चतुर्विध प्रलयका प्रतिपादन, नैमित्तिक, प्रलयका विशेष वर्णन, विष्णुद्वारा अपने माहात्म्यका निरूपण
सुत उवाच
एतदाकर्ण्य विज्ञानं नारायणमुखेरितम ।
कुर्मरुपधरं देवं पप्रच्छुर्मुनयः प्रभुम ॥१॥
मुनय ऊचुः
कथिता भवता धर्मा मोक्षज्ञानं सविस्तरम ।
लोकानावं सर्गविस्तारं वंशमन्वन्तराणि च ॥२॥
प्रतिसर्गमिदानीं नो वक्तुमर्हसि माधव ।
भुतानां भूतभव्येशव यथा पुर्वं त्वयोदितम ॥३॥
सुत उवाच
श्रुत्वा तेषां तदा वाक्यं भगवान कूर्मरुपधृक ।
व्याजहार महायोगी भुतानां प्रतिसंचरम ॥४॥
कूर्म उवाच
नित्यो नैमित्तिकश्चैव प्राकृतात्यन्तिकौ तथा ।
चतुर्धायं पुराणेऽस्मिन प्रोच्यते प्रतिसंचरम ॥५॥
योऽयं संदृश्यते नित्यं लोके भूतक्षयस्त्विह ।
नित्यः संकीत्यते नाम्रा मुनिभिः प्रतिसंचरः ॥६॥
ब्राह्मो नैमित्तिको नाम कल्पान्ते यो भविष्यति ।
त्रैलोक्यस्यास्य कथितः प्रतिसर्गो मनीषिभिः ॥७॥
महदाद्यं विशेषान्तं यदा संयाति संक्षयम ।
प्राकृतः प्रतिसर्गोऽयं प्रोच्यते कालचिन्तकैः ॥८॥
ज्ञानादात्यन्तिकः प्रोक्तो योगिनः परमात्मनि ।
प्रलयः प्रतिसार्गोऽयंक कालचिन्तापरद्विजैः ॥९॥
आत्यन्तिकश्च कथितः प्रलयोऽत्र ससाधनः ।
नैमित्तिकमिदानीं वः कथयिष्ये समासतः ॥१०॥
चतुर्युगसहस्त्रान्ते सम्प्राप्ते प्रतिसंचरे ।
स्वात्मसंस्थाः प्रजाः कर्तुः प्रतिपेदे प्रजापतिः ॥११॥
ततो भवत्यनावृष्टिस्तीव्रा सा शतवार्षिकी ।
भूतक्षयकरी घोरा सर्वभुतक्षयंकरी ।\१२॥
ततो यान्यल्पसाराणि सत्वानि पृथिवीतले ।
तानि चाग्रे प्रलीयन्ते भूमित्वमुपयान्ति च ॥१३॥
सप्तरश्मिमरथो भूत्वा समुत्तिष्ठन दिवाकरः ।
असह्यराश्मिर्भवति पिबन्नम्भो गभस्तिभिः ॥१४॥
तस्य ते रश्मयः सप्त पिबन्त्यम्बु महार्णवे ।
तेनाहारेण ता दीप्ताः सुर्याः सप्त भवन्त्युत ॥१५॥
ततस्ते रश्मयः सप्त सुर्या भुत्वा चतुर्दिशम ।
चतुर्लोकमिदं सर्वं दहन्ति शिखिनस्तथा ॥१६॥
व्याप्नुवन्तश्च ते विप्रास्तुर्ध्वं चाधश्च रश्मिभिः ।
दीप्यन्ते भास्कराः सप्त युगान्ताग्निप्रतापिनः ॥१७॥
ते सुर्या वारिणा दीप्ता बहुसाहस्त्ररश्मयः ।
खं समावृत्य तिष्ठन्ति निर्दहन्तो वसुंधराम ॥१८॥
ततस्तेषां प्रतापेन दह्मामाना वसुंधरा ।
साद्रिनद्यर्णवद्वीपा निस्नेहा समपद्यत ॥१९॥
दीप्ताभिः संतताभिश्च रश्मिभिवै समन्ततः ।
