संन्यासाश्रमधर्म निरुपणमें यतियोंकी भैक्ष्यवृत्तिका स्वरुप, यतियोंके लिये महेश्वरके ध्यानका प्रतिपादन, व्रतभंगमें प्रायश्चित्तविधान तथा पुनः यथास्थितिमें आनेकी विधि, संन्यासधर्म प्रकरणकी समाप्ति
व्यास उवाच
एवं स्वाश्रमनिष्ठानां यतीनां नियतात्मनाम ।
भैक्षेण वर्तनं प्रोक्तं फलमुलैरथापि वा ॥१॥
एककालं चरेद भैक्षं न प्रसज्येत विस्तरे ।
भैक्षे प्रसक्तो हि यतिर्विषयेष्वपि सज्जतिं ॥२॥
सत्पागारं चरेद भैक्षमलाभात तु पुनश्चरेत ।
प्रक्षाल्य पात्रे भुत्र्जीयादद्भिः प्रक्षालयेत तु तत ॥३॥
अथवान्यदुपादाय पात्रे भित्र्जीत नित्यशः ।
भुक्त्वा तत सत्यंजेत पात्रं यात्रामात्रमलोलुपः ॥४॥
विधुमे सन्नमुसले व्यगारे भुक्तावज्जने ।
वृत्ते शरावसम्पाते भिक्षां नित्यं यतिश्चरेत ॥५॥
गोदोहमात्रं तिष्ठेत कालं भिक्षुरधोमुखः ।
भिक्षेत्युक्त्वा सकृत तुष्णीमश्नीयाद वाग्यतः शुचिः ॥६॥
प्रक्षाल्य पाणिपादौ च समाचम्य यथाविधि ।
आदित्ये दर्शयित्वान्नं भूत्र्जीत प्राडमुखोत्तरः ॥७॥
हुत्वा प्राणाहुतीः पंच ग्रासानष्टौ समाहितः ।
आचम्य देवं ब्राह्मणं ध्यायीत परमेश्वरम ॥८॥
अलाबुं दारुपात्रं च मृग्मयं वैणवं ततः ।
चत्वारि यातिपात्राणि मनुराह प्रजापतिः ॥९॥
प्राग्रात्रे पररात्रे च मध्यरात्रे तथैव च ।
संध्यास्वाह्नि विशेषण चिन्तयेन्नित्यमीश्वरम ॥१०॥
कृत्वा हृत्पद्यनिलये विश्वाख्यं विश्वसम्भवम ।
आत्मानं सर्वभुतानां परस्तात तमसः स्थितम ॥११॥
सर्वस्याधारभूतानामनन्दं ज्योतिरव्यवम ।
प्रधानपुरुषातीतमाकाशं दहनं शिवम ॥१२॥
तदन्तः सर्वभावानामीश्वरं ब्रह्मारुपिणम ।
ध्यायेदनादिमद्वैतमानन्दादिगुनालयम ॥१३॥
महान्तं परमं ब्रह्मा पुरुषं सत्यमव्यव्ययम ।
सितेतरारुणाकारं महेशं विश्वरुपिणम ॥१४॥
ओंकारान्तेऽथं चात्मान संस्थाप्य परात्मानि ।
आकाशे देवमीशानं ध्यायीताकाशमध्यगम ॥१५॥
कारणं सर्वभावानामनन्दैकसमाश्रयम ।
पुराणं पुरुषं शम्भुं ध्यायन मुच्येत बन्धनात ॥१६॥
यद्वा गुहायां प्रकृतौ जगत्सम्मोहनालये ।
विचिन्त्य परमं व्योम सर्वभुतैककारणम ॥१७॥
जीवनं सर्वभुतानां यत्र लोकः प्रलीयते ।
आनन्दं ब्रह्माणः सुक्ष्मं यत पश्यन्ति मुमक्षुव ॥१८॥
तन्मध्ये निहितं ब्रह्मा केवलं ज्ञानलक्षणम ।
अनन्तं सत्यमीशानं विचिन्त्यासीत संयतः ॥१९॥
गुह्माद गुह्रातमं ज्ञानं यतीनामेतदीरितम ।
योऽनुतिष्ठेन्महेशेन सोऽश्नुते योगमैश्वरम ॥२०॥
तस्माद ध्यानरतो नित्यामात्मविद्यापरायणः ।
ज्ञानं समभ्यसेद ब्राह्मं येन मुच्येत बन्धनात ॥२१॥
मत्वा पृथक स्वमात्मानं सर्वस्मादेव केवलम ।
आनन्दमजरं ज्ञानं ध्यायीत च पुनः परम ॥२२॥
यस्माद भवन्ति भुतानि यद गत्वा नेह जायते ।
स तस्मादीश्वरो देवः परस्माद योऽधितिष्ठति ॥२३॥
यदन्तरे तद गगनं शाश्वतं शिवमव्ययम ।
