प्रायश्चित्त १ प्रकरणमें महापातकोंके प्रायश्चित्तका विधान तथा अन्य उपपातकोंसे शुद्धिका उपाय
व्यास उवाच
सुरापस्तु सुरां तत्पामाग्निवर्णा स्वयं पिबेत ।
तया स काये निर्दग्धे मुच्यते तु द्विजोत्तमः ॥१॥
गोमुत्रमग्निवर्णां वा गोशाकृद्रसमेव वा ।
पयो घृतं जलं वाथ मुच्यते पातकात ततः ॥२॥
जलार्द्रवासाः प्रयसो ध्य्वात्वा नारायणं हरिम ।
ब्रह्माहत्वाव्रतं चाथ चरेत तत्पापशान्तये ॥३॥
सुवर्णस्तेयकृद विप्रो राजानमाभिगग्य तु ।
स्वकर्म ख्यापयन ब्रुयान्मां भवाननुशास्त्विति ॥४॥
गृहीत्वा मुसलं राजा सकृद हन्यात ततः स्वयम ।
वधे तु शुद्धते स्तेनो ब्राह्मणस्तपसैव वा ॥५॥
स्कन्धेनादाय मुसलं लकुटं वाऽपि खादिराम ।
शक्तिं चोभयतस्तीक्ष्णामायसं दण्डमेव वा ॥६॥
राजा तेन च गन्तव्यों मुक्तकेशेन धावता ।
आचक्षाणेन तत्पापमेवंकर्माऽस्मि शाधि माम ॥७॥
शासनाद वा विमोक्षाद वा स्तेनः स्तेयाद विमुच्यते ।
अशासित्वा तु तं राजा स्तेनस्याप्नोति किब्लिषम ॥८॥
तपसाऽपनुनुत्सुस्त सुवर्णस्तेयजं मलम ।
चीरवासा द्विजोऽरण्ये चरेद ब्रह्माहणो व्रतम ॥९॥
स्बात्वा श्वनेद्गावभृगे पूतः स्यादथवा द्विजः ।
प्रदद्याद वाऽथ विप्रेभ्यः स्वात्मतुल्यं हिरण्यकम ॥१०॥
चरेद वा वत्सरं कृच्छं ब्रह्माचर्यपरायणः ।
ब्राह्मणः स्वर्णहारी तु तत्पापस्यापनुत्तये ॥११॥
गुरोर्भार्या समारुह्या ब्राह्मणः काममोहितः ।
अवगृहेत स्त्रियं तत्पां काष्णायसीं कृताम ॥१२॥
स्वयं वा शिश्नवृषणावृत्कृत्याधाय चात्र्जलौ ।
आतिष्ठेद दक्षिणामाशीमानिपातादजिह्रागः ॥१३॥
गुर्वर्थं वा हतः शुच्यच्चरेद वा ब्रह्माहा व्रतम ।
शांखा वा काण्टकोपेतां परिष्वज्याथ वत्सरम ।
अधः शयीत नियतो मुच्यते गुरु तल्पगः ॥१४॥
कृच्छ्रं वाब्दं चरेद विप्रश्चीरवासाः समाहितः ।
अश्वमेधावभृथके स्नात्वा वा शुध्यते नरः ॥१५॥
कालेऽष्टमे वा भुत्र्जानो ब्रह्माचारी सदाव्रती ।
स्थानासनाभ्यां विहरंस्त्रिरह्नोऽभ्युपयन्नपः ॥१६॥
अधः शायी त्रिभिर्वषैस्तद व्यपोहित पातकम ।
चान्द्रयणानि वा कुर्यात पंच चत्वारि वा पुनः ॥१७॥
पतितैह सम्प्रयुक्तानामथ वक्षामि निष्कृतिम ।
पतितेन तु संसर्ग यो येन कुरुते द्विजः ।
स तत्पापापनोदर्थ तस्यैव व्रतमाचरेत ॥१८॥
तत्पकृच्छम चरेद वाथ संवत्सरमतन्द्रितः ।
षाण्मासिके तु संसर्ग प्रायचित्तार्धमर्हति ॥१९॥
एभिर्व्रतैरपोहन्ति महापातकिनो मलम ।
पुण्यतीर्थाभिगमनात पृथिव्यां आथ निष्कृतिः ॥२०॥