अधश्चोर्ध्वं च लग्नाभिस्तिर्यक चैव समावृतम ॥२०॥
सुर्याग्निना प्रमृष्टानां संसृष्टानां परस्परम ।
एकत्वमुपयातानामेकज्वालं भवत्युत ॥२१॥
सर्वलोकप्रणाशश्च सोऽग्निर्भूत्वा सुकुण्डली ।
चतुर्लोकमिदं सर्वं निर्दहत्यात्मतेजसा ॥२२॥
ततः प्रलाने सर्वस्मित्र्जगंमें स्थावरे तथा ।
निर्वृक्षा निस्तृणा भूमिः कूर्मपृष्ठा प्रकाशते ॥२३॥
अम्बरीषामिवाभाति सर्वमापुरितं जगत ।
सर्वमेव तदर्चिभिः पुर्णं जाज्वल्यते पुनः ॥२४॥
पाताले यानि सत्वानि महोदधिगतानि च ।
ततस्तानि प्रलीयन्ते भूमित्वमुपयान्ति च ॥२५॥
द्वीपांश्च पर्वतांश्चैव वर्षाण्यथ महोदधीन ।
तान सर्वांन भस्मसात कृत्वा सप्तात्मा पावकः प्रभुः ॥२६॥
समुद्रेभ्यो नदीभ्यश्च पातालेभ्यश्च सर्वशः ।
पिबन्नपः समिद्धोऽग्निः पृथ्विवीमाश्रितो ज्वलनः ॥२७॥
ततः संवर्तकःशैलानतिक्रम्य महांस्तथा ।
लोकान दहति दीप्तात्मा रुद्रतेजोविजृम्भितः ॥२८॥
स दग्ध्वा पृथवीं देवो रसातलमशोषयत ।
अधस्तात पृथिवीं दग्ध्वा दिवमुर्ध्व दहिष्यति ॥२९॥
योजनानां शतानीह सहस्त्राण्ययुतानि च ।
उत्तिष्ठन्ति शिखास्तस्य वह्रेः संवर्तकस्य तु ॥३०॥
गन्धर्वाश्च पिशांचाश्च सयक्षोरगराक्षसान ।
तदा दहत्यसौ दीप्तः कालरुद्राप्रचोदितः ॥३१॥
भूर्लोकं च भुवर्लोकें स्वर्लोकं च तथा महः ।
दहेदशेषं कालाग्निः कालो विश्वतनुः स्वयम ॥३२॥
व्याप्तेष्वेतेषु लोकेषु तिर्यगूर्ध्वमथाग्निना ।
तत तेजः समनुप्राप्य कृत्स्नं जगदिदं शनैः ।
अयोगुडनिभं सर्वं तदा चैकं प्रकाशते ॥३३॥
ततो गजकुलोन्नादास्ताडिद्भिः समलंकृताः ।
उत्तिष्ठन्ति तदा व्योम्नि घोराः संवर्तका घनाः ॥३४॥
केचिन्निलोप्तलश्यामा केचित कुमुदसंनिभाः ।
धुम्रवर्णस्तथा केचित केचित पीताः पयोधराः ॥३५॥
केचिद रासभवर्णास्तु लाक्षारसनिभास्तथा ।
शंखकुन्दनिभाश्चान्ये जात्यत्र्चनानिभाः परे ॥३६॥
मनः शिलाभास्त्वन्ये च कपोतसदृशाः परे ।
इन्द्रगोपनिभाः केचिद्धरितालनिभास्तथा ।
इन्द्रचापानिभाः केचिदुत्तिष्ठन्ति घना दिवि ॥३७॥
केचित पर्वतसंकाशाः केचिद गजकुलोपमाः ।
कुटांगरनिभाश्चान्ये केचिन्मीनकुलोद्वहाः ।
बहुरुपा घोररुपा घोरस्वरनिनादिनः ॥३८॥
तदा जलधराः सर्वे पुरयन्ति नभःस्थलम ।
ततस्ते जलदा घोरा राविणो भास्करात्मजाः ।
सप्तधा संवृतात्मानस्तमग्निं शमयन्त्युज ॥३९॥
ततस्ते जलदा वर्षं मुत्र्चन्तीह महौघवत ।
