प्रायश्चित्त प्रकरणमें प्रायश्चित्तका स्वरुपनिरुपण, पाँच महपातकोंके नाम तथा ब्रह्माहत्याके प्रायश्चित्तका संक्षिप्त निरुपण
व्यास उवाच
अतः परं प्रवक्शामि प्रायश्चित्तविधिं शुभम ।
हिताय सर्वविप्राणां दोषाणामपनुत्तये ॥१॥
अकृत्वा विहितंकर्म कृत्वा निन्दितमेव च ।
दोषामाप्नोति पुरुषः प्रायस्चित्तं विशोधनम ॥२॥
प्रायश्चित्तमकृत्वा तु न तिष्ठेद ब्राह्मणः क्वचितः ।
यद ब्रुयुर्ब्राह्माणाः शान्ता विद्वासस्तत्समाचरेत ॥३॥
वेदार्थवित्तमःशान्तो धर्मकामोऽग्निमान द्विजः ।
स एव स्यात परो धर्मो यमेकोऽपि व्यवस्याति ॥४॥
अनाहिताग्रयो विप्रास्त्रयो वेदार्थपारगाः ।
यद ब्रुयर्धर्मकामास्ते तज्ज्ञेयं धर्मसाधनम ॥५॥
अनेकधर्मशास्त्रज्ञा ऊहापोहाविशारदाः ।
वेदध्ययनसम्पन्नाः सप्तैते परिकीर्तिताः ॥६॥
मीमांसाज्ञानतत्वज्ञा वेदान्तकुशला द्विजाः ।
एकाविंशतिसंख्याताः प्रायश्चितं वदन्ति वै ॥७॥
ब्रह्माहा मद्यपः स्तेनो गुरुतल्पग एव च ।
महापातकिनस्तेते यश्चैतैः श संवसेत ॥८॥
संवत्सरं तु पतितैः संसर्ग कुरुते तु युः ।
यानशय्यासनैर्नित्यं जानन वै पतितो भवेत ।९॥
याजनं योनिसम्बन्धं तथैवाध्यापनं द्विजः ।
कृत्वा सद्यः पतेज्ञानात सह भोजनमेव च ॥१०॥
अविज्ञायाथ यो मोहात कुर्यादध्यपनं द्विजः ।
संवत्सरेण पतति सहाध्ययनमेव च ॥११॥
ब्रह्माहा द्वादशाब्दानि कुटिं कुत्वा वने वसेत ।
भैक्षमत्मविशुद्धर्थ कॄत्वा शिवशिरोध्यजम ॥१२॥
ब्राह्मणावसथान सर्वान देवागारणि वर्जयेत ।
विनिन्दन स्वयमात्मानं ब्राह्म्णं तं च संस्मरन ॥१३॥
असंकल्पितयोग्यानि सप्तागाराणि संविशेत ।
विधुमें शनकैर्नित्यं व्यंगारे भुक्तवज्जने ॥१४॥
एककालं चरेद भैक्षं दोषं विख्यापयन नृणाम ।
वन्यमुलफलैर्वापि वर्तयेद धैर्यमाश्रितः ॥१५॥
कपालापाणिः खटवांगी ब्रह्माचर्यपरायणः ।
पुर्णे तुद्वादशे वर्षे ब्रह्माहत्यां व्यपोहति ॥१६॥
अकामतः कृते पापे प्रायश्चित्तमेदं शुभम ।
कामतो मरणाच्छुर्ज्ञेया नान्येन केनचित ॥१७॥
कुर्यादनशनं वाथ भॄगोह पतनमेव वा ।
ज्वलन्तं वा विशेदग्निं जलं वा प्रविशेत स्वयम ॥१८॥
ब्राह्मणार्थे गवार्थ वा सम्यक प्राणाम परित्यजेत ।
ब्रह्माहत्यापनोदार्थमन्तरा वा मृतस्य तु ॥१९॥
दीर्घामयान्वितं विप्रं कृत्वानामयमेव तु ।
दत्वा चान्नं स दुर्भिक्षे ब्रह्माहत्यां व्यपोहति ॥२०॥
अश्वमेधावभृथके स्नात्वा वा शुध्यते द्विजः ।
सर्वस्वं वा वेदविद ब्राह्मणय प्रदाय तु ॥२१॥
सरस्वत्यास्त्वरुणया संगमे लोकविश्रुते ।
शुध्येत त्रिषवणस्नानात त्रिरात्रोपोषितो द्विजः ॥२२॥
गत्वा रामेश्वरं पुण्यं स्नात्वा चैव महादधौ ।
ब्रह्माचर्यादिभिर्युक्तो द्वष्टा रुद्रं विमुच्यते ॥२३॥
कपालमोचनं नाम तीर्थं देवस्य शुलिनः ।
स्नात्वभ्यर्च्य पितृन भक्त्या ब्रह्माहत्यां वापोहति ॥२४॥
यत्र देवादिदेवेन भैरवेणामितौजसा ।
कपालं स्थिप्तं पुर्वं ब्रह्माणः परमेष्ठिनः ॥२५॥
समभ्यर्च्य महादेवं तत्र भैरवरुपिणम ।
तर्पयित्वा पितृन स्नात्वा मुच्यते ब्रह्माहत्यया ॥२६॥
इति श्रीकूर्मपुराणे षटसाहस्त्रयां संहितायामुपरिविभागे त्रिंशोऽध्यायः ॥३०॥