बृहाहत्या सुरापानं स्तेयं गुर्वंगनागमः ।
कृत्वा तैस्चापि संसर्ग ब्राह्मणः कामकारतः ॥२१॥
कुर्यादनशनं विप्रः पुण्यतीथे समाहितः ।
ज्वलन्तं वा विशेदग्निं ध्यत्वा देवं कपर्दिनम ॥२२॥
न ह्यान्यं निष्कृतिर्दृष्टा मुनिभिर्धर्मवादिभिः ।
तस्मात पुण्येषु तीर्थेषु दहेद वापि स्वदेहकम ॥२३॥
गत्वा दुहितरं विप्रः स्वसारं वा स्नुषामपि ।
प्राविशोज्ज्वलनं दीप्तं मतिपुर्वमिति स्थितिः ॥२४॥
मातृष्वसां मातुलांनी तथैव च पितृष्वसाम ।
भागिनेयीं समारुह्मा कुर्यात कच्छ्रातिकृच्छ्रकौ ॥२५॥
चान्द्रायणं च कुर्वीत तस्य पापस्य शान्तये ।
ध्यायन देवं जगद्योनिमनादिनिधनं परम ॥२६॥
भ्रातभार्या समारुह्मा कुर्यात तत्पापशान्तये ।
चान्द्रायणानि चत्वारि पंच वा सुसमाहितः ॥२७॥
पैतृष्वस्त्रेयां गत्वा तु स्वस्त्रेयां मातुरेव च ।
मातुलस्य सुतां वापि गत्वा चान्द्रयणं चरेत ॥२८॥
सखिभार्या समारुह्मा गत्वा श्यालीं तथैव च ।
अहोरात्रोषितो भूत्वा तत्पकृच्छ्रं समाचरेत ॥२९॥
उदक्यागमने विप्रस्त्रिरात्रेण विशुद्ध्यति ।
चाण्दालीगमने चैव तत्पकृच्छृत्रयं विदुः ।
सह सांतपनेनास्य नान्यथा निष्कृतिः स्मृता ॥३०॥
मातृगोत्रां समासाद्य समानप्रवरां तथा
चान्द्रायणेन शुध्येत प्रयतात्मा समाहितः ॥३१॥
ब्राह्मणो ब्राह्मणीं गत्वा कृच्छ्रमेकं समाचरेत ।
कन्यकां दुषयित्वा तु चरेचान्द्रायणव्रतम ॥३२॥
अमानुषीषु पुरुष उदक्यायामयोनिषु ।
रेतः सिक्त्वा जले चैव कृच्छ्रं सान्तपनं चरेत ॥३३॥
बन्धकीगमने विप्रस्त्रिरात्रेण विशुध्यति ।
गवि मैथुनमासेव्य चरेचारन्द्रायणव्रतम ॥३४॥
अजावीमैथुनं कृत्वा प्राजापत्यं चरेद द्विजः ।
पतितां च स्त्रियम गत्वां त्रिभिः कृच्छैर्विशुध्यति ॥३५॥
पुल्कसीगमने चैव कच्छ्रं चान्द्रायणं चरेत ।
नटीं शैलुषकीम चैव रजकीं वेणुजीविनीम ।
गत्वा चान्द्रायण कुर्यात तथा चमोपजीविनीम ॥३६॥
ब्रह्माचारी स्त्रियं गच्छेत कथात्रित्काममोहितः ।
सत्पागारं चरेद भैक्षं वस्तित्व गर्दभाजिनम ॥३७॥
उपस्पशेत त्रिषवणं स्वपापं परिकीर्तयन ।
संवत्सरेण चैकेन तस्मात पापात प्रमुच्यते ॥३८॥
ब्रह्माहत्याव्रतं वापि षण्मासानाचरेद यमी ।
मुच्यते ह्रावकीर्णी तु ब्राह्मणानुमते स्थितः ॥३९॥
सप्तरात्रमकृत्वा तु भैक्षचर्याग्निपुजनम ।
रेतसश्च समुत्सर्गे प्रायश्चित्न समाचरेत ॥४०॥
ओंकारपुर्विकाभिस्तु महाव्याहृतिभिः सदा ।
