देवदारु वनमें स्थित मुनियोंका वृतान्त एवं शिवलिंगका पतन, मुनियोंको ब्रह्माका उपदेश, शिवको प्रसन्न करने हुए ऋषियोंद्वरा तपस्या तथा स्तुति, शिवद्वारा सांख्यका उपदेश
ऋषय ऊचुः
कथंक दारुवनं प्राप्तो भगवान गोवृषध्वजः ।
मोहयामास विप्रेन्द्रान सत वक्तुमिहार्हसि ॥१॥
सुत उवाच
पुरा दारुवने रम्ये देवसिद्धनिषेविते ।
सपुत्रदारा मुनयस्तपश्चेरुः सहस्त्रशः ॥२॥
प्रवृत्तं विविधं कर्मं प्रकुर्वाणा यथाविधि ।
यजन्ति विविधैर्यज्ञैस्तपन्ति च महर्षयः ॥३॥
तेषां प्रवृत्तिविन्यस्तचेतसामथ शुलधृक ।
ख्यापयन स महादोषं ययौ दारुवनं हरः ॥४॥
कृत्वा विश्वगुरुं विष्णुं पाश्वे देवो महेश्वरः ।
ययौ निवृत्तिविज्ञानस्थापनार्थ च शंकरः ॥५॥
आस्थाय विपुलं वेशमुनविंशतिवत्सरः ।
लीलालसो महाबाहुः पीनागंश्चारुलोचनः ॥६॥
चामीकरवपुः श्रीमान पूर्णचन्द्रनिभाननः ।
मत्तमातंगमनो दिग्वासा जगदीश्वरः ॥७॥
कुशेशयमयीं मालां सर्वरत्नैरलंकृताम ।
दधानो भगवानीशः समागच्छति सस्मितः ॥८॥
योऽनन्तः पुरुषो योनिर्लोकानामव्ययो हरिः ।
स्त्रीवेषं विष्णुरास्थाय सोऽनुगच्छति शुलिनम ॥९॥
सम्पुर्णचन्द्रवदनं पीनोन्नतपयोधरम ।
शुचिस्मितं सुप्रसन्नं रणन्नुपुरकद्वयम ॥१०॥
सुपीतवसनं दिव्यं श्यामलं चारुलोचनम ।
उदारहंसचलनं विलासि सुमनोहरम ॥११॥
एवं स भगवानीशो देवदारुवने हरः ।
चचार हरिणा भिक्षां मायया मोहयन जगत ॥१२॥
दृष्टा चरन्तं विश्वेशं तत्र तत्र पिनाकिनम ।
मायया मोहिता नार्यो देवदेवं समन्वयुः ॥१३॥
विस्त्रस्तवस्त्राभरणास्त्यक्त्वा लज्जां पतिव्रताः ।
सहैव तेन कामार्ता विलासिन्यश्चन्ति हिः ॥१४॥
ऋषीणां पुत्रका ये स्युर्यवानो जितमानसाः ।
अन्वगच्छन हृषीकेश सर्वे कामप्रपीडिताः ॥१५॥
गायन्ति नृत्यनि विलासवाह्मा नारीगणा मायिनमेकमीशम ।
दृष्टा सपान्तीकमतीविकान्त मिच्छन्त्यथालिंगनामचरन्ति ॥१६॥
पदे निपेतुः स्मितमाचरन्ति गायन्ति गीतानि मुनीशपुत्राः ।
आलोक्य पद्मापतिमादिदेवं भ्रुभगंमन्ये विचरन्ति तेन ॥१७॥
आसामथैषामापि वासुदेवो मायी मुरारिर्मनीस प्रविष्टः ।
करोति भोगान मनसि प्रवृत्तिः मायानुभूयन्त इतीव सम्यक ॥१८॥
विभाति विश्वामरभूतभर्ता स माधवः स्त्रीगणमध्यविष्टः ।
अशेषशक्त्यासनसंनिविष्टो यथैकशक्त्या सह देवदेवः ॥१९॥
करोति नृत्यं परमप्रभावं तदा विरुढः पुनरेव भुयः ।
