तीर्थमाहात्म्य प्रकरणमें मार्कण्डेय युधिष्ठिर संवादका प्रारम्भ, मार्कण्डेयजीद्वारा नर्मदा तथा अमरकण्टकतीर्थके माहात्म्यका प्रतिपादन
सुत उवाच
एषा पुण्यतमा देवी देवगन्धर्वसेविता ।
नर्मदा लोकविख्याता तीर्थानामुत्तमा नदी ॥१॥
तस्याः श्रृणुध्वं माहात्म्यं मार्कण्डेयेन भाषितम ।
युधिष्ठिराय तु शुभं सर्वपापप्रणाशनम ॥२॥
युधिष्ठिर उवाच
श्रुतास्तु विविधा धर्मास्त्वत्प्रसादान्महामुने ।
माहात्म्यं च प्रयागस्य तीर्थानि विविधानि च ॥३॥
नर्मदा सर्वतीर्थानां मुख्यां हि भवतेरिता ।
तस्यास्त्विदानी माहात्म्यं वक्तुमर्हसि सत्तम ॥४॥
मार्कण्डेय उवाच
नर्मदा सरितां श्रेष्ठा रुद्रदेहाद विनिःसृता ।
तारयेत सर्वभुतानि स्थावराणि चराणि च ॥५॥
नर्मदायास्तु माहात्म्यं पुराणे यन्मया श्रुतम ।
इदानीं तत प्रवक्ष्यामि श्रृणुष्वैकमनाः शुभम ॥६॥
पुण्या कनखले गंगा कुरुक्षेत्रे सरस्वती ।
ग्रामे वा यदि वारण्ये पुण्या सर्वत्र नर्मदा ॥७॥
त्रिभिः सारस्वतं तोयं सप्ताहेन तु यामुनम ।
सद्यः पुनाति गांगेयं दर्शनादेव नार्मदम ॥८॥
कलिंगदेशपश्चार्धे पर्वतेऽमरकण्टके ।
पुण्या च त्रिषु लोकेषु रमणीया मनोरमा ॥९॥
सदेवसुरगन्धर्वा ऋषयश्च तपोधनाः ।
तपस्तप्वा तु राजेन्द्र सिद्धिं तु परमां गताः ॥१०॥
तत्र स्नात्वा नरो राजन नियमस्थो जितेन्द्रियः ।
उपोष्य रजनीमेकां कुलानां तारयेच्छतम ॥११॥
योजनानां शतं साग्रं श्रुयते सरिदुत्तमा ।
विस्तारेण तु राजेन्द्र योजनद्वयमायता ॥१२॥
षष्टितीर्थसहस्राणि षष्टिकोट्यस्तथैव च ।
पर्वतस्य समन्तात तु तिष्ठन्त्यमरकण्टके ॥१३॥
ब्रह्माचारी शुचिर्भूत्वा जितक्रोधो जितेन्द्रियः ।
सर्वहिंसानिवृत्तस्तु सर्वभूतहिते रतः ॥१४॥
एवं सर्वसमाचारो यस्तु प्राणान समुत्सृजेत ।
तस्य पुण्यफलं राजन श्रृणुष्वावहितो नृप ॥१५॥
शतवर्षसहस्त्राणि स्वर्गे मोदति पाण्डव ।
अप्सरोगणसंकीर्णो दिव्यस्त्रीपरिवरितः ॥१६॥
दिव्यगन्धानुलिप्तश्च दिव्यपुष्पोशोभितः ।
क्रीडते देवलोकेक तु दैवतैः सह मोदते ॥१७॥
ततः स्वर्गात परिभ्रष्टो राजा भवति धार्मिकः ।
गृहं तु लभतेऽसौ वै नानारत्नसमन्वितम ॥१८॥
स्तम्भैर्मणिमयैर्दिव्यैर्वज्रवैदुर्यभुषितम ।
आलेख्यवाहनैः शुभ्रैर्द्रासीदाससमन्वितम ॥१९॥
राजराजेश्वरः श्रीमान सर्वस्त्रीजनवल्लभः ।
