मैत्रेय उवाच
मनोस्तु शतरुपायां तिस्रः कन्याश्च जज्ञिरे ।
आकूतिर्देवहुतिश्च प्रसुतिरिति विश्रुताः ॥१॥
आकूर्तिं रुचये प्राददपि भ्रातमतीं नृपः ।
पुत्रिकाधर्ममाश्रित्य शतरुपानुमोदितः ॥२॥
प्रजापतिः स भगवान रुचिस्तस्यामजीजनत ।
मिथुनं ब्रहमवर्चस्वी परमेण समाधिना ॥३॥
यस्तयो पुरुषः साक्षाद्विष्णुर्यज्ञस्वरुपधृक ।
या स्त्री सा दक्षिणा भुतेरंशभुतानपायिनी ॥४॥
आनिन्ये स्वगृहं पुत्र्यां पुत्रं विततरोचिषम ।
स्वायम्भुवो मुदा युक्तो रुचिर्जग्राह दक्षिणाम ॥५॥
तां कामयानां भगवानुवाह यजुषां पतिः ।
तुष्टायां तोषमापनोऽजनयद द्वादशात्मजान ॥६॥
तोषः प्रतोषः संतोषो भद्रः शान्तिरिडस्पतिः ।
इध्मः कविर्विभुः स्वह्नः सुदेवो रोचनो द्विषट ॥७॥
तुषिता नाम ते देवा आसन स्वायम्भुवान्तरे ।
मरीचिमिश्रा ऋषयो यज्ञः सुरगणेश्वरः ॥८॥
प्रियव्रतोत्तानपादौ मनुपुत्रौ महौजसौ ।
तत्पुत्रपौत्रनत्पृनामनुवृत्तं तदन्तरम ॥९॥
देवहुतिमदात्तात कर्दमायात्मजां मनुः ।
तत्सम्बन्धि श्रुतप्रायं भवता गदतो मम ॥१०॥
दक्षाय ब्रहमपुत्राय प्रसुतिं भगवान्मनुः ।
प्रायच्चद्यत्कृतः सर्गस्त्रिलोक्यां विततो महान ॥११॥
याः कर्दमसुताः प्रोक्ता नव ब्रह्मर्षितत्नयः ।
तासां प्रसुतिप्रसवं प्रोच्यमानं निबोध मे ॥१२॥
पत्नी मरीचेस्तु कला सुषुवे कर्दमात्मजा ।
कश्यपं पुर्णिमानं च ययोरापुरितं जगत ॥१३॥
पूर्णिमासुत विरजं विश्वगं च परंतप ।
देवकुल्या हरेः पादशौचाद्युआभूत्सरिद्दिवः ॥१४॥
अत्रेः पत्न्यनसुया त्रींजज्ञे सुयशसः सुतान ।
दत्तं दुर्वाससं सोमामत्मेशब्रह्मासम्भवान ॥१५॥
विदुर उवाच
अत्रेर्गृहे सुरश्रेष्ठाः स्थित्युत्पत्त्यन्तहेतवः ।
कित्र्चिच्चिकीर्षवो जाता एतदाख्यहि मे गुरो ॥१६॥
मैत्रेय उवाच
ब्रह्माण नोदितः सृष्टावत्रिर्बह्माविदां वरः ।
सह पन्त्या ययौ ऋक्षं कुलाद्रि तपासि स्थितः ॥१७॥
तस्मिन प्रसुनस्तबकपलाशाशोककानने ।
वार्भिः स्रवद्भिरुदघुष्टे निर्विध्यायाः समन्ततः ॥१८॥
प्राण्यायामेन संयम्य मनो वर्षशतं मुनिः ।
अतिष्ठदेकपादेन निर्द्वन्द्वोऽनिलभोजनः ॥१९॥
शरणं तं प्रपद्येऽहं य एवं जगदीश्वरः ।
प्रजामात्मसमा महां प्रयच्छत्वितः चिन्तयन ॥२०॥
तप्यमानं त्रिभुवनं प्रान्यायामैधमाग्निना ।
निर्गतेन मुनेर्मुर्ध्रः समीक्ष्य प्रभवस्त्रयः ॥२१॥
अप्सरोमुनिगन्धर्वसिद्धविद्याधरोरगैः ।
वितायमानयशस्तदश्रमपदं ययुः ॥२२॥
तत्प्रादुर्भावसंयोविद्योतितमना मुनिः ।
उत्तिष्ठन्नेकपादेन ददर्श विबुधर्मभान ॥२३॥
प्रणम्य दण्डवद्भुमावुपतस्थेऽर्हणत्र्जालिः ।