ययौ समारुह्मा हरिः स्वभावं तदीशवृत्तामृतमादिदेवः ॥२०॥
दृष्टा नारीकुलं रुद्रं पुत्राणामपि केशवम ।
मोहयन्तं मुनिश्रेष्ठाः कोपं सदधिरे भृशम ॥२१॥
अतीव पुरुषं वाक्यं प्रोचुर्देवं कपर्दिनम ।
शेपुश्च शापैर्विविधैर्मायया तस्य मोहिताः ॥२२॥
तपांसि तेषां सर्वेषां प्रत्याहन्यन्त शंकरें ।
यथादित्यप्रकाशेन तारका नभासि स्थिताः ॥२३॥
ते भग्नतपसो विप्राः समेत्य वृषभध्वजम ।
को भवानिति देवेशंक पृच्छन्ति स्म विमोहिताः ॥२४॥
सोऽब्रवीद भगवानीशस्तपश्चचर्तुमिहागतः ।
इदानीं भार्यया देशे भवद्धिरिह सुव्रताः ॥२५॥
तस्य ते वाक्यमाकर्ण्य भृग्वाद्या मुनिपुंगवाः ।
ऊचुर्गृहीत्वा वसन त्यक्त्वा भार्यां तपश्चर ॥२६॥
अथोवाच विहस्येशः पिनाकी नीललोहितः ।
सम्प्रेक्ष्य जगतो योनि पाश्वस्थं च जनार्दनम ॥२७॥
कथं भवद्भिरुदितं स्वभार्यापोषणोत्सुकैः ।
त्यक्तव्या मम भार्येति धर्मज्ञैः शान्तमानसैः ॥२८॥
ऋषय ऊचुः
व्यभिचाररता नार्यः संत्याज्याः पतिनेरिताः ।
अस्माभिरेषा सुभगा तादृशी त्यागमर्हति ॥२९॥
महादेव उवाच
न कदाचिदियं विप्रा मनसाप्यन्यमिच्छति ।
नाहमेनामपि तथा विमुत्र्चामि कदाचन ॥३०॥
ऋषय ऊचुः
दृष्टा व्यभिचरन्तीह ह्रास्माभिः पुरुषाधम ।
उक्तं ह्रासत्यं भवता गम्यतां क्षिप्रेमेव हि ॥३१॥
एवमुक्ते महादेवः सत्यमेव मयेरितम ।
भवतां प्रतिभात्येषेत्युक्त्वासौ विचचार ह ॥३२॥
सोऽगच्छद्धरिणा सार्धं मुनीन्द्रस्य महात्मनः ।
वसिष्ठस्याश्रमं पुण्यं भिक्षार्थी परमेश्वरः ॥३३॥
दृष्टा समागतं देवं भिक्षमाणमरुन्धती ।
वसिष्ठस्य प्रिया भार्या प्रत्युदगम्य ननाम तम ॥३४॥
प्रक्षाल्य पादौ विमलं दत्वा चासनमुत्तमम ।
सम्प्रेक्ष्य शिथिलं गात्रमभिघातहतं द्विजैः ।
संधयामास भैषज्यैर्विषण्णा वदना सती ॥३५॥
चकार महतीं पूजां प्रार्थयामास भार्यया ।
को भवान कुत आयात किमाचारो भवनिति ।
उवाच तां महादेवः सिद्धानां प्रवरोऽस्म्यहम ॥३६॥
यदेतन्मण्डलं शुद्धं भाति ब्रह्मामयं सदा ।
एषैव देवता मह्रां धारयामि सदैव तत ॥३७॥
इत्युक्त्वा प्रययौ श्रीमाननृगुह्मा पतिव्रताम ।
तांडयाच्चक्रिरे दण्डैर्लोष्टिभिर्मुष्टिभिर्द्विजाः ॥३८॥
दृष्टा चरन्तं गिरिशं नग्नं विकृतलक्षणम ।
प्रोचुरेतद भवाँल्लिगंमुत्पाटयतु दुर्मते ॥३९॥
तानब्रवीन्महायोगी करिष्यामीति शंकरः ।
