मैत्रेय उवाच
प्रजापतेर्दुहितरं शिशुमारस्य वै ध्रुवः ।
उपयेमे भ्रमिं नाम तत्सुतौ कल्पवत्सरौ ॥१॥
इलायामापि भार्यांयां वायोः पुत्र्यां महाबलः ।
पुत्रमुत्कलनामानं योषिद्रत्नमजीजनत ॥२॥
उत्तमस्त्वकृतोद्वाहो मृगयायां बलियसा ।
हतः पुण्यजनेनाद्रौ तन्मातास्य गतिं गता ॥३॥
ध्रुवो भ्रातृवधं श्रुत्वा कोपामर्षशुचार्पितः ।
जैत्रं स्यन्दनमास्थाय गतः पुण्यजनालयम ॥४॥
गत्वोदीचीं दिशं राजा रुद्रानुचरसेविताम ।
ददर्श हिमवदद्रोण्यां पुरीं गुह्याकसंकुलाम ॥५॥
दध्मौ शंख बृहद्वाहुः खं दिशश्चानुनदयन ।
येनोद्विग्रदृशः क्षत्तरुपदेव्योऽत्रसन्भृशम ॥६॥
ततो निष्क्रम्य बलिन उपदेवमहाभटाः ।
असहन्तस्तन्निनादमभिपेतुरुदायुधाः ॥७॥
स तानापततो वीर उग्रधन्वा महारथः ।
एकैकं युगपत्सर्वानहन बाणैस्त्रिभिस्त्रिभिः ॥८॥
ते वै ललाटलग्नैस्तैरिषुभिः सर्व एव हि ।
मत्वा निरस्तमात्मानमांशसन कर्म तस्य तत ॥९॥
तेऽपि चामुममृष्यन्तः पादस्पर्शमिवोरगाः ।
शरैरविध्यन युगपद द्विगुणं प्रचिकीर्षवः ॥१०॥
ततः परिघनिश्त्रिशैः प्रासशुलपरश्वधैः ।
शक्त्यृष्टिभिर्भुशुण्डीभिश्चित्रवाजैः शरैरपि ॥११॥
अभ्यवर्षन प्रकुपिताः सरथं सहसारथिम ।
इच्छन्तस्तत्प्रतीकर्तुमयुतानि त्रयोदश ॥१२॥
औतानपादिः स तदा शस्त्रवर्षेण भुरिणा ।
न उपादृश्यत च्छन्न आसारेण यथा गिरिः ॥१३॥
हाहाकारस्तदैवासीत्सिद्धानां दिवि पश्यताम ।
हतोऽयं मानवः सुर्यो मग्नः पुण्यजनार्णवे ॥१४॥
नदत्सु यातुधानेषु जयकाशिष्वथो मृधे ।
उदतिष्ठद्रथस्तस्य नीहारादिव भास्करः ॥१५॥
धनुर्विस्फूर्जयन्दिव्यं द्विषतां खेदमुद्वहन ।
अस्त्रौघं व्यधमद्वाणैर्घनानीकमिवानिलः ॥१६॥
तस्य ते चापनिर्मुक्ता भित्वा वर्माणि रक्षसाम ।
कायानाविविशुस्तिग्मा गिरिनशनयो यथा ॥१७॥
भल्लैः संछिद्यमानांना शिरोभिश्चारुकुण्डलैः ।
ऊरुभिर्हेमतालाभैर्दोर्भिर्वलयवल्गुभिः ॥१८॥
हारकेयुरमुकुटैरुष्णीषैश्च महाधनैः ।
आस्तृतास्ता रणभुवो रेजुर्वीरमनोहराः ॥१९॥
हतावशिष्ठा इतरे रणाजिराद रक्षोगणाः क्षत्रियवर्यसायकैः ।
प्रायो विवृक्णावयवा विदुद्रुवुर्मृगेन्द्रविक्रीडीतयुथपा इव ॥२०॥
अपश्यमानः स तदाऽऽततायिनं महामृधे कंचन मानवोत्तमः ।
पुरीं दिदृक्षन्नपि नाविशद द्विषां न मायिनां वेद चिकीर्षितं जनः ॥२१॥
इति ब्रुवंश्चित्ररथः स्वसारथिं यत्तः परेषां प्रतियोंगशकिंतः ।
शुश्राव शब्दं जलधेरिवे रितं नभस्वतो दिक्षु रजोऽन्वदृश्यत ॥२२॥
क्षणेनाच्छदितं व्योम घनानीकेन सर्वतः ।
विस्फुरत्तडिता दिक्षु त्रासयत्स्तनयित्नुना ॥२३॥
ववृषु रुधिरौघासृकपुयविण्मुत्रमेदसः ।
निपेतुर्गगनादस्य कबन्धान्यग्रतोऽनघ ॥२४॥
ततः खेऽदृश्यत गिरिर्निपेतुः सर्वतोदिशम ।
गदापरिघनिस्त्रिंशमुसलाः साश्मवर्षिणः ॥२५॥
अहयोऽशनिनिःश्वासा वनन्तोऽग्नी रुषाक्षिभिः ।
अभ्यधावन गजा मत्ताः सिंहव्याघ्राश्च युथशः ॥२६॥
समुद्र ऊर्मिभिर्भीमः प्लावयन सर्वतो भुवम ।
आससाद महाह्रादः कल्पान्त इव भीषणः ॥२७॥
एवंविधान्यतेकानि त्रासनान्यमनस्विनाम ।
ससृजुस्तिग्मगतम आसुर्या माययासुराः ॥२८॥
ध्रुवे प्रयुक्तामसुरैस्तां मायामतिदुस्तराम ।
निशाम्य तस्य मुनयः शमाशंसन समागताः ॥२९॥
मुनय ऊचुः
औत्तानपादे भगवांस्तव शांर्गधन्व देवः क्षिणोत्ववनतार्तिहरो विपक्षान ।
यत्रामधेयमभिधाय निशम्य चाद्धा लोकोऽत्र्जसा तरति दुस्तरमंग मृत्युम ॥३०॥
इति श्रीमद्भागवते महापुराणे पारमंहंस्या संहितायां चतुर्थस्कन्धे दशमोऽध्यायः ॥१०॥