मैत्रेय उवाच
भगवानपि वैकुण्ठः साकं मघवता विभुः ।
यज्ञैर्यज्ञपतिस्तुष्टो यज्ञभुक तमभाषत ॥१॥
श्रीभगवानुवाच
एष तेऽकारषीद्भंग हयमेधशतस्य ह ।
क्षमापयत आत्मानममुष्य क्षन्तुमर्हसि ॥२॥
सुधियः साधवो लोके नरदेव नरोत्तमाः ।
नाभिद्रुहान्ति भुतेभ्यो यर्हि नात्मा कलेवरम ॥३॥
पुरुषा यदि मुह्रान्ति त्वादृशा देवमायया ।
श्रम एव परं जातो दीर्घया वृद्धसेवया ॥४॥
अतः कायमिमं विद्वानविद्याकामकर्मभिः ।
आरब्ध इति नैवास्मिन प्रतिबुद्धोऽनुषज्जते ॥५॥
असंसक्तःशरीरेऽस्मिन्नमुनोप्तादिते गृहे ।
अपत्ये द्रविणे वापि कः कुर्यान्ममतां बुधः ॥६॥
एकः शुद्धः स्वयंज्योतिर्निर्गुणोऽसौ गुणाश्रयः ।
सर्वगोऽनावृतः साक्षी निरात्माऽत्माऽऽत्मनः परः ॥७॥
य एवं सन्तमात्मानमात्मस्थं वेद पुरुषः ।
नाज्यते प्रकृतिस्थोऽपि तदगुणैः स मयि स्थितः ॥८॥
यः स्वधर्मेण मां नित्यं निराशीः श्रद्धयान्वितः ।
भजते शनकैस्तस्य मनो राजन प्रसीदति ॥९॥
परित्यक्तगुण सम्यग्दर्शनो विशदाशयः ।
शान्ति मे समवस्थानं ब्रह्मा कैवल्यमश्रुते ॥१०॥
उदासीनमिवाध्यक्षं द्रव्यज्ञानक्रियात्मनाम ।
कुटस्थामिममात्मानं यो वेदाप्रोति शोभनम ॥११॥
भिन्नय लिंगस्य गुणप्रवहो द्रव्यक्रियाकारकचेतनात्मनः ।
दृष्टासु सम्पत्सु विपत्सु सुरयो न विक्रियन्ते मयि बद्धसौहृदाः ॥१२॥
समः समानोत्तममध्यमाधमः सुखे च दुःखे जितेन्द्रियाशयः ।
मयोकप्कृत्पाखिललोकसंयुतो विधत्स्व वीराखिललोकरक्षणमक ॥१३॥
श्रेयाः प्रजापालनमेव राज्ञो यत्साम्पराये सुकृताम षष्ठमंशम ।
हर्तान्यथा हृतपुण्यः प्रजाना मरक्षिता करहारोऽघमत्ति ॥१४॥
एवं द्विजाग्रयानुमतानृवृत धर्मप्रधानोऽन्यतमोऽवितास्याः ।
ह्रस्वेन कालेन गृहोपयातान द्रष्टासि सिध्दननुरक्तलोकः ॥१५॥
वरं च मत कंचन मानवेन्द्र वृणीष्व तेऽहं गुणशीलयन्त्रितः ।
नाहं मखैर्व सुलभस्तपोभि र्योगेन वा यत्समचितवर्ति ॥१६॥
मैत्रेय उवाच
स इत्थं लोकगुरुणा विष्णक्सेनेन विश्वजित ।
अनुशासित आदेश शिरसा जगृहे हरेः ॥१७॥
स्पृशन्तं पादयोऽप्रेम्णा व्रीडितं स्वेन कर्मणा ।
शतक्रतुं परिष्वज्य विद्वेषं विससर्ज ह ॥१८॥
भगवानथ विश्वात्मा पृथुनोपहृतार्हणः ।
समुज्जहानया भक्त्या गृहितचरणाम्बुजः ॥१९॥
प्रस्थानाभिमुखोऽप्येनमनुग्रहविलम्बितः ।
पश्यन पद्मपलाशाक्षो न प्रतस्थे सुहृत्सताम ॥२०॥
स आदिराजो रचितात्र्जलिर्हरिं विलोकितृं नाशकदश्रुलोचनः ।
न कित्र्चनोवाच स बाष्पविक्लवो हृदोपगुह्यामुमधादवस्थितः ॥२१॥