युष्माकं मामके लिंगे यदि द्वेषोऽभिजायते ॥४०॥
इत्युक्त्वोप्ताटयामास भगवान भगनेत्रहा ।
नापश्यंस्तत्क्षणेनेशं केशवं लिंगमेव च ॥४१॥
तदोप्ताता बभुविर्हिं लोकानां भयशंसिनः ।
न राजते सहस्त्रांशुश्चचाल पृथिवी पुनः ।
निष्प्रभाश्च ग्रहाः सर्वे चुक्षुभे च महोदधिः ॥४२॥
अपश्यच्चानसुयात्रेः स्वप्नं भार्या पतिव्रता ।
कथयामास विप्राणां भयादाकुलितेक्षणा ॥४३॥
तेजसा भासयन कृत्स्नं नारायणसहायवान ।
भिक्षमाणः शिवो नूनं दृष्टोऽस्माकं गृहेष्विति ॥४४॥
तस्या वचनमाकर्ण्य शंकमाना महर्षयः ।
सर्वे जग्मुर्महायोगं ब्रह्माणं विश्वसम्भवम ॥४५॥
उपास्यमानममलैर्योगिर्भिर्ब्रह्मावित्तमैः ।
चतुर्वैदेर्मूर्तिमद्भिः सावित्र्या सहिंतं प्रभुम ॥४६॥
आसेनमासने रम्ये नानाश्चर्यसमन्विते ।
प्रभासहस्त्रकालिले ज्ञानैश्वर्यादिसंयुते ॥४७॥
विभ्राजमानं वपुषा सस्मितां शुभ्रलोचनम ।
चतुर्मुखं महाबाहुं छन्द्रोमयमजं परम ॥४८॥
विलोक्य वेदपुरुषं प्रसन्नवदनं शुभम ।
शिरोभिर्धरणीं गत्वा तोषयामासुरीश्वरम ॥४९॥
तान प्रसन्नमना देवश्वतुर्मुर्तिश्चतुर्मुखः ।
व्याजहार मुनिश्रेष्ठाः किमागमननकारणम ॥५०॥
तस्य ते वृत्तमखिलं ब्रह्माणः परमात्मनः ।
ज्ञापय्यात्र्चाक्रिरे सर्वे कृत्वा शिरसि चांत्र्चलिम ॥५१॥
ऋषय ऊचुः
कश्चिद दारुवनं पुन्यं पुरुषोऽतीवशोभनः ।
भार्यया चारुवर्वांग्यां प्रविष्टो नग्न एव हि ॥५२॥
मोहयामास वपुषा नारीणां कुलमीश्वरः ।
कन्यकानां प्रिया चास्य दुषयामास पुत्रकान ॥५३॥
अस्माभिर्विविधाः शापा प्रदत्ताश्च पराहताः ।
ताडोतोऽस्माभिर्त्यर्थ लिंग तु विनिपातितम ॥५४॥
अन्तर्हितश्च भगवान सभार्यो लिंगमेव च ।
उप्ताताश्चाभवन घोराः सर्वभुतभयंकराः ॥५५॥
क एष पुरुषो देव भीताः स्म पुरुषोत्तम ।
भवन्तमेव शरणं प्रपन्ना वयमच्युत ॥५६॥
त्वं हि वेत्सि जगत्यस्मिन यत्कित्र्चिदपि चेष्टितम ।
अनुग्रहेण विश्वेश तदस्माननुपालय ॥५७॥
विज्ञापितो मुनिगणौर्विश्वात्मा कमलोद्भवः ।
ध्यात्वा देवं त्रिशुलांक कृतात्र्जलिरभाषत ॥५८॥
ब्रह्मोवाच
हा कष्टं भवतामद्य जातं सर्वार्थनाशनम ।
धिग्बलं धिक तपश्चर्या मिथ्यैव भवतामिह ॥५९॥
सम्प्राप्य पुण्यसंस्कारान्निधीनां परमं निधिम ।
उपेक्षित वृथाचारैर्भावद्भिरिह मोहितैः ॥६०॥
कांक्षन्ते योगिनो नित्यं यतन्तो यतयो निधिम ।