यदंशस्तत्परो यस्तु स देवः स्यान्महेश्वरः ॥२४॥
व्रतानि यानि भिक्षुणां तथैपव्रतानि च ।
एकैकातिक्रमे तेषा प्रायश्चित्तं विधियते ॥२५॥
उपेत्य च स्तियं कामात प्रायश्चित्तं समाहितः ।
प्राणायमसायुक्त कुर्यात सांतपनं शुचिः ॥२६॥
ततश्चरेत नियमात कृच्छं संयतमानसः ।
पुनराश्रममागम्य चरेद भिक्षुरतान्दितः ॥२७॥
न धर्मयुक्तमनुतं हिनस्तीति मनीषिणः ।
तथापि च न कर्वव्ये प्रसंगो ह्रोश दरुणः ॥२८॥
एकारात्रोपवासश्च प्राणायामशतं तथा ।
उक्त्वानृतं प्रकर्तव्यं यतिना धर्मलिप्सुना ॥२९॥
परमापदगतेनापि न कार्यं स्तेयमन्यतः ।
स्तेयादभ्याधिकः कश्चिन्नास्त्यधर्म इति स्मृतिः ।
हिंसा चैषापरा दिष्टा या चात्मज्ञानननाशिका ॥३०॥
यदेतदा द्रविणं नाम प्राणा ह्रोते बहिश्रराः ।
स तस्य हरति प्राणान यो यस्य हरते धनम ॥३१॥
एवं कृत्वा स दुष्टात्मा भिन्नवृत्तो व्रताच्युतः ।
भुयो निर्वेदमापन्नश्चरेच्चान्द्रायणव्रतम ॥३२॥
विधिना शास्त्रदृष्टेन संवत्सरमिति श्रुतिः ।
भुयो निर्वेदमापन्नश्चरेद भिक्शुरतान्द्रितः ॥३३॥
अकस्मादेव हिंसा तु यदि भिक्षुः समाचरेत ।
कुर्यात कृच्छतिकृच्छ्रं तु चान्द्रयणमथापि वा ॥३४॥
स्कन्देदिन्द्रियदौर्बल्यात स्त्रियं दृष्टा यतिर्यद ।
तेन धारयितव्या वै प्राणायामास्तु षोडश ।
दिवास्कन्दे त्रिरात्रं स्यात प्राणायामशतं तथ ॥३५॥
एकान्ने मधुमांसे च नवश्राद्धे तथैव च ।
प्रत्यक्षलाणे चोक्तं प्राजापत्यं विशोधनम ॥३६॥
ध्याननिष्ठस्यं सततं नश्यते सर्वपातकम ।
तस्मान्महेश्वरं ज्ञात्वा तस्य ध्यानपरो भवेत ॥३७॥
यद ब्रह्मा परमं ज्योति प्रतिष्ठक्ष्रम्द्वयम ।
योऽन्तरात्र परं ब्रह्मा स विज्ञेयो महेश्वरः ॥३८॥
एष देवो महादेवः केवलः परमः शिवः ।
तदेवाक्षरमद्वेतः तदादित्यान्तरं परम ॥३९॥
यस्मान्महीयते देवः स्वाधाम्नि ज्ञानसंज्ञिते ।
आत्मयोगाह्वये तत्त्वे महादेवस्ततः स्मृतः ॥४०॥
नान्यद देदान्महादेवाद व्यतिरिक्तं प्रपश्यति ।
तमेवात्मानमन्वेति यः स याति परं पदम ॥४१॥
मन्यन्ते ये स्वमात्मानं विभिन्नं परमेश्वरात ।
न ते पश्यन्ति तं देवंवृथा तेषां परिश्रमः ॥४२॥
एकमेव परं ब्रह्मा विज्ञेयं तत्त्वमव्ययम ।
स देवस्तु महादेवो नैतद विज्ञाय बध्यते ॥४३॥
तस्माद यतेत नियतं यतिः संयतमानसः ।
ज्ञानयोगरतः शान्तो महादेवपरायणः ॥४४॥
एष वः कथितो विप्रा यतीनामाश्रमः शुभः ।
पितामहेन विभुना मुनीना पुर्वमीरितम ॥४५॥
नापुत्रशिष्ययोगिभ्यो दद्यादिदमनुत्तमम ।
ज्ञानं स्वयम्भुव प्रोक्तं यतिधर्माश्रयं शिवम ॥४६॥
इति यतिनियमानामेतदुक्तं विधानं पशुपतिपरितोषे यद भवेदेकहेतुः ।
न भवाति पुनरेषामुद्भवो वा विनाशः प्राणिहितमनसो ये नित्यमेवाचरन्ति ॥४७॥
इति श्रीकुर्मपुराणे षटसाहस्त्रयां संहितायामुपारिविभागे एकोनित्रिंशोऽध्यायः ॥२९॥