मैत्रेय उवाच
मौक्तिकैः कुसुमस्त्राग्भिर्दुकूलैः स्वर्णतोरणैः ।
महासुरभिभिर्धूपैर्मण्डितं तत्र तत्र वै ॥१॥
चन्दनागुरुतोयार्द्ररथ्याचत्वरमार्गवत ।
पुष्पाक्षतफलैस्तोक्मैर्लाजैरर्चिर्भिरर्चितम ॥२॥
सवृन्दैः कदलीस्तम्भैः पुगपोतैः परिष्कृतम ।
तरुपल्लवमालाभिः सर्वतः समलंकृतम ॥३॥
प्रजास्तं दीपबलिभिः सम्भृताशेषमंगलैः ।
अभीयुर्मृष्टकन्याश्च मृष्टकुण्डलमण्डिताः ॥४॥
शंखदुन्दुभिघोषेण ब्रह्माघोषेण चर्त्विजाम ।
विवेश भवनं वीरः स्तुयमानो गतस्मयः ॥५॥
पुजितः पुजयामास तत्र तत्र महायशाः ।
पौरात्र्जानपदांस्तांस्तान प्रीतः प्रियवरप्रदः ॥६॥
स एवमादीन्यनवद्यचेष्टितः कर्माणि भुयांसि महान्महत्तमः ।
कुर्वन शशसावनिमण्डलं यशः स्फीत निधायारुरुहे परं पदम ॥७॥
सुत उवाच
तदादिराजस्य यशो विजृम्भितं गुणैरशेषैर्गुणवत्सभाजितम ।
क्षत्ता महाभागवतः सदस्पते कौषारविं प्राह गृणन्तमर्चयन ॥८॥
विदुर उवाच
सोऽभिषिक्तः पृथुर्विप्रैर्लब्धाशेषसुरार्हणः ।
बिभ्रत स वैष्णवं तेजो बाह्नोर्याभ्यां दुदोह गाम ॥९॥
को न्वस्य कीर्तिं न श्रृणोत्याभिज्ञो यद्विक्रमोच्छिष्टमशेषभुपाः ।
लोकाः सपाला उपजीवन्ति काम मद्यापि तन्मे वद कर्म शुद्धम ॥१०॥
गंगायमुनयोर्नद्योरन्तराक्षेत्रमावसन ।
आरब्धानेव बुभुजे भोगान पुण्यजिहासया ॥११॥
सर्वत्रास्खलितादेशः सप्तद्वीपैकदण्डधृक ।
अन्यत्र ब्राह्मणकुलादन्यत्राच्युतगोत्रतः ॥१२॥
एकदाऽऽसीन्महासत्रदीक्षा तत्र दिवौकसाम ।
समाजो ब्रह्मार्षीणां च राजर्षीणां च सत्तम ॥१३॥
तस्मिन्नर्हत्सु सर्वेषु स्वर्चितेषु यथार्हतः ।
उत्थितः सदसो मध्ये तराणामुडुराडिव ॥१४॥
प्रांशुः पीनायतभुजो गौरः कत्र्जारुणेक्षणः ।
सुनस सुमुखः सौम्यःपीनासः सुद्विजस्मितः ॥१५॥
व्युढवक्षा बृहच्छ्रोणिर्वलिवल्गुदलोदरः ।
आवर्तनाभिरोजस्वी कात्र्चनोरुरुदग्रपात ॥१६॥
सुक्ष्मवक्रासितस्निग्धमुर्धजः कम्बुकन्धरः ।
महाधने दुकुलग्रट्ये परिधायोपवीय च ॥१७॥
व्यात्र्जिताशेषगात्रश्रीर्नियमे न्यस्तभुषणः ।
कृष्णाजिनधरः श्रीमान कुशपाणिः कृतोचितः ॥१८॥
शिशिरस्निग्धताराक्षः समैक्षत समन्ततः ।
ऊचिवानिदमुर्वीशः सदः संहर्षयन्निव ॥१९॥
चारु चित्रपदं श्लक्ष्णं मृष्टं गुढमविक्लवम ।
सर्वेषामुपकरार्थ तदा अनुवदन्निव ॥२०॥
राजोवाच
सभ्या श्रृणुत भद्रं वः साधवो य इहागताः ।
सत्सु जिज्ञासुभिर्धर्ममावेद्यं स्वमनीषितम ॥२१॥
अहं दन्डधरो राजा प्रजानामिह योजितः ।
रक्षितो वृत्तिदः स्वेषु सेतुषु स्थापिता पृथक ॥२२॥
तस्य मे तदनुष्ठानाद्यानहुर्बह्मावादिनः ।
लोकाः स्युः कामसन्दोहा यस्य तुष्यति दिष्टदृक ॥२३॥
य उद्धरेत्करं राजा प्रजा धर्मेष्वशिक्षयन ।
प्रजानां शमलं भुक्तें भगं च स्वं जहाति सः ॥२४॥
तत प्रजा भर्तुपिण्डार्थ स्वार्थमेवानसुयवः ।
कुरुताधोक्षजधियस्तर्हि मेऽनुग्रहः कॄतः ॥२५॥
युयं तदनुमोदध्वं पितृदेवर्षयोऽमलाः ।
कर्तृः शस्तुरनुज्ञातुस्तुल्यं यत्प्रेत्य तत्फलम ॥२६॥
अस्ति यज्ञपतिर्नाम केषात्र्चिदर्हसत्तमाः ।
इहामुत्र लक्ष्यन्ते ज्योत्स्नावत्यः क्वचिद्भुवः ॥२७॥
मनोरुत्तानपादस्य ध्रुवस्यापि महीपतेः ।
प्रियव्रतस्य राजर्षेरंगस्यास्मत्पितुः पितुः ॥२८॥
ईद्वशानामथान्येषामजस्य च भवस्य च ।
