तीर्थमाहात्म्य प्रकरणमें विविध तीर्थोंका माहात्म्य, कालज्त्रर तीर्थकी महिमाके वर्णनके प्रसंगकें शिवभक्त राजा श्वेतकी कथा
सूत उवाच
अन्यत पवित्र विपुलं तीर्थ त्रैलोक्यविश्रुतम ।
रुद्रकोटिरिति ख्यातं रुद्रस्यं परमेष्ठिनः ॥१॥
पुरा पुण्यतमे काले देवदर्शनतत्पराः ।
कोटिब्रह्मार्षयो दान्तास्तं देशमगमन परम ॥२॥
अहं द्रक्ष्यामि गिरिशं पूर्वमेव पिनाकिनम ।
अन्योऽन्यं भक्तियुक्तांना व्याघातो पिनाकिनम ॥३॥
तेषां भक्तिं तअदा दृष्टा गिरिशो योगिनां गुरुः ।
कोटिरुपोऽभवद रुद्रो रुद्रकोटिस्ततः स्मृतः ॥४॥
ते स्म सर्वे महादेवं हरं गिरिगुहाशयम ।
पश्यन्तः पार्वतीनाथं हृष्टपुष्टाधियोऽभवन ॥५॥
अनाद्यन्तं महादेवं पुर्वमेवाहमीश्वरम ।
दृष्टावानिति भक्त्या ते रुद्रन्यस्तधियोऽभवन ॥६॥
अथान्तरिक्षे विमलं पश्यन्ति स्म महत्तरम ।
ज्योतिस्तत्रैव ते सर्वेऽभिलषन्तः परं पदम ॥७॥
एतत सदेशाध्युषितं तीर्थं पुण्यतमं शुभम ।
दृष्टा रुद्रं समभ्यर्च्यं रुद्रसामीप्यमाप्नुयात ॥८॥
अन्यच्च तीर्थप्रवरं नाम्रा मधुवनं स्मृतम ।
तत्र गत्वा नियमवानिन्द्रस्यार्धासनं लभेत ॥९॥
अथान्यात पुष्पनगरी देशः पुण्यतमः शुभः ।
तत्र गत्वा पितृन पुज्य कुलानां तारयेच्छतम ॥१०॥
कालत्र्जरं महातीर्थं लोके रुद्रो महेश्वरः ।
कालं जरितवान देवो यत्र भक्तप्रियो हरः ॥११॥
श्वेतो नाम शिवे भक्तो राजर्षिप्रवरः पुरा ।
तदाशीस्तस्तन्नमस्कारः पुजयामास शूलिनम ॥१२॥
संस्थाप्य विधिना लिंग भक्तियोगपुरः सरः ।
जजाप रुद्रमनिशं तत्र संन्यस्तमानसः ॥१३॥
स तं कालोऽथ दीप्तात्मा शुलमादाय भीषणम ।
नेतुमभ्यागतो देशं स राजा यत्र तिष्ठति ॥१४॥
वीक्ष्य राजा भयाविष्टः शुलहस्तं समागतम ।
कालं कालकरं घोरं भीषणं चण्डदीधितिम ॥१५॥
उभाभ्यामथ हस्ताभ्यां स्पृष्टासौ लिंगमैश्वरम ।
ननाम शिरसा रुद्रं जजाप शतरुद्रियम ॥१६॥
जपन्तमाह राजानं अनमन्तमसकृद भवम ।
एह्रोहीति पुरः स्थित्वा कृतान्तः प्रहसन्निव ॥१७॥
तमुवाच भयाविष्टो राजा रुद्रपरायणः ।
एकमीशार्चनरतं विहायान्यं निषुदय ॥१८॥
इत्युक्तवन्तं भगवानब्रवीद भीतमानसम ।
रुद्रार्चनरतो वान्यो मदवशे को न तिष्ठति ॥१९॥