यमेव तं समासाद्य हा भवाद्भिरुपेक्षितम ॥६१॥
यजन्ति यज्ञैर्विविधैर्यत्प्रात्प्यै वेदवादिनः ।
महानिधिं समासाद्य हा भवाद्भिरुप्रेक्षितम ॥६२॥
यं समासाद्य देवानामैश्वर्यमखिलं जगत ।
तमासाद्याक्षयनिधिं हा भवद्भिरुपेक्षितम ॥६३॥
यत्समापत्तिजनितं विश्वेशत्वामिदं मम ।
तदेवोपएक्षितं दृष्टा निधानं भाग्यवजितैः ॥६४॥
यस्मिन समाहितं दिव्यमैश्वर्य यत तदव्ययम ।
तमासाद्य निधिं ब्राह्मं हा भवद्भिर्वृथा कृतम ॥६५॥
एष देवो महादेवो विज्ञेयस्तु महेश्वरः \
न तस्य परमं कित्र्चित पदं समाधिगम्यते ॥६६॥
देवतानामृषीणां च पितृणां चापि शाश्वतः ।
सहस्त्रयुगपर्यन्तं प्रलये सर्वदेहिनाम ।
संहरत्येष भगवान कालो भुत्वा महेश्वरः ॥६७॥
एष चैव प्रजाः सर्वाः सृजत्येकः स्वतेजसा ।
एष चक्री च वज्री च श्रीवत्सकृतलक्षणः ॥६८॥
योगी कृतयुगे देवस्त्रेतायां यज्ञ उच्यते ।
द्वापरे भगवान कालो धर्मकेतुःकलौ युगे ॥६९॥
रुद्रस्य मूर्ययस्तिस्त्रो याभिर्विश्वमिदं ततम ।
तमो ह्माग्री रजो ब्रह्मा सत्वं विष्णुरिति प्रभुः ॥७०॥
मूर्तिरन्या स्मृता चास्य दिग्वासा वै शिवा ध्रुवा ।
यत्र तिष्ठति तद ब्रह्मा योगेन तु समन्वितम ॥७१॥
या चास्य पार्श्वगा भार्या भवद्भिरभिवीक्षिता ।
सा हि नारायणो देवः परमात्मा सनातनः ॥७२॥
तस्मात सर्वमिदं जातं तत्रैव च लयं व्रजेत ।
स एव मोहयेत कृत्स्नं स एव परमा गतिः ॥७३॥
सहस्त्रशीषां पुरुषः सहस्त्राक्षः सहस्त्रपात ।
एकश्रुगों महानात्मा पुराणोऽष्टाक्षरो हरिः ॥७४॥
चतुर्वेदश्वतुर्मुर्तिस्त्रिमूर्तिस्त्रिगुणः परः ।
एकमूर्तिर्मरमेयात्मा नारायण इति श्रुतिः ॥७५॥
ऋतस्य गर्भो भगवानापो मायातनुः प्रभुः ।
स्तुयते विविधैर्मन्त्रैर्ब्राह्मणैधर्ममोक्षिभिः ॥७६॥
संहत्य सकलं विश्वं कल्पान्ते पुरुशोत्तमः ।
शेते योगामृतं पीत्वा यत तद विष्णोः परं पदम ॥७७॥
न जायते न म्रियते वर्धते न च विश्वसृक ।
मुलप्रकृतिरव्यक्ता गीयते वैदिकैरजः ॥७८॥
ततो निशायां वृत्तायां सिसृक्षूरखिलं जगत ।
अजस्य नाभौ तद बीजं क्षिपत्येषं महेश्वरः ॥७९॥
तं मां वित्तं महात्मानं ब्रह्माणां विश्वतोमुखम ।
महान्तं पुरुषं विश्वमपां गर्भमनुत्तमम ॥८०॥
न तं विदथं जनकं मोहितास्तस्य मायया ।
देवदेवं महादेवं भूतानामीश्वरंक हरम ॥८१॥
एष देवो महादेवो ह्मानादिर्भगवान हरः ।
