अग्निहोत्रका माहात्म्य, अग्निहोत्रीके कर्तव्य , श्रौत एवं स्मार्तरुप द्विविध धर्म, तृतीय शिष्टाचारधर्म वेद धर्मशास्त्र और पुराणसे धर्मका ज्ञान तथा इनपर श्रद्धा रखना आवश्यक
व्यास उवाच
अग्निहोत्रं तु जुहुयादाद्यन्तेऽहर्निशोः सदा ।
दर्शेन चैव पक्षान्ते पौर्णमासेन चैव हि ॥१॥
शस्यास्ते नवशस्येष्ट्या तथर्वन्ते द्विजोऽर्ध्वरैः ।
पशुना त्वयनस्यान्ते समान्ते सौमिकैर्मखैः ॥२॥
नानिष्टा नवशस्येष्ठया पशुना वाग्निमान द्विजः ।
नवन्नमद्यान्मासं वा दीर्घमायुर्जिजोविषुः ॥३॥
नवेनान्नेन चानिष्टा पशुहव्येन चाग्नयः ।
प्राणानेवत्तुमिच्छन्ति नवान्नमिषगृद्धिनः ॥४॥
सावित्रान शान्तिहोमाश्चं कुर्यात पर्वसु नित्यशः ।
पितृश्चैवष्टकास्वर्चन नित्यमपधर्मोऽन्यं च ॥५॥
एष धर्मः परो नित्यमधर्मोऽन्य उच्यते ।
त्रयाणामिह वर्णाना गृहस्थाश्रमवासिनाम ॥६॥
नास्तिक्यदथवालास्याद योऽग्नीद नाधातुमिच्छति ।
यजेत वा न यज्ञेन स याति नरकान बहुन ॥७॥
तामिस्नामन्धतामिस्त्रं महारौरवरौरवौ ।
कुम्भीपाकं वैतरणीमसिपत्रवनं तथा ॥८॥
अन्यांश्च नरकान घोरान सम्प्राप्याप्ने सुदुर्मतिः ।
अन्त्यजानां कुले विप्राः शुद्रयोनों च जायते ॥९॥
तस्मात सर्वप्रयत्नेन ब्राह्माणो हो विशेषतः ।
आधायाग्निं विशुद्द्धात्मा यजेत परमेश्वरम ॥१०॥
अग्निहोत्रात परो धर्मो द्विजानां नेह विद्यते ।
तस्मादाराधयेन्नित्यमग्निहोत्रेण शाश्वतम ॥११॥
यश्चाधायग्निमालास्यान्न यष्टुं देवमिच्छति ।
सोऽसौ मुढो न सम्भाष्यः किं पुनर्नस्थिको जनः ॥१२॥
यस्य त्रैवार्षिकं भक्तं पर्याप्तं भृत्यवृत्तये ।
अधिकं चापि विद्येत स सोमं पातृमर्हति ॥१३॥
एष वै सर्वयज्ञनां सोमः प्रथम इष्यते ।
सोमेनाराधयेद देवं सोमलोकमहेश्वरम ॥१४॥
न सोमयागादधिको महेशाराधने क्रतुः ।
समो वा विद्यते तस्मात सोमेनाभ्यर्चयेत परमः ॥१५॥
पितामहेन विप्राणामादावभिहितः शुभः ।
धर्मों विमुक्तये साक्षाच्छ्रौतः स्मार्तौ द्विधा पुनः ॥१६॥
श्रौतस्त्रेताग्निसम्बन्धात स्मार्तः पुर्वं मयोदितः ।
श्रेयस्करतमः श्रौतस्मस्माच्छौतं समचरेत ।१७॥
उभावभिर्हितौ धर्मो वेदादेव विनिः सृतौ ।
शिष्टाचारस्तृतीया स्याच्छुतिस्मृत्योरलाभतः ॥१८॥
धर्मेणाभिगतो यैस्तु वेदः सपरिबृहंण ।
ते शिष्ट ब्राह्माणाः प्रोक्ता नित्यमात्मगुणान्विताः ॥१९॥
तेषामभिमतो यः स्याच्चेतसा नित्यमेव हि ।
स धर्म कथितः सद्धिर्नान्येषामिति धारणा ॥२०॥
पुराणं धर्मशास्त्रं च वीदानामुपबृहंणम ।
एकस्माद ब्रह्माविज्ञानं धर्मज्ञानं तथैकतः ॥२१॥
धर्मं जिज्ञासमानानां तत्प्रमणतरं स्मृतम ।
धर्मशास्त्रं पुराणं तद ब्रह्माज्ञाने परा प्रमा ॥२२॥
नान्यतो जायते धर्मो ब्रह्माविद्या च वैदिकी ।
तस्माद धर्म पुराणं च श्रद्धातव्यं द्विजातिभिः ॥२३॥
इति श्रीकूर्मपुराणे षटसाहस्त्रयां संहितायामुपरिविभागे चतुर्विशोऽध्यायः ॥२४॥