अथावमृज्याश्रुकला विलोकयन अतृप्तदृगगोचरमाह पुरुषम ।
पदा स्पृशन्तं क्षितिमंस उन्नते विन्यस्तहस्ताग्रमुरंगविद्विषः ॥२२॥
पृथुरुवाच
वरान विभो त्वद्वरदेश्वराद बुधः कथं वृणीते गुणविक्रियात्मनाम ।
ये नारकाणामपि सन्ति देहिनां तानीश कैवल्यपते वृणे न च ॥२३॥
न कामये नाथ तदप्यहं क्वचिन न यत्र युष्मच्चरणाम्बुजासवः ।
महत्तमान्तर्हृदयान्मुखच्युतो विधत्स्व कर्णायुतमेष मे वरः ॥२४॥
स उत्तमश्लोक महन्मुखच्युतो भवत्पदाम्भोजसुधाकणानिलः ।
स्मृर्ति पुनर्विस्मृततत्ववर्त्मनां कुयोगिनां नो वितरत्यलं वरैः ॥२५॥
यशः शिवं सुश्रव आर्यसंगमे यदृच्छया चोपश्रुणोति ते सकृत ।
कथं गुणज्ञो विरमेद्विना पशुं श्रीर्यत्प्रवतव्रे गुणसंग्रहेच्छय ॥२६॥
अथाभजे त्वाखिलपुरुषोत्तमं गुणालयं पद्मकरेव लालसः ।
अप्यावयोरेकपतिस्प्रुधोः कलि र्न स्यात्कृतत्वच्चरणैकतानयोः ॥२७॥
जगज्जनन्यां जगदीशा वैशसं स्यादेव यत्कर्मणि न समीहितम ।
कसेषि फल्ग्वप्युरु दीनवत्सलः स्व एवं धिष्णेऽभिरतस्य किं तया ॥२८॥
भजन्त्यथ त्वामत एव साधवो व्युदस्तमायागुणविभ्रमोदयम ।
भवत्पदानुस्मरणादृते सतां निमित्तमन्यद्भगवन्न विद्यहे ॥२९॥
मन्ये गिरं ते जगतां विमोहिनीं वरं वृणीष्वेति भजन्तमात्थ यत ।
वाचा नु तन्त्या यति ते जनोऽसितः कथं पुनः कर्म करोति मोहितः ॥३०॥
त्वन्माययाद्धा जन ईश खण्डितो यदन्यदाशास्त ऋतात्मनोऽबुधः ।
यथा चरेदबालहितं पिता स्वयं तथा त्वमेवार्हसि न समीहितुम ॥३१॥
मैत्रेय उवाच
इत्यादिराजेन नुतः स विश्वदृक तमाह राजन मयि भक्तिरस्तु ते ।
दिष्टयेदृशी धीर्मयि ते कृता यया मायां मदीयां तरति स्म दुस्त्यजाम ॥३२॥
तत त्वं कुरु मयाऽऽदिष्टमप्रमत्तः प्रजापते ।
मदादेशकरो लोकः सर्वत्राप्नोति शोभनम ॥३३॥
मैत्रेय उवाच
इति वैन्यस्य राजर्षेः प्रतिनन्द्यार्थवद्वचः ।
पूजितोऽनुगृहीत्वैनं गन्तुं चक्रेऽच्युतो मतिम ॥३४॥
देवर्षिपितृगन्धर्वसिद्धचारणपन्नगाः
किन्नराप्सरसो मर्त्याः खगा भुतान्यनेकशः ॥३५॥
यज्ञेश्वरधिया राज्ञा वाग्वितात्र्जालिभक्तितः ।
सभाजिता ययुः सर्वे वैकुण्ठानुगतास्ततः ॥३६॥
भगवानपि राजर्षेः सोपाध्यायस्य चाच्युतः ।
हरन्निव मनोऽमुष्य स्वधाम प्रत्यपद्मत ॥३७॥
अदृष्टाय नमस्कृत्य नृपः सन्दर्शितात्मने ।
अव्यक्ताय च देवानां देवाय स्वपुरं ययौ ॥३८॥
इति श्रीमद्भागवते महापुराणे पारमहंस्या संहितायां चतुर्थस्कन्धे विंशोऽध्यायः ॥२०॥