विष्णुना सह संयुक्तः करोति विकरोति च ॥८२॥
न तस्य विद्यते कार्यं न तस्माद विद्यते परम ।
स वेदान प्रददौ पूर्वं योगमायातनुर्मम ॥८३॥
स मायी मायया सर्वं करोति विकरोति ।
तमेव मुक्तये ज्ञात्वा व्रजेत शरणं भवम ॥८४॥
इतीरिता भगवता मरीचिप्रमुखा विभुम ।
प्रणम्य देवं ब्रह्माणां पृच्छन्ति स्म सदुः खिताः ॥८५॥
कथं पश्येम तं देवं पुनरेव पिनाकिनम ।
ब्रुहि विश्वामरेशान त्राता त्वं शरणौषिणाम ॥८६॥
पितामह उवाच
यद दृष्ट भवता तस्य लिंग भुवि निपातितम ।
तल्लिंगानुकृतीशस्य कृत्वा लिंगमनुत्तमम ॥८७॥
पूजयध्वं सपत्नीका सादरं पुत्रसंयुताः ।
वैदिकैरेव नियमैर्विविधैर्ब्रह्माचारिणः ॥८८॥
संस्थाप्य शांकरैर्मन्त्रैऋग्यजुः सामसाम्भवैः ।
तप परं समास्थाय गृणन्तः शतरुद्रियम ॥८९॥
समाहिताः पूजयध्वं सपुत्राः सह बन्धुभिः ।
सर्वे प्रात्र्चलयो भूत्वा शुलपार्णिं प्रपद्यथ ॥९०॥
ततो द्रक्ष्यथ देवेशं दुर्दर्शमलकृतात्मभिः ।
यं दृष्टा सर्वमज्ञानमधर्मश्व प्रणश्यति ॥९१॥
ततः प्रणम्य वरदं ब्रह्माणममितौजसम ।
जग्मुः संहष्टमनसो देवदारुवनं पुनः ॥९२॥
आराधायितुमारब्धा ब्रह्माणा कथितः यथा ।
अजानन्तः परं देवं वीतरागा विमत्सराः ॥९३॥
स्थण्डिलेषु विचित्रेषु पर्वतानां गुहासु च ।
नदीनां च विविक्तेषु पुलिनेषु शुभेषु च ॥९४॥
शैवालभोजनाः केचित केचिदन्तर्जलेशयाः ।
केचिदभ्रावकाशास्तु पादांगुष्ठाग्राविष्ठिताः ॥९५॥
दन्तोलुखलिनस्त्वन्ये ह्माश्यमुट्ठास्तथा परे ।
शाकपर्णाशिनः केचित सम्प्रक्षाला मरीचिपाः ॥९६॥
वृक्षमूलनिकेताश्च शिलाशय्यास्तथा परे ।
कालं नयन्ति तपसा पूजयन्तो महेश्वरम ॥९७॥
ततस्तेषां प्रसादार्थं प्रपन्नार्तिहरो हरः ।
चकार भगवान बुद्धिं प्रबोधाय वृषध्वजः ॥९८॥
देवः कृतयुगे ह्मास्मिन श्रुंगे हिमवतः शुभे ।
देवदारुवनं प्राप्तः प्रसन्नः परमेश्वरः ॥९९॥
भस्मपाण्डुरदिग्धागों नग्नो विकृतलक्षणः ।
उल्मुकव्यग्रहस्तश्च रक्तापिंगललोचनः ॥१००॥
क्वचिच्च हसते रौद्रं क्वचिदं गायति विस्मितः ।
क्वचिन्नृत्यति श्रृगांरी क्वचिद रौति मुहुर्मुहुः ॥१०१॥
आश्रमेऽभ्यागतो भिक्षां याचते च पुनः पुनः ।
मायां कृत्वात्मनो रुपं देवस्तद वनमागतः ॥१०२॥
कृत्वा गिरिसुतां गौरी पाश्वे देवः पिनाकधृक ।
सा च पुर्ववद देवेशी देवदारुवनं गता ॥१०३॥
