शिव भक्तिक माहात्म्य शिवोपासनाकी सुगमता , ज्ञानरुप शिवस्वरुपका वर्णन, शिवकी तीन प्रकारकी शक्तियोंका प्रतिपादन , शिवके परम तत्वका निरुपण
ईश्वर उवाच
वक्ष्ये समाहित युयं श्रृणुध्वं ब्रह्मवादिनः ।
माहात्म्यं देवदेवस्य येनेदं सम्प्रवर्तते ॥१॥
नाहं तपोभिर्विविधैर्न दानेन न चेज्यया ।
शक्यो हि पुरुषैर्ज्ञातुम्रुते भक्तिमनुत्तमाम ॥२॥
अहं हि सर्वभावानामन्तस्तिष्थामि सर्वगः ।
मां सर्वसाक्षिणं लोको न जानाति मुनीश्वराः ॥३॥
यस्यान्तरा सर्वमिदं यो हि सर्वान्तरः परः ।
सोऽहं धाता विधता च कलोऽग्निर्विश्वतोमुखः ॥४॥
न मां पश्यन्ति मुनयः सर्वेऽपि त्रिदिवौकसः ।
ब्रह्माच मनव शक्रो ये चान्ये प्रथितौजसः ॥५॥
गृणान्ति सततं वेदा मामेकं परमेश्वरम ।
यजन्ति विविधैरग्निं ब्राह्मणा वैदिकैर्मखैः ॥६॥
सर्व लोका नमस्यान्ति ब्रह्मा लोकपितामहः ।
ध्यायन्ति योगिनो देवं भूताधिपतिमीश्वरम ॥७॥
अहं ही सर्वहविषां भोक्ता चैव फलप्रदः ।
सर्वदेवतनुर्भुत्वा सर्वात्मा सर्वसंस्थितः ॥८॥
मां पश्यन्तीह विद्वांसो धार्मिक वेदवादिनः ।
तेषा संनिहितो नित्यं ये भक्त्या मामुपासते ॥९॥
ब्राह्मणाः क्षत्रिया वैश्या धार्मिका मामुपासते ।
तेषां ददामि तत स्थानामानन्दं परमं पदम ॥१०॥
अन्येऽपि ये विकर्मस्थाः शुद्राद्या नीचजातयः ।
भक्तिमन्तः प्रमुच्यन्ते कालेन मयि संगताः ॥११॥
न मद्भक्ता विनश्यन्ति मद्भाक्ता वीतकल्मषाः ।
आदावेतत प्रतिज्ञातं न मे भक्त प्रणश्यति ॥१२॥
यो वै निन्दति तं मुढो देव देवं स निन्दति ।
यो हि तं पुजयेद भक्त्या स पुजयति मां सदा ॥१३॥
पत्रं पुष्पं फलं तीर्य मदाराधनकारणात ।
यो मे ददाति नियतः स मे भक्तः प्रियो मतः ॥१४॥
अहं हि जगतामादौ ब्रह्माणां परमेष्ठिनम ।
विधाय दत्तवान वेदानशेषानात्मनिः सृतान ॥१५॥
अहमेव हि सर्वेषां योगिनां गुरुरव्ययः ।
धार्मिकाणां च गोप्ताहं निहन्तां वेदविद्विषाम ॥१६॥
अहं वै सर्वसंसारान्मोचको योगिनामिह ।
संसारहेतुरेवाहं सर्वसंसारवार्जितः ॥१७॥
अहमेव हि संहर्ता स्त्रष्टाहं परिपालकः ।
मायावी मामिका शक्तिर्माया लोकविमोहिनी ॥१८॥
ममैव च परा शक्तिर्या सा विद्येति गीयते ।
नशयामि तया मायां योगिनां हृदि संस्थितः ॥१९॥
अहं हि सर्वशक्तिनां प्रवर्तकनिवर्तकः ।
आधारभुतः सर्वासां निधानममृतस्य च ॥२०॥
एका सर्वान्तरा शक्तिःकरोति विविधं जगत ।
आस्थाय ब्रह्माणो रुपं मन्मयी मदधिष्ठिता ॥२१॥
अन्या च शक्तिर्विपुला संस्थापयाति मे जगत ।
भूत्वा नारायणोऽनन्तो जगन्नथा जगन्मयः ॥२२॥
तृतीया महती शक्तिर्निहन्ति सकलं जगत ।
तामसी मे समाख्याता कालाख्या रुद्ररुपिणी ॥२३॥
ध्यानेन मां प्रपश्यन्ति केचिज्ज्ञानेन चापरे ।
अपरे भक्तियोगेन कर्मयोगेन चापरे ॥२४॥
सर्वषमेव भक्तानामिष्टः प्रियवरो मम ।
यो हि ज्ञानेन मां नित्यमाराधयीत नान्यथा ॥२५॥
अन्ये च ये त्रयो भक्ता मदाराधनकांगक्षिनः ।
तेऽपि मां प्राप्नुवन्त्येव नावर्तन्ते च वै पुनः ॥२६॥
मया ततमिदं कृत्स्नं प्रधानपुरुषत्मकम ।
मय्येव संस्थितं विश्वं मया सम्प्रेर्यते जगत ॥२७॥
नाहं प्रेरयिता विप्राः परमं योगामाश्रितः ।
प्रेरयामि जगत्कृत्स्नमेतद्यो वेद सोऽमृतः ॥२८॥
पश्याम्यशेषमेवेदं वर्तमानं स्वभावतः ।
करोति कालो भगवान महायोगेश्वरः स्वयम ॥२९॥
योगः सम्प्रोच्यते योगी माया शास्त्रेषु सुरिभिः ।
योगेश्वरोऽसौ भगवान महादेवी महान प्रभुः ॥३०॥
महत्वं सर्वतत्वानां परत्वात परमेष्ठिनः ।
प्रोच्यते भगवान ब्रह्मा महान ब्रह्मामयोऽमलः ॥३१॥
यो मामेवं विजानाति महायोग्श्वरेश्वरम ।
सोऽविकल्पेन योगेन युज्यते नात्र संशयः ॥३२॥
सोऽहं प्रेरयिता देवः परमान्दमाश्रितः
नृत्यामि योगी सततं यस्तद वेद स वेदवित ॥३३॥
इति गुह्मातमंक ज्ञानं सर्ववेदेषु निष्ठितम ।
प्रसन्नचेतसे देयं धार्मिकायाहिताग्रये ॥३४॥
इति श्रीकूर्मपुराणे षटसाहस्रयां संहितायमुपरिविभागं ( ईश्वरगीतासु ) चतुर्थोऽध्यायः ॥४॥