संस्कृत सूची|संस्कृत साहित्य|पुराण|कूर्मपुराणम् उत्तरभागः|
त्रयोविंशोऽध्यायः

कूर्मपुराणः - त्रयोविंशोऽध्यायः

पुराण म्हणजे भारतीय संस्कृतीचा अमूल्य ठेवा आहे. महापुराणांच्या क्रमवारीत कूर्मपुराण पंधराव्या स्थानावर आहे.


आशौच प्रकरणमें जननाशौच और मरणाशौचