संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद्‍भागवतमहापुराणम्|चतुर्थः स्कन्धः|
अथ एकादशोऽध्याय

चतुर्थः स्कन्धः - अथ एकादशोऽध्याय

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


मैत्रेय उवाच

निशम्य गदतामेवमृषींना धनुषि ध्रुवः ।

संदधेऽस्त्रमुपस्पृश्य यन्नारायणनिर्मितम ॥१॥

संधीयमान एतस्मिन्माया गुह्नाकनिर्मिताः ।

क्षिप्तं विनेशुर्विदुर क्लेशा ज्ञानोदये यथा ॥२॥

तस्यार्षास्त्रं धनुषि प्रयुत्र्जतः सुवर्णपुखाः कलहंसवाससः ।

विनिःसृता आविविशुर्द्विषद्वलं यथा वनं भीमरवाः शिखण्डिनः ॥३॥

तैस्तिग्मधारैः प्रधने शिलिमुखै रितस्ततः पुण्यजना उपद्रुताः ।

तमभ्यधावन कुपिता उदायुधाः सुपर्णमुन्नद्धफणा इवाहयः ॥४॥

स तान पुरुषक्तैरभिधावतो मृधे निकृ त्तबाहुरुशिरोअधरोदरात ।

निनाय लोके परमर्क मण्डलं व्रजन्ति निर्भिद्य यमुध्वरेतसः ॥५॥

तान हन्यमानानभिवीक्ष्य गुह्याकाननागसाश्चित्ररथेन भुरिशः ।

औत्तानपादिं कृपया पितामहो मनुर्जगादोपगतः सहर्षिभिः ॥६॥

मनुरुवाच

अलं वत्सातिराषेण तमोद्वारेण पाप्मना ।

येन पुण्यजनाने तानव धीत्स्वमनागसः ॥७॥

नास्मत्कुलोचितं तात कर्मैतत्सद्विगर्हितम ।

वधो यदुपदेवानामारब्धस्तेऽकृतैनसाम ॥८॥

नन्वेकस्यापराधेन प्रसगांद बहवो हताः ।

ब्रातुर्वधाभितत्पेन त्वयागं भ्रातृवत्सलः ॥९॥

नायं मार्गो हि साधुंनां हृषीकेशानुवर्तिनाम ।

यदात्मानं पराग्गृहा पशुवद्भुतवैशसम ॥१०॥

सर्वभुतात्मभावेन भुतावासं हरिं भवान ।

आराध्याप दुराराध्यं विष्णोस्तत्परमं पदम ॥११॥

स त्वं हरेरनुध्यातस्तत्पुंसामपि सम्मतः ।

कथं त्ववद्यं कृतवाननुशिक्षन सतां व्रतम ॥१२॥

तितिक्षया करुणया मैत्र्या चाखिलजन्तुष \

समत्वेन च सर्वात्मा भगवान सम्प्रसीदति ॥१३॥

सम्प्रसन्ने भगवति पुरुषः प्राकृतैर्गुणैः ।

विमुक्तो जीवनिर्मुक्तो ब्रह्मा निर्वाणमृच्छति ॥१४॥

भूतैः पंचभिरारब्धैर्योषित्पुरुष एव हि ।

तयोर्व्यवायात्सम्भुतिर्योषित्पुरुषयोरिह ॥१५॥

एवं प्रवर्तते सर्गः स्थितिः संयम एव च ।

गुणव्यतिकराव्यजन मायया परमात्मनः ॥१६॥

निश्चितमात्रं तत्रासीन्निर्गुणः पुरुषर्षभः ।

व्यक्ताव्यक्तमिदं विश्वं यत्र भ्रमति लोहवत ॥१७॥

स खल्विदं भगवान कालशक्त्या गुनप्रवाहेण विभक्तवीर्यः ।

करोत्यकर्तैव निहन्त्यहन्ता चेष्टा विभुम्रः खलु दुर्विभाव्या ॥१८॥

सोऽ‍नन्तोऽन्तकरः कालोऽनादिरादिकृतव्ययः ।

जनं जनेन जनयन्मारयन्मृत्युनान्तकम ॥१९॥

न वै स्वपक्षोऽस्य विपक्ष एव वा परस्य मृत्योर्विशतः समं प्रजाः ।

तं धावमानमनुधावन्त्यनीशा यथा रजास्यनिलं भुतसंघाः ॥२०॥

आयुषोऽपचयं जन्तोस्तथैवोपचयं विभुः ।

उभाभ्यां रहितः स्वस्थो दुःस्थस्य विदधात्यसौ ॥२१॥

केचित्कर्म वदन्त्येनं स्वभावमपरे नृप ।

एके कालं परे दैवं पुंसः काममुतापरे ॥२२॥

अव्यक्तस्याप्रमेयस्य नानाशक्त्य्सदयस्य च ।

न वै चिकीर्षित तात को वेदाथ स्वसम्भवम ॥२३॥

न चैते पुत्रक भ्रातुर्हन्तारो धनदानुगाः ।

विसर्गादानयोस्तात पुंसो दैवं हि कारणम ॥२४॥

स एव विश्वं सृजति स एवावति हन्ति च ।

अथापि ह्रानहंकारान्नज्यते गुणकर्मभिः ॥२५॥

एष भुतानि भुतात्मा भुतेशो भुतभावनः ।

स्वशक्त्या मायया युक्तः सृजत्यात्ति च पाति च ॥२६॥

तमेव मृत्युममृतं तत दैवं सर्वात्मनोपेहि जगत्परायणम ।

यस्मै बलिं विश्वसृजो हरन्ति गावो यथा वै नसि दामयन्त्रिताः ॥२७॥

यः पत्र्चंवर्षो जननीं त्वं विहाय मातुः सपन्त्या वचसा भिन्नमर्मा ।

वनं गतस्तपसा प्रत्यगक्ष माराध्य लेभे मूर्ध्नि पदं त्रिलोक्याः ॥२८॥

तमेनमंगात्मनि मुक्ताविग्रहे व्यापाश्रितं निर्गुणमेकमक्षरम ।

आत्मानमन्विच्छ विमुक्तमात्मदृग यस्मिन्निदंभीदमसत प्रतीयते ॥२९॥

त्वं प्रत्यगात्मनि तदा भगवत्यनन्त आनन्दमात्र उपपन्नसमस्तशक्तौ ।

भक्तिं विधाय परमां शनकैरविद्याग्रन्थिं विभेत्स्यसि ममाहमिति प्ररुढम ॥३०॥

संयच्छ रोषं भद्रं ते प्रतीपं श्रेयसां परम ।

श्रुतेन भुयसा राजन्नगदेन यथाऽमयम ॥३१॥

येनोपसृष्टात्पुरुषाल्लोक उद्विजये भृशम ।

न बुधस्तद्वशं गच्छेदिच्छन्नभयामात्मनः ॥३२॥

हेलनं गिरिशभ्रातुर्धनदस्य त्वया कृतम ।

यज्जघ्रिवान पुण्यजनान भ्रातृघ्नानित्यमर्षितः ॥३३॥

तं प्रसादय वत्साशु सन्नत्या प्रश्रयोक्तिभिः ।

न यावन्महर्ता तेजः कुलं नोऽभिभविष्यति ॥३४॥

एवं स्वायम्भुवः पौत्रमनुशास्य मनुर्ध्रुवम ।

तेनाभिवन्दितः साकमृषिभिः स्वपुरं ययौ ॥३५॥

इति श्रीमद्भागवते महापुराणे संहितायां चतुर्थस्कन्धे एकाद्शोऽध्यायः ॥११॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP