मैत्रेय उवाच
अथ तस्य पुनर्विप्रैरपुत्रस्य महीपतेः ।
बाहुभ्यां मथ्यमानाभ्यां मिथुनं समपद्मत ॥१॥
तद दृष्ट्वा मिथुनं जातमृषयो ब्रह्मवादिनः ।
ऊचुः परमसन्तुष्टा विदित्वा भगवत्कलाम ॥२॥
ऋषय ऊचुः
एष विष्णोर्भगवतः कला भुवनपालिनी ।
इयं च लक्ष्म्याः सम्भुति पुरुषस्यानपायिनी ॥३॥
अत्र तु प्रथमो राज्ञां पुमान प्रथयिता यशः ।
पृथुर्नाम महाराजो भविष्यति पृथुश्रवाः ॥४॥
इयं च सुदती देवी गुणभुषणभुषणा ।
अर्चिर्नाम वरारोह पृथुमेवावरुन्धती ॥५॥
एष साक्षाद्धरेरंशो जातो लोकरिरक्षया ।
इयं च तत्परा हि श्रीरनुजज्ञेऽनपायिनी ॥६॥
मैत्रेय उवाच
प्रशंसन्ति स्म तं विप्रा गन्धर्वप्रवरा जगुः ।
मुमुचुः सुमनोधाराः सिद्धा नृत्यन्ति स्वःस्त्रियः ॥७॥
शंखतूर्यमृदगंद्या नेदुर्दुन्दुभयो दिवि ।
तत्र सर्व उपाचग्मुर्देवार्षिपितृणां गणाः ॥८॥
ब्रह्मा जगदगुरुर्देवैः सहासृत्य सुरेश्वरैः ।
वैन्यस्य दक्षिणे हस्ते दृष्ट्वा चिह्नं गदाभृतः ॥९॥
पादयोररविन्दं च तं वै मने हरेः कलाम ।
यस्याप्रतिहतं चक्रमंशः स परमेष्ठिनः ॥१०॥
तस्याभिषेक आरब्धो ब्राह्मणैर्ब्रह्मावादिभिः ।
आभिषेचनिकान्यस्मै आजह्रु सर्वतो जनाः ॥११॥
सरित्समुद्रा गिरयो नागा गावःखगा मृगाः ।
द्यौः क्षितीः सर्वभुतानि समाजह्रुरुपायनम ॥१२॥
सोऽभिषिक्तो महाराजः सुवासाः साध्वलंकृतः ।
पत्न्यार्चिषालंकृतया विरेजेऽग्रिरिवापरः ॥१३॥
तस्मै जहर धनदो हैमं वीर वरासनम ।
वरुणः सलिलस्रावमातपत्रं शशिप्रभम ॥१४॥
वायुश्च वालव्यजने धर्मः कीर्तिमयीं स्रजम ।
इन्द्र कीरीटमुत्कृष्टं दण्डं संयमनं यमः ॥१५॥
ब्रह्मा ब्रह्मामयं वर्म भारती हारमुत्तमम ।
हरिः सुदर्शनं चक्रं तत्पन्त्यव्याहतां श्रियम ॥१६॥
दशचन्द्रमसिं रुद्रः शतचन्द्र तथाम्बिका ।
सोमोऽमृतमयानश्वांस्त्वष्टा रुपाश्रयां रथम ॥१७॥
अग्निराजगवं चापं सुर्यो रश्मिमयानिषुन ।
भुः पादुके योगमय्यो द्यौः पुष्पावलिमन्वहम ॥१८॥
नाट्यं सुगीतं वादित्रमन्तर्धन च खेचराः ।
ऋषयश्चाशिषः सत्यः समुद्रः शंखमात्मजम ॥१९॥
सिन्धवः पर्वता नद्यो रथवीथीर्महात्मनः ।
सुतोऽथ मागधो बन्दी तं स्तोतुमुपतस्थिरे ॥२०॥
स्तावकांस्तानभिप्रेत्य पृथुर्वैन्यः प्रतापवान ।
मेघनिर्हाद्या वाचा प्रहसन्निदमब्रवीत ॥२१॥
पृथुरुवाच
भोः सुत हे मागध सौम्य बन्दींल्लोकेऽधुनास्पष्टगुणस्य मे स्यात ।
किमाश्रयो मे स्तव एष योज्यतां मा मय्यभुवन वितथा गिरो वः ॥२२॥
तस्माप्तरोक्षेऽस्मदुपश्रुतान्यलं करिष्यथ स्तोत्रमपीच्यवाचः ।
सत्युत्तमश्लोकगुणानुवादे जुगुप्सितं न स्तवयन्ति सभ्याः ॥२३॥
महदगुणानात्मनि कर्तुमीशः कः स्तावकैः स्तावयतेऽसतोऽपि ।
तेऽस्याभविष्यान्निति विप्रलब्धो जनावहासं कुमतिर्न वेद ॥२४॥
प्रभवो ह्यात्मनः स्तोत्रं जुगुप्सन्त्यापि विश्रुताः ।
ह्रीमन्तः परमोदाराः पौदषं वा विगर्हितम ॥२५॥
वयं त्वविदिता लोक सुताद्यापि वरिमभिः ।
कर्मभिः कथमात्मानं गापयिष्याम बालवत ॥२६॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे पृथुचरिते पंचदशोऽध्यायः ॥१५॥