सुघोरमशिवं सर्वं नाशयन्ति च पावकम ॥४०॥
प्रवृष्टे च तदात्यर्थमम्भसा पुर्यते जगत ।
अद्भिस्तेजोऽभिभूतत्वात तदाग्निः प्रविशत्यपः ॥४१॥
नष्टे चाग्नौ वर्षशतैः पयोदा क्षयसम्भवाः ।
प्लावयन्तोऽथ भुवनं महाजलपरिस्त्रवैः ॥४२॥
धाराभिः पुरयन्तीदं चोद्यामानाः स्वयम्भुवा ।
अत्यन्तसलिलौघैश्च वेला इव महोदधिः ॥४३॥
साद्रिद्वीपा तथा पृथ्वी जलैः संच्छाद्यते शनैः ।
आदित्यरश्मिभिः पीतं जलमभ्रेषु तिष्ठति ।
पुनः पतति तद भुमौ पुर्यन्ते तेन चार्णवाः ॥४४॥
ततः समुद्राः स्वां वेलामतिक्रान्तास्तु कृत्स्नशः ।
पर्वताश्च विलीयन्ते मही चाप्सु निमज्जति ॥४५॥
तस्मिन्नेकार्णवे घोरे नष्टे स्थावरजंगमें ।
योगनिद्रा समास्थाय शेते देवः प्रजापतिः ॥४६॥
चतुर्युगसहस्त्रान्तं कल्पमाहुर्महर्षयः ।
वाराहो वर्तते कल्पो यस्य विस्तार ईरितः ॥४७॥
असंख्यातास्तथा कल्पा ब्रह्माविष्णुशिवात्मकाः ।
कथिता हि पुराणेषु मुनिभिः कालचिन्तकैः ॥४८॥
सात्विकेष्वथ कल्पेषु माहात्म्यधिकं हरेः ।
तामसेषु हरस्योक्तं राजसेषु प्रजापतेः ॥४९॥
योऽयं प्रवर्तते कल्पो वाराहः सात्विको मतः ।
अन्ये च सात्विकाः कल्पा मम तेषु परिग्रहः ॥५०॥
ध्यानं तपस्तथां ज्ञानं लब्ध्वा तेष्वेव योगिनः ।
आराध्य गिरिशं मां च यान्ति तत परमं पदम ॥५१॥
सोऽहं सत्वं समास्थाय मायी मायामयीं स्वयम ।
एकार्णवे जगत्यस्मिन योगनिद्रां व्रजामि तु ॥५२॥
मां पश्यन्ति महात्मानः सुप्तं कालं महर्षयः ।
जनलोके वर्तमानास्तपसा योगचक्षुषा ॥५३॥
अहं पुराणपुरुषो भूर्भुवः प्रभवो विभुः ।
सहस्त्रचरणः श्रीमान सहस्त्राशुः सहस्त्रदृक ॥५४॥
मन्त्रोऽग्निर्ब्राह्माणा गावः कुशाश्च समिधो ह्राहम ।
प्रोक्षणी च स्त्रुवश्चैव सोमो घृतम्थास्म्यहम ॥५५॥
संवर्तको महानात्मा पवित्रं परमं यशः ।
वेदो वेद्यं प्रभुर्गोप्ता गोपातिर्ब्रह्माणो मुखम ॥५६॥
अनन्तस्तारको योगी गतिर्गतिमतां वरः ।
हंसः प्राणोऽथ कपिलो विश्वमूर्तिः सनातनः ॥५७॥
क्षेत्रज्ञः प्रकृति कालो जगदबीजमथामृतम ।
माता पिता महादेवो मत्तो ह्यान्यन्न विद्यते ॥५८॥
आदित्यवाणों भुवनस्य गोप्ता नारायणः पुरुषो योगमुर्तिः ।
मां पंश्यन्ति यतयो योगानिष्ठा ज्ञात्वात्मानममृतत्वं व्रजन्ति ॥५९॥
इति श्रीकूर्मपुराणे षटसाहस्त्रयां संहितायामुपरिविभागे त्रिचत्वारिंशोऽध्यायः ॥४३॥