वृषहंससौपर्णस्थान स्वै स्वैश्चिह्नैश्च चिह्नितान ॥२४॥
कृपावलोकेन हसद्वदनेनोपलम्भितान ।
तद्रोचिषा प्रतिहते निमील्य मुनिरक्षिणी ॥२५॥
चेतस्तत्प्रवणं युत्र्जन्नस्तावीत्संहतात्र्जलिः ।
श्लक्ष्णया सुक्तय वाचा सर्वलोकगरीयसः ॥२६॥
अत्रिरुवच
विश्वोद्भवस्थितिलयेषु विभज्यमानै र्मायागुणैरनुयुगं विगृहीतदेहाः ।
ते ब्राह्मविष्णुगिरिशाः प्रणतोऽस्म्यहं व स्तेभ्यः क एव भवतां म इहोपहुतः ॥२७॥
एको मयेह भगवान विबुधप्रधान श्चित्तीक्रूटाः प्रजननाय कथं नु युयम ।
अत्रागतास्तनुभृतां मनसोऽपि दुरा ब्रुत प्रसीदत महानिह विस्मम्यो मे ॥२८॥
मैत्रेय उवाच
इति तस्य वचः श्रुत्वा त्रयस्ते विबुधर्षभाः ।
प्रत्याहुः श्लक्ष्णया वाचा प्रहस्य तमृषिं प्रभोः ॥२९॥
देवा ऊचुः
यथा कृतस्ते संगल्पो भाव्यं तेनैव नान्यथा ।
सत्संगक्ल्पस्य ते ब्रह्मान यद्वै ध्यायति ते वयम ॥३०॥
अथास्मदंशभुतास्ते आत्मजा लोकविश्रुताः ।
भवितारोऽगं भद्रं ते विस्रप्स्यन्ति ते यशः ॥३१॥
एवं कामवरं दत्वां प्रतिजग्मुः सुरेश्वराः ।
सभाजितास्तयोः सम्यग्दम्पत्यार्मिषोस्ततः ॥३२॥
सोमोऽभुद ब्रह्मार्णोऽशोन दत्तो विष्णोस्तु योगवित ।
दुर्वासाः शंकरस्याशो निबोधाडिरसः प्रजाः ॥३३॥
श्रद्धा त्वंगिरसः पत्नी चतस्रोऽसुत कन्यकाः ।
सिनीवाली कुहु राका चतुर्थ्यनुमातिस्तथा ॥३४॥
तत्पुत्रावपरावास्तां ख्यातौ स्वारोचिषेऽन्तरे ।
उत्थ्यो भगवान साक्षादब्रहिष्ठश्च बृहस्पतिः ॥३५॥
पुलस्त्योऽजनयत्पन्यामगस्त्यं च हविर्भुवि ।
सोऽन्यजन्मनि दह्राग्निर्विश्रवाश्च महातपाः ॥३६॥
तस्य यक्षपतिर्देवः कुबेरस्त्विडविडासुत ।
रावणः कुम्भकर्नश्च तथान्यस्यां विभिषणः ॥३७॥
पुलहस्य गतिर्भार्या त्रीनसुत सती सुतान ।
कर्मश्रेष्ठं वरीयांसं सहिष्णुं च महामते ॥३८॥
क्रतोरपि क्रिया भार्या वालखिल्यानसुयत ।
ऋषीन्षष्टिसहस्राणि ज्वलतो ब्रह्मतेजसा ॥३९॥
ऊर्जायां जज्ञिरे पुत्रा वसिष्ठस्य परंतप ।
चित्रकेतुप्रधानास्ते सत्प ब्रह्मार्षयेऽमलाः ॥४०॥
चित्रकेतुः सुरोचिश्च विरजा मित्र एव च ।
उल्बणो वसुभृद्यानो द्युमान शक्त्यादयोऽपरे ॥४१॥
चित्तिस्त्वथर्वणः पत्नी लेभे पुत्रं धृतव्रतम ।
दध्यंचमश्वशिरसं भृगोर्वशं निबोध मे ॥४२॥
भृगुः ख्यात्यां महाभागः पत्न्यां पुत्रानजीजनत ।
धातारं च विधातारं श्रियं च भगवत्पराम ॥४३॥
आयतिं नियतिं चैव सुते मेरुस्तयोरदात ।
ताभ्यां तयोरभवतां मृकण्डः प्राण एव च ॥४४॥
मार्कण्डेयो मृकण्डस्य प्राणाद्वेदशिरा मुनिः ।