दृष्टा समागतं देवं देव्यां सह कपर्दिनम ।
प्रणेमुः शिरसा भूमौ तोषयामासुरीश्वरम ॥१०४॥
वैदिकैर्विविधैर्मन्त्रै सुक्तैर्माहेश्वरैः शुभैः ।
अथर्वाशिरसा चान्ये रुद्राद्यैर्ब्रह्माभिर्भवम ॥१०५॥
नमो देवादिदेवाय महादेवाय ते नमः ।
त्र्यम्बकाय नमस्तुभ्यं त्रिशुलवरधारिणे ॥१०६॥
नमो दिग्वाससे तुभ्यं विकृताय पिनाकिने ।
सर्वप्रणतदेहाय स्वयमप्रणतात्मने ॥१०७॥
अन्तकान्तकृते तुभ्यं सर्वसंहरणाय च ।
नमोऽस्तु नृत्यशीलाय नमो भैरवरुपिणे ॥१०८॥
नरनारीशरीराय योगिनां गुरवे नमः ।
नमो दान्ताय शान्ताय तापसाय हराय च ॥१०९॥
विभीषणाय रुद्राय नमस्ते कृत्तिवाससे ।
नमस्ते लेलिहानाय शितिकण्ठाय ते नमः ॥११०॥
अघोरघोररुपाय वामदेवाय वै नमः ।
नमः कनकमालाय देव्याः प्रियकराय च ॥१११॥
गंगासलिलधाराय शम्भवे परमेष्ठिने ।
नमो योगाधिपतये ब्रह्माधिपतये नमः ॥११२॥
प्राणाय च नमस्तुभ्यं नमो भस्मांगरागिणे ।
नमस्ते घनवाहाय दंष्ट्रीणे वह्निरेतस ।११३॥
ब्रह्माणश्च शिरोहर्त्रे नमस्ते कालरुपिणे ।
आगतिं ते न जानीमो गतिं नैव च नैव च ।
विश्वेश्वर महादेव योऽसि सोऽसि नमोऽस्तु ते ॥११४॥
नमः प्रमथनाथाय दात्रे च शुभसम्पदाम ।
कपालपाणये तुभ्यं नमो मीढुष्टमाय ते ।
नमः कनकलिंगाय वारिलिंगाय ते नमः ॥११५॥
नमो वह्रयर्कलिंगाय ज्ञानलिंगाय ते नमः ।
नमो भुजंगहाराय कर्णिकाराप्रियाय च ।
कीरीटिने कुण्डलिने कालकालाय ते नमः ॥११६॥
वामदेव महेशान देवदेव त्रिलोचन ।
क्षम्यतां यत्कृतं मोहात त्वमेव शरणं हि नः ॥११७॥
चरितानि विचित्राणि गुह्माणि गहनानि च ।
ब्रह्मादीनां च सर्वेषां दुर्विज्ञेयोऽसि शंकर ॥११८॥
अज्ञानाद यादि वा ज्ञानाद यत्किंचित कुरुते नरः ।
तत्सर्वं भगवानेव कुरुते योगमायया ॥११९॥
एवं स्तुत्वा महादेवं प्रहृष्टेनान्तरात्मनाः ।
ऊचुः प्रणम्य गिरिशं पश्यामस्त्वां यथा पुरा ॥१२०॥
तेषां संस्तवमाकण्य सोमः सोमविभुषणः ।
स्वमेव परमं रुपं दर्शयामास शंकरः ॥१२१॥
तं ते दृष्टाथ गिरिशं देव्या सह पिनाकिनम ।
यथा पुर्वं स्थिता विप्राः प्रणेमुर्हृष्टमानसाः ॥१२२॥
ततस्ते मुनयः सर्वे संस्तुय च महेश्वरम ।
भृग्वागिंगोवसिष्ठास्तु विश्वामित्रस्तथैव च ॥१२३॥
गौतमोऽत्रिः सुकेशश्च पुलस्यः पुलहः क्रतुः ।
मरीचिः कश्यपश्चापि संवर्तश्च महातपाः ।
प्रणम्य देवदेवेशमिदं वचनमब्रुवनः ॥१२४॥