जीवेद वर्षशतं साग्रं तत्र भोजसमन्वितः ॥२०॥
अग्निप्रवेशेऽथ जले अथवाऽनशने कृते ।
अनिवर्तिका गतिस्तस्य पवनस्याम्बरे यथा ॥२१॥
पश्चिमे पर्वततटे सर्वपापविनाशनः ।
ह्रदो जलेश्वरो नाम त्रिषु लोकेषु विश्रुतः ॥२२॥
तत्र पिण्डप्रदानेन संध्योपासनकर्मणा ।
दशवर्षणि पितरस्तर्पिताः स्युनं संशयः ॥२३॥
दक्षिणे नर्मदाकुले कपिलाख्यां महानदी ।
सरलार्जुनसंच्छन्ना नातिदुरे व्यवस्थिता ॥२४॥
सा तु पुण्या महाभाग त्रिषु लोकेषु विश्रुता ।
तत्र कोटिशतं साग्रं तीथांनां तु युधिष्ठिर ॥२५॥
तस्मिंस्तीर्थे तु ये वृक्षाः पतिताः कालपर्ययात ।
नर्मदातोयसंस्पृष्टास्ते यान्ति परमां गतिम ॥२६॥
द्वितीया तु महाभागा विशल्यकरणी शुभा ।
तत्र तीर्थे नरः स्नात्वा विशल्यो भवति क्षणात ॥२७॥
कपिला च विशल्या च श्रुयते राजसत्तम ।
इश्वरेण पुरा प्रोक्ता लोकानां हितकाम्यया ॥२८॥
अनाशकं तु यः कुर्यात तस्मिस्तीर्थे नराधिप ।
सर्वपापविशुद्धात्मा रुद्रलोकं स गच्छति ॥२९॥
तत्र स्नात्वा नरो राजन्नश्वमेधफलं लभेत ।
ये वसन्त्युत्तरे कुले रुद्रलोके वसन्ति ते ॥३०॥
सरस्वत्यां च गंगायां नर्मदायां युधिष्ठिर ।
समं स्नानं च दानं च यथा मे शंकरोऽब्रवीत ॥३१॥
परित्यजति यः प्रणान पर्वतेऽमरकण्टके ।
वर्षकोटिशतं साग्रं रुद्रलोके महीयते ॥३२॥
नर्मदायां जलं पुण्यं फेनोर्मिसमलंकृतम ।
पवित्रं शिरसावन्द्य सर्वपापैः प्रमुच्यते ॥३३॥
नर्मदा सर्वतः पुण्याः ब्रह्माहत्यापहारिणी ।
अहोरात्रोपवासेन मुच्यते ब्रह्माहत्यया ॥३४॥
जालेश्वरं तीर्थवरं सर्वपापविनाशनम ।
तत्र गत्वा नियमवान सर्वकामाँल्लभेन्नरः ॥३५॥
चन्द्रसुर्योपरागे तु गत्वा ह्रामरकण्टकम ।
अश्वमेधाद दशगुण पुण्यमाप्नोति मानवः ॥३६॥
एष पुण्यो गिरिवरो देवगन्धर्वसेवितः ।
नानाद्रुमलताकीर्णो नानापुष्पोशोभितः ॥३७॥
तत्र संनिहितो राजन देव्या सह महेश्वरः ।
ब्रह्मा विष्णुस्तथा चेन्द्रो विद्याधरगणैः सहः ॥३८॥
प्रदक्षिणं तु यः कुर्यात पर्वतं ह्मामरकण्ट कम ।
पौण्डरीकस्य यज्ञस्य फलं प्राप्नोति मानवः ॥३९॥
कावेरी नाम विपुला नदी कल्मषनाशिनी ।
तत्र स्नात्वा महादेवमर्चयेद वृषभध्वजम ।
संगमे नर्मदायास्तु रुद्रलोके महियते ॥४०॥
इति श्रीकूर्मपुराण षटसाहस्त्रयां संहितायामुपरिविभागे अष्टात्रिंशोऽध्यायः ॥३८॥