ईश्वरद्वारा परम तत्त्व तथा परम ज्ञानके स्वरुपका निरुपण और उसकी प्राप्तिके साधनका वर्णन
ईश्वर उवाच
अलिंगमेकमव्यक्तं लिंगं ब्रह्मोति निश्चतम ।
स्वयंज्योतिः परं तत्वं परे व्योम्नि व्यवस्थितम ॥१॥
अव्यक्तं कार्णं यत्तदक्षरं परमंक पदम पदम ।
निर्गुणं शुद्धविज्ञान तद वै पश्यन्ति सुरयः ॥२॥
तन्निष्थाः शान्तसंकल्पा नित्यं तद्भावभाविताः ।
पश्यन्ति तत परं ब्रह्मा यत्तलिंगमिति श्रुति ॥३॥
अन्यथ नही मां द्रष्टुं शक्यं वै मुनिपुंगवाः ।
नहीं तद विद्यते ज्ञानं यतस्तज्ज्ञायते परम ॥४॥
एतत्तप्तरमं ज्ञानं केवलं कवयो विदुः ।
अज्ञानमितरम सर्व यस्मान्मायामयं जगतः ॥५॥
यज्ज्ञानं निर्मलं सुक्ष्मं निर्विकल्पं यदव्ययम ।
ममात्मासौ तदेवेदमिति प्राहुर्विपश्चितः ॥६॥
येऽप्यनेकं प्रपश्यन्ति तेऽपि पश्यन्ति तत्परम ।
आश्रिमा परमां निष्ठां बुदध्वैकं तत्वमव्ययम ॥७॥
ये पुनः परमं तत्वमेकं वानेकर्मीशरम ।
भक्त्या मां सम्प्रपश्यन्ति विज्ञेयास्ते तदत्मकाः ॥८॥
साक्षदेव प्रपश्यन्ति स्वात्मानं परमेश्वरम ।
नित्यानन्दं निर्विकल्पं सत्यरुपमिति स्थितिः ॥९॥
भजन्ते परमानन्दं सर्वगं यत्तदात्माकम ।
स्वात्मन्यवस्थितां शान्ता परेऽव्यक्ते परस्य तु ॥१०॥
भजन्ते परमानन्दं सर्वगं यत्त्दात्मकम ।
स्वात्मन्यावस्थिताःशान्ताः परेऽव्यक्त परस्यु तु ॥११॥
तस्मादनादिमध्यान्तं वस्त्र्त्वेकं परमं शिवम ।
स ईश्वरो महादेवस्तं विज्ञाय विमुच्यते ॥१२॥
न तत्र सुर्यः प्रविभातीह चन्द्रो न नक्षत्राणि तपनो नोत विद्युत ।
तद्भासेदमखिलं भाति नित्य तन्नित्यभाससमचलं सद्विभाति ॥१३॥
नित्योदितं संविदा निर्विकल्प शुद्धं बृहन्तं परमं यद्विभाति ।
अत्रान्तरं ब्रह्माविदोऽथ नित्यं पश्यन्ति तत्वमचलं यत स इशः ॥१४॥
नित्यानन्दममृतं सत्यरुपं शुद्धं वदन्ति पुरुषं सर्ववेदाः ।
तमोमिति प्रणवेनेशितारं ध्यायन्ति वेदार्थैविनिश्चितार्थाः ॥१५॥
न भूमिरापो न मनो न वह्निः प्राणोऽनिलो गगनं नोत बुद्धिः ।
न चेतनोऽन्यत परमाकाशमध्ये विभाति देवः शिव एव केवलः ॥१६॥
इत्येतदक्तु परमं रहस्यं ज्ञानामृतं सर्ववेदेषु गुढम ।
जानाति योगी विजनेऽथ देशे युज्जीत योगं प्रयते ह्राजस्त्रम ॥१७॥
इति श्रीकूर्मपुराण षटसाहस्रयां संहितायामुपारिविभागे ( ईश्वरगीतासु ) दशमोऽध्यायः ॥१०॥