कथं त्वां देवदेवेश कर्मयोगेन वा प्रभो ।
ज्ञानेन वाथ योगेन पूजयामः सदैव हि ॥१२५॥
केन वा देवमार्गेण सम्पूज्यो भगवानिह ।
किं सेव्यमसेव्यं वा सर्वमेतद ब्रवीहि नः ॥१२६॥
देवदेव उवाच
एतद वः सम्प्रवक्षामि गुढं गहनमुत्तमम ।
ब्रह्माणे कथितं पूर्वमादावेव महर्षयः ॥१२७॥
सांख्ययोगो द्विधा ज्ञेयः पुरुषाणां हि साधनम ।
योगेन सहितं सांख्यं पुरुषाणां विमुक्तिदम ॥१२८॥
न केवलेन योगेन दृश्यते पुरुषः परः ।
ज्ञानं तु केवलं सम्यगपवर्गफलप्रदम ॥१२९॥
भवन्तः केवलं योगं समाश्रित्य विमुक्तये ।
विहाय सांख्यं विमलमकुर्वन्त परिश्रमम ॥१३०॥
एतस्मात कारणात विप्रा नृणां केवलधर्मिणाम ।
आगतोऽहमिमं देशं ज्ञापयन मोहसम्भवम ॥१३१॥
तस्माद भवद्भिर्विमलं कैवल्यसाधनम ।
ज्ञातव्यं हि प्रयत्नेन श्रोतव्यं दृश्यमेव च ॥१३२॥
एकः सर्वत्रगो ह्मात्मा केवलश्चितिमात्रकः ।
आनन्दो निर्मलो नित्यं स्यादेतत सांख्यदर्शनम ॥१३३॥
एतदेव परं ज्ञानमेष मोक्षोऽत्र गीयते ।
एतत कैवल्यममलं ब्रह्माभावश्च वर्णितः ॥१३४॥
आश्रित्य चैतत परमं तन्निष्ठास्तत्परायणाः ।
पश्यन्ति मां महात्मानो यतयो विश्वमीश्वरम ॥१३५॥
एतत तत परमं ज्ञानं केवलं सन्निरत्र्जनम ।
अहं हि वेद्यो भगवान मम मूर्तिरियां शिवा ॥१३६॥
बहूनि साधनानीह सिद्धये कथितानि तु ।
तेषामभ्यधिकं ज्ञानं मामकं द्विजपुंगवाः ॥१३७॥
ज्ञानयोगरताः शान्ता मामेव शरणं गताः ।
ये हि मां भस्मनिरता ध्यायन्ति सततं हृदि ॥१३८॥
मद्भक्तिपरमा नित्यं यतयः क्षीणकल्मषाः ।
नाशयाम्यचिरात तेषां घोरं संसारसागरम ॥१३९॥
प्रशान्तः संयतमना भस्मोऽद्धुलितिविग्रहः ।
ब्रह्माचर्यरतो नग्नो व्रतं पाशुपतं चरेत ॥१४०॥
निर्मितं हि मया पुर्व व्रतं पाशुपतं परम ।
गुह्माद गुह्मातमं सुक्ष्मं वेदसारं विमुक्तये ॥१४१॥
यद वा कौपीनवसनः स्याद वैकवसनो मुनिः ।
वेदाभ्यासरतो विद्वान ध्यायेत पशुपतिं शिवम ॥१४२॥
एष पाशुपतो योगः सेवनीयो मुमुक्षुभिः ।
भस्मच्छन्नैर्हि सततं निष्कामैरिति विश्रुतिः ॥१४३॥
वीतरागभयक्रोधा मन्मया मामुपाश्रिताः ।
बहवोऽनेन योगेन पूता मद्भावमागताः ॥१४४॥
अन्यानि चैव शास्त्राणि लोकेऽस्मिन मोहनानि तु ।
वेदवादविरुद्धानि मयैव कथितानि तु ॥१४५॥
वामं पाशुपतं सोमं लाकुलं चैव भैरवम ।
असेव्यमेतत कथितं वेदब्राह्मं तथेतरम ॥१४६॥