कविश्च भार्गवो यस्य भगवानुशना सुतः ॥४५॥
त एते मुनयः क्षत्तर्लोकान सर्गैरभावयन ।
एष कर्दमदौहित्रसंतानः कथितस्तव ।
श्रृण्वतः श्रद्धधानस्य सद्यः पापहरः परः ॥४६॥
प्रसुतिं मानवीं दक्ष उपयेमे ह्याजात्मजः ।
तस्या ससर्ज दुहितृः षोडशामललोचनाः ॥४७॥
त्रयोदशादाद्भर्मय तथैकामग्नये विभुः ।
पितृभ्य एकां युक्तेभ्यो भवायैकां भवच्छिदे ॥४८॥
श्रद्धा मैत्री दया शान्तिस्तुष्टिः पुष्टीः क्रियोन्नतिः ।
बुद्धीर्मेधा तितिक्षा ह्नीर्मुर्तिर्धर्मस्य पत्नयः ॥४९॥
श्रद्धासुत शुभं मैत्री प्रसादमभयं दया ।
शान्तिः सुखं मुदं तृष्टिः स्मयं पुष्टिरसुयत ॥५०॥
योगं क्रियोन्नतिर्दर्पमर्थं बुद्धिरसुयत ।
मेधा स्मृतिं तितिक्षा तु क्षेमं ह्नीः प्रश्रयं सुतम ॥५१॥
मूर्तिः सर्वगुणोत्पत्तिर्नरनारायणावृषी ॥५२॥
ययोर्जन्मन्यदो विश्वमभ्यनन्दतुनिर्वृतम ।
मनांसि ककुभो वाताः प्रसेदुः सरितोऽद्रयः ॥५३॥
दिव्यवाद्यन्त तुर्याणि पेतुः कुसुमवृष्ट्यः ।
मुनयस्तुष्टुवुस्तुष्टा जगुर्गन्धर्वकिन्नराः ॥५४॥
नृत्यन्ति स्म स्त्रियो देव्य आसीत्परमंगलम ।
देवा ब्रह्मादय सर्वे उपतस्थुरभिष्टवैः ॥५५॥
देवा ऊचुः
यो मायया विरचितं निजयाऽऽत्मनीदं खे रुपभेदमिव तत्प्रतिचक्षणाय ।
एतेन धर्मसदने ऋषिमुर्तिनाद्य प्रादुश्चकार पुरुषाय नमः परस्मै ॥५६॥
सोऽयं स्थितिव्यतिकरोपशमाय सुष्टान सत्त्वेन नः सुरगणाननुमेयतत्त्व ।
दृश्याददभ्रकरुणेन विलोकनेन यच्छ्रीनिकेतममलं क्षिततारविन्दम ॥५७॥
एवं सुरगणैस्तात भगवन्तावभिष्टुतौ ।
लब्धावलोकैर्ययतुरचितौ गन्धमादनम ॥५८॥
ताविमौ वै भगवतो हरेरंशाविहागतौ ।
भारव्ययाय च भुवः कृष्णौ यदकुरुद्वहौ ॥५९॥
स्वाहाभिमानिनश्चाग्रेरात्मजांस्त्रीनजीजनत ।
पावकं पवमानं च शुचिं च हुतभोजनम ॥६०॥
तेभ्योऽग्रयः समभवन चत्वारिशच्च पंच च ।
त एवैकोनपंत्र्चाशत्स्काकं पितृपितामहैः ॥६१॥
वैतानिके कर्मणि यन्नामभिर्ब्रह्मावादिभिः ।
आग्नेय्य इष्टयो यज्ञे निरुप्यन्तेऽग्रयस्तु ते ॥६२॥
अग्निष्वात्ता बर्हिषदः सौम्याः पितरः आज्यपाः ।
साग्नयोऽनग्नयस्तेषां पत्नी दाक्षायणी स्वधा ॥६३॥
तेभ्यो दधार कन्ये द्वे वयुनां धारिणीं स्वधा ।
उभे ते ब्रह्मावादिन्यौ ज्ञानविज्ञानपारगे ॥६४॥
भवस्य पत्नी तु सती भवं देवमनुव्रता ।
आत्मनः सदृशं पुत्रं न लेभे गुणशीलतः ॥६५॥
पितर्यप्रतिरुपे स्वे भवायानागसे रुषा ।
अप्रौढैवात्मनाऽऽत्मानमजहाद्योगसंयुता ॥६६॥
इति श्रीमद्भागवते महापुराणे पारमंहंस्या संहितायां चतुर्थस्कन्धे विदुरमैत्रेयसंवादे प्रथमोऽध्यायः ॥१॥