तुमर्हसि योऽदुह्यार्द्वैन्यरुपेण गामिमाम ॥७॥
सुत उवाच
चोदितो विदुरेणैवं वासुदेवकथां प्रति ।
प्रशस्त तं प्रीतमना मैत्रेयः प्रत्यभाषत ॥८॥
मैत्रेय उवाच
यदाभिषिक्तः पृथुरंग विप्रैरामन्त्रितो जनतायाश्च पालः ।
प्रजा निरत्ने क्षितिपृष्ठ एत्य क्षुत्क्षामदेहाः पतिमभ्यावोचन ॥९॥
वयं राजन जाठरेणाभितप्ता यथाग्निना कोटरस्थेन वृक्षाः ।
त्वामद्य याताः शरणंशरण्यं यः साधितो वृत्तिकरः पतिर्नः ॥१०॥
तत्रो भवानीहतु रावतेऽन्नं क्षुधार्दितांनां नरदेवदेव ।
यावन्न नंक्ष्यामह उज्झितोर्जा वार्तापतिस्त्वं कोल लोकपालः ॥११॥
मैत्रेय उवाच
पृथु प्रजांनां करुणं निशम्य परिदेवितम ।
दीर्घ दध्यौ कुरुश्रेष्ठ निमित्तं सोऽन्वपद्यत ॥१२॥
इति व्यवस्तितो बुद्द्धया प्रगृहितशरासनः ।
सन्दधे विखिखं भुमेः क्रुद्धस्त्रिपुरहा यथा ॥१३॥
प्रवेपमाना धारणी निशाम्योदायुधं च तम ।
गौः सत्यपाद्रवद्भीचा मृगीव मृगयुद्रुता ॥१४॥
तामन्वधावत्तर्द्वैन्यः कुपितऽत्यरुणेक्षणः ।
शरं धनुषि संधाय यत्र यत्र पलायते ॥१५॥
सा दिशो विदिशो देवी रोदसी चान्तरं तयोः ।
धावन्ती तत्र तत्रैनं ददर्शानुद्यतायुधम १६॥
लोके नाविन्दत त्राणं वैन्यान्मृत्योरिव प्रजाः ।
त्रस्ता तदा निववृते हृदयेन विदुयता ॥१७॥
उवाच च महाभागं धर्मज्ञापन्नवत्सल ।
त्राहि मामपि भुतांना पालनेऽवस्थितो भवान ॥१८॥
स त्वं जिघांससे कस्माद्दीनामकृतकिल्बिषाम ।
अहनिष्यत्कथं योषां धर्मज्ञ इति यो मतः ॥१९॥
प्रहरन्ति न वै स्त्रीषु कृतागः स्वपि जन्तवः ।
किमुत त्वद्विधा राजन करुणा दीनवत्सलाः ॥२०॥
मां विपाट्याजरां नावं यत्र विश्वं प्रतिष्ठितम ।
आत्मानं च प्रजाश्चेमा कथमम्भासि धास्यसि ॥२१॥
पृथुरुवाच
वसुधे त्वां वधिष्यामि मच्छासनपराडमुखीम ।
भागं बर्हिषि या वृडक्ते न तनोति च नो वसु ॥२२॥
यवसं जग्धयनुदिनं नैव दोग्ध्यौधसं पयः ।
तस्यामेवं हि दुष्टायां दण्डो नात्र न शस्यते ॥२३॥
त्व खल्वोषधिबीजानि प्राक सृष्टानि स्वयम्भुवा ।
न मुंचस्यात्मरुद्धानि सामवज्ञाय मन्दधीः ॥२४॥
अमुषां क्षुत्परीतानामार्तांना परिदेवितम ।
शमयिष्यामि मद्वाणैर्भिन्नायास्तव मेदसा ॥२५॥
पुमान योषिदुत क्लिब आत्मसम्भाअनोऽधम ।
भुतेषु निरनुक्रशो नृपाणां तद्वधोऽवधः ॥२६॥
त्वां स्तब्धां दुर्मदां नीत्वा मायागां तिलशः शरैः ।
आत्मयोगबलेनेमा धारयिष्याम्यहं प्रजाः ॥२७॥
एवं मन्युमयीं मुर्ति कृतान्तमिव बिभ्रतम ।
प्रणता प्रात्र्जलिः प्राह मही सत्र्जातवेपथुः ॥२८॥
धरोवाच
नमः परस्मै पुरुषाया मायया विन्यस्तनानातनवे गुणात्मने ।
नमः स्वरुपानुभवेन निर्धुतद्र्वयाक्रियाकारकविभ्रमोर्मये ॥२९॥
येनाहमात्मायतनं विनिर्मिता धात्रा यतोऽयं गुणसर्गसंग्रहः ।
स एव मां हन्तुमुदायुधः स्वराडुपस्थितोऽन्यं शरणं कमाश्रये ॥३०॥
य एतदादावसृजच्चरचरं स्वमाययाऽत्माश्रययावितर्क्यया ।
तयैव सोऽयं किलं गोप्तुमुद्यतः कथं नु मां धर्मपरो जिघांसति ॥३१॥
नुनं बतेशस्य समीहितं जनै स्तन्मायया दुर्जययाकृतात्मभिः ।
न लक्ष्यते यस्त्वकरोदकारयद योऽनेक एकः परतश्च ईश्वरः ॥३२॥
सर्गादि योऽस्यानुरुणद्धि शक्तिभिर्द्रव्यक्रियाकारकचेतनात्मभिः ।
तस्मै समुन्नद्धनिरुद्धशक्तये नमः परस्मै पुरुषाय वेधसे ॥३३॥
स वै भवानात्मविनिर्मितं जगद भुतेन्द्रियान्तः करणात्मकं विभो ।
संस्थापयिष्यन्नज मा रसातला दभ्युज्जहाराम्भस आदिसुकरः ॥३४॥
अपामुपस्थे मयि नाव्यवस्थिताः प्रजा भवानद्य रिरक्षिषुः किल ।
स वीरमुर्तिः समभुद्धराधरो यो मां पयस्युग्रशरो जिघांससि ॥३५॥
नूनं जनैरीहितमीश्वराणा मस्मद्विधैस्तदगुणसर्गमायया ।
न ज्ञायते मोहितचित्तवर्त्मभि स्तेभ्यो नमो वीरयशस्कोरभ्यः ॥३६॥
इति श्रीमद्भागवते महापुराणे पारमहंस्या संहितायां चतुर्थस्कन्धे पृथुविजये धरित्रीनिग्रहो नाम सप्तदशोऽध्यायः ॥१७॥