वेदमुर्तिरहं विप्रा नान्यशास्त्रार्थवेदिभिः ।
ज्ञायते मत्स्वरुपं तु मुक्त्वा वेदं सनातनम ॥१४७॥
स्थापयध्वमिदं मार्गं पुजयध्वं महेश्वरम ।
अचिरादैश्वरं ज्ञानमुत्पस्यति न संशयः ॥१४८॥
मयि भक्तिश्च विपुला भवतामस्तु सत्तमाः ।
ध्यातमात्रो हि सांनिध्यं दास्यामि मुनिसत्तमाः ॥१४९॥
इत्युक्त्वा भगवान सोमस्तत्रैवान्तरधीयत ।
तेऽपि दारुवने तस्मिन पूजयन्ति स्म शंकरम ।
ब्रह्माचर्यरताः शान्ता ज्ञानयोगपरायणाः ॥१५०॥
समेत्य ते महात्मानो मुनयो ब्रह्मावादिनः ।
वितेनिरे बहुन वादानध्यात्मज्ञानसंश्रयान ॥१५१॥
किमस्य जगतो मुलमात्मा चास्माकमेव हि ।
कोऽपि स्यात सर्वभावानां हेतुरीश्वर एव च ॥१५२॥
इत्येवं मन्यमानानां ध्यानमार्गावलम्बिनाम ।
आविरासेन्महादेवी देवी गिरिवरात्मजा ॥१५३॥
कोटिसुर्यप्रतीकाशा ज्वालामालासमावृता ।
स्वभाभिर्विमलाभिस्तु पुरयन्ती नभस्तलम ॥१५४॥
तामन्वपश्यन गिरिजाममेयां ज्वालासहस्त्रान्तरसंनिविष्टाम ।
प्रणेमुरेकामखिलेशपत्नीं जानन्ति ते तत परमस्य बीजम ॥१५५॥
अस्माकमेषा परमेशपत्नी गतिस्तथात्मा गगनाभिधाना ।
पश्यन्त्यथात्मानमिदं च कृत्स्नं तस्यामथैते मुनयश्च विप्राः ॥१५६॥
निरीक्षितास्ते परमेशपन्त्ता तदन्तरे देवमशेषहेतुम ।
पश्यन्ति शंम्भुंअ कविमीशितारं रुद्रं बृहन्तं पुरुषं पुराणम ॥१५७॥
आलोक्य देवीमथ देवमीशं प्रणेमुरानन्दमवापुरग्रयम ।
ज्ञानं तदैशं भगवत्प्रसादा दाविर्बभौ जन्मविनाशहेतु ॥१५८॥
इयं हि सा जगतो योनिरेका सर्वात्मिका सर्वनियामिका च ।
माहेश्वरीशक्तिरनादिसिद्धा व्योमभिधाना दिवि राजतीव ॥१५९॥
अस्यां महत्परमेष्ठी परस्ता न्महेश्वरः शिव एकोऽथ रुद्रः ।
चकार विश्वं परशक्तिनिष्ठां मायामथारुह्मा स देवदेवः ॥१६०॥
एको देवः सर्वभुतेषु गुढो मायी रुद्रः सकलो निष्कलश्च ।
स एव देवी न च तद्विभिन्न मेतज्ज्ञात्वा ह्मामृतत्वं व्रजन्ति ॥१६१॥
अन्तर्हितोऽभूद भगवानथेशो देव्या भर्गः सह देवादिदेवः ।
आराधयन्ति स्म तमेव देवं वनौकसस्ते पुनरेव रुद्रम ॥१६२॥
एतद वः कथितं सर्वं देवदेवविचेष्टितम ।
देवदारुवने पुर्व पुराणे यन्मया श्रुतम ॥१६३॥
यः पठेच्छृणुयान्नित्यं मुच्यते सर्वपातकैः ।
श्रावयेद द्विजान शान्तान स याति परमां गतिम ॥१६४॥
इति श्रीकूर्मपुराणे षटसाहस्त्रयां संहितायामुपरिविभागे सप्तत्रिंशोऽध्यायः ॥३७॥