संवत्सरं तु भुज्जानो नक्तं भिक्षाशनः शुचिः ॥४१॥
सावित्रीम च जपेच्चैवं नित्यं क्रोधविवर्जितः ।
नदीतीरेषु तीर्थेषु तस्मात पापाद विमुच्यते ॥४२॥
हत्वा तु क्षत्रियं विप्रः कुर्याद ब्रह्माहणो व्रतम ।
आकामतो वै षण्मासान दद्यात पंचशतं गवाम ॥४३॥
अब्दं चरेत नियतो वनवासी समाहितः ।
प्राजापत्यं सान्तपनं तत्पकृच्छ्रं तु वा स्वयम ॥४४॥
प्रमाप्याकामतो वैश्यं कुर्यात संवत्सरद्वयम ।
गोसहस्त्रं सपादं च दद्यात ब्रह्माहणो व्रतम ।
कृच्छ्रातिकृच्छ्रौ वा कुर्याच्चान्द्रायणमथापि वा ॥४५॥
संवत्सरं व्रतं कुर्याच्छूद्रं हत्वा प्रमादतः ।
गोसहस्त्रार्धपादं च दद्यात तत्पापशान्तये ॥४६॥
अष्टौ वर्षाणि षट त्रीणि कुर्याद ब्रह्माहणो व्रतम ।
हत्वा तु क्षत्रियं वैश्यं शुद्रं चैव यथाक्रमम ॥४७॥
निहत्य ब्राह्माणी विप्रस्त्वष्टवर्ष व्रत चरेत ।
राजन्यां वर्षषाटकं तु वैश्यां संवत्सरत्रयम ॥४८॥
वैश्यां हत्वा प्रमादेन किंत्र्चिद दद्याद द्विजातये ।
अन्त्यजानां वधे चैव कुर्याच्चान्द्रायणं व्रतम ।
पराकेणाथवा शुद्धिरित्याह भगवानजः ॥४९॥
मण्डुकं नकुलं काकं दन्दशुकं च मुषिकम ।
श्वानं हत्वा द्विजः कुर्यात षोडशांशं व्रत ततः ॥५०॥
पयः पिबेत त्रिरात्रं तुश्वान हत्वा सुयन्तितः ।
मार्जारं वाथ नकुलं योजनं वाध्वनो व्रजेत ।
कृच्छ्रं द्वादशरात्रं तु कुर्यादश्ववधे द्विजः ॥५१॥
अभ्री काष्णयसीं दद्यात सर्प हत्वा द्विजोत्तमः ।
पलालभारं षण्डं च सैसकं चैकमाषकम ॥५२॥
घृतकुम्भं वराहं च तिलद्रोणं च तित्तिरिम ।
शुकं द्विहायनं वत्सं क्रौत्र्चं हत्व त्रिहायनम ॥५३॥
हत्वा हंसं बलाकां च बकं बर्हिणमेव च ।
वानरं श्येनभासौ च स्पर्शयेद ब्राह्मणाय गाम ॥५४॥
क्रव्यादांस्तु मृगान हत्वा धेनुं दद्यात पयस्विनीम ।
अक्रव्यादान वत्सतरीमुष्टं हत्वा तु कृष्णलम ॥५५॥
कित्र्चिदेव तु विप्राय दद्यादस्थितमां वधे ।
अनस्थां चैव हिंसायां प्राणायामेन शुध्याति ॥५६॥
फलदानां तु वृक्षाणां छेदने जप्यमृकशतम ।
गुल्मवल्लीलतानां तु पुष्पितानां च वीरुधाम ॥५७॥
अन्येषां चैव वृक्षाणां सरसानांक च सर्वशः ।
फलपुष्पोंद्धवानां च घृतप्राशो विशोधनम ॥५८॥
हस्तिनां च वधे दृष्टं तत्पकृच्छं विशोधनम ।
चान्द्रायणं पराकं वा गां हत्वा तु प्रमादतः ।
मतिपुर्व वधे चास्याः प्रायश्चितः न विद्यते ॥५९॥
इति श्रीकूर्मपुराण षटसाहस्त्रयां संहितायामुपरिविभागे द्वात्रिशोंऽध्यायः ॥३२॥