एवमुक्त्वा स राजानं कालो लोकप्रकालनः ।
बबन्ध पाशै राजापि जजाप शतरुद्रियम ॥२०॥
अथान्तरिक्षे विमलं दीप्यमानं तेजोराशिं भूतभर्तुः पुराणम ।
ज्वालामालासंवृतं व्याप्य विश्वं प्रादुर्भुतं संस्थितं संददर्श ॥२१॥
तन्मध्येऽसौ पुरुषं रुक्मवर्ण देव्या देवं चन्द्रलेखोज्ज्वलांगम ।
तेजोरुपं पश्यति स्मातिहृष्ठो मेने चास्मन्नाथ आगच्छतीति ॥२२॥
आगच्छन्तं नातिदुरेऽथ दृष्टा कालो रुद्रं देवदेच्या महेशय ।
व्यपेतभीरखिलेशैलकनाथं राजर्षिस्तं नेतुमभ्याजगाम ॥२३॥
आलोक्यासौ भगवानुग्रकर्मा देवो रुद्रो भूतभर्ता पुराणः ।
एकं भक्तं मत्परं मां स्मरन्तं देहीतीमं कालमुचे ममेति ॥२४॥
श्रुत्वा वाक्यं गोपतेरुग्रभावः कालात्मासौ मन्यमानः स्वभावम ।
बद्धवा भक्तं पुनरेवाथ पाशैः क्रुद्धो रुद्रमभिदुद्राव वेगात ॥२५॥
प्रेक्ष्यायान्तं शैलपुत्रीमथेशः सोऽन्वीक्ष्यान्ते विश्वमायाविधिज्ञः ।
सावज्ञं वैं वामपादेन मृत्युं श्वेतस्यैनं पश्यतो व्याजघान ॥२६॥
ममार सोऽतिभीषणो महेशपादघातितः ।
रराज देवतापतिः सहोमया पिनाकधृक ॥२७॥
निरीक्ष्य देवमीश्वरं प्रहष्टमानसो हरम ।
ननाम साम्बमव्ययं स राजपुंगस्तदा ॥२८॥
नमो भवाय हेतवे हराय विश्वसम्भवे ।
नमः शिवाय धीमते नमोऽपवर्गदायिने ॥२९॥
नमो नमो नमोऽस्तु ते महाविभुषते नमः ।
विभागहीनरुपिणे नमो नराधिपाय ते ॥३०॥
नमोऽस्तु ते गणेश्वर प्रपन्नदुःखनाशन ।
अनादिनित्यभुतये वराहश्रृंगधारिणे ॥३१॥
नमो वृषध्वजाय ते कपालमालिने नमः ।
नमो महानटाय ते नमो वृषध्वजाय ते ॥३२॥
अथानुगृह्मा शंकरः प्रणामतत्परं नृपम ।
स्वगाणपत्यमव्ययं सरूपतामथो ददौ ॥३३॥
सहोमया सपार्षदः सराजपुंगवो हरः ।
मुनीशसिद्धवन्दितः क्षणाददृश्यतामगात ॥३४॥
काले महेशाभिहते लोकनाथः पितामहः ।
अयाचत वरं रुद्रं सजीवोऽयं भवत्त्विति ॥३५॥
नास्ति कश्चिदपीशान दोषलेशो वृषध्वज ।
कृतान्तस्यैव भवता तत्कार्य विनियोजितः ॥३६॥
स देवदेववचनाद देवदेवेश्वरो हरः ।
तथास्त्वियाह विश्वात्मा सोऽपि तादृग्विधोऽभवत ॥३७॥
इत्येतत परमं तीर्थ कलंजरमिति श्रुतम ।
गत्वाभ्यर्च्य महादेवं गाणपत्यं स विन्दति ॥३८॥
इति श्रीकूर्मपुराण षटसाहस्त्रयां संहितायामुपरिविभागे पंचत्रिंशोऽध्यायः ॥३५॥