प्रह्नादस्य बलेश्चापि कृत्यमस्ति गदाभृता ॥२९॥
दौहित्रादीनृते मृत्योः शोच्यान धर्माविमोहितान ।
वर्गस्वर्गापवर्गाणां प्रायेणैकात्म्यहेतुना ॥३०॥
यत्पादसेवाभिरुचिस्तपस्विनामशेषजन्मोपचितं मलं धियः ।
सद्यः क्षिणोत्यन्वहमेधती सती यथा पदांगुष्ठविनिःसृता सरित ॥३१॥
विनिर्धुताशेषमनोमलः पुमा नसंगविज्ञानविशेषवीर्यवान ।
यदंगघ्रिमले कृतकेतनः पुन र्न संसृतिं क्लेशवहां प्रपद्यते ॥३२॥
तमेव युयुअं भजतात्मवृत्तिभिर्मनोवचःकायगुणै स्वकर्मभिः ।
अमायिनः कामदुघांघ्रिपंकजं यथाधिकारावसितार्थसिद्धयः ॥३३॥
असाविहानेकगुणोऽगुणोऽध्वरः पृथग्विधद्रव्यगुणक्रियोक्रिभिः ।
सम्पद्यतेऽर्थाशयलिंगनामभि र्विशुद्धविज्ञानघनः स्वरुपतः ॥३४॥
प्रधानकालाशयधर्मसंग्रहे शरीर एष प्रतिपद्य चेतनाम ।
क्रियाफलत्वेन विभुर्विभाव्यते यथानलो दारुषु तदगुणात्मकः ॥३५॥
अहो ममामी वितरन्त्यनुग्रहं हरिं गुरुं यज्ञभुजामधीश्वरम ।
स्वधर्मयोगेन यजन्ति मामका निरन्तरं क्षोणितले दृढव्रताः ॥३६॥
मा जातु तेज प्रभवेन्महार्द्धिभिस्तितिक्षया तपसा विद्यया च ।
देदीप्यमनेऽऽजितदेवतानां कुले स्वयं राजकुलाद द्विजानाम ॥३७॥
ब्रह्माण्यदेवः पुरुषः पुरातनो नित्यं हरिर्यच्चरणाभिवन्दनात ।
अवाप लक्ष्मीमनपयिर्नीं यशो जगत्पवित्रं च महत्तमाग्रणीः ॥३८॥
यत्सेवयाशेषगुहासयः स्वराड् विप्रयियस्तुष्यति काममीश्वरः ।
तदेव तद्धर्मपरैर्विनीतैः सर्वात्मना ब्रह्माकुलं निषेव्यताम ॥३९॥
पुमाँल्लभेतानतिवेलमात्मनः प्रसीदतोऽत्यन्तशमं स्वतः स्वयम ।
यन्नित्यसम्बन्धनिषेवया ततः परं किमत्रास्ति मुखं हविर्भुजाम ॥४०॥
अश्नात्यनन्तः खलु तत्त्वकोविदैः श्रद्धाहुतं यन्मुख इज्यनामभिः ।
न वै तथा चेतनया बहिष्कृते हृताशने पारमहंस्यपर्यगुः ॥४१॥
यदब्रह्मा नित्यं विरजं सनातनं श्रद्धतपोमंगलमीनसंयमैः ।
समाधिना बिभ्रति हर्थदृष्टये यत्रेदमादर्श इवावभासते ॥४२॥
तेषामहं पादसरोजरेणु मार्या वहेयाधिकिरीटमाऽऽयुः ।
यं नित्यदा बिभ्रत आशु पापं नश्यत्यमुं सर्वगुणा भजन्ति ॥४३॥
गुणायनं शीलधनं कृतज्ञं वृद्धाश्रयं संवणतेऽनु सम्पदः ।
प्रसीदता ब्रह्माकुलं गवां च जनार्दनः सानुचरच मह्राम ॥४४॥
मैत्रेय उवाच
इति ब्रुवाणं नृपतिं पितृदेवाद्विजातयः ।
तुष्टुवुर्हृष्टमनसः साधुवार्देव साधवः ॥४५॥
पुत्रेण जयते लोकानिति सत्यवती श्रुतिः ।
ब्रह्मादण्दहतः पापो यद्वेनोऽत्यतरत्तमः ॥४६॥
हिरण्यकशिपुश्चापि भगवन्निन्दया तमः ।
विविक्षुरत्यगात्सुनोः प्रह्नादस्यानुभावतः ॥४७॥
वीरवर्य पितः पृथ्वाः समाः सत्र्जीव शाश्वतीः ।
यस्येदृश्यच्युते भक्तिः सर्वलोकैकभर्तरि ॥४८॥
अहो वयं ह्वाद्य पवित्रकीर्ते त्वयैव नाथेन मुकुन्दनाथाः ।
य उत्तमश्लोककतमस्य विष्णो र्ब्रह्मण्यदेवस्य कथा व्यनक्ति ॥४९॥
नात्यद्भुतमिदं नाथ तवाजीव्यानुशासनम ।
प्रजानुरागो महतां प्रकृतिः करुणात्मनाम ॥५०॥
अद्य नस्तमसः पारस्त्वयोपासादितः प्रभो ।
भ्राम्यतां नष्टदृष्टींना कर्मभिर्दैवसंज्ञितैः ॥५१॥
नमो विवृद्धसत्त्वाय पुरुषाय महीयसे ।
यो ब्रह्म क्षत्रमाविश्य बिभर्तीदं स्वतेजसा ॥५२॥
इति श्रीमद्भागवते महापुराणे पारमहंस्या संहितायाम चतुर्थस्कन्धे एकविंशोऽध्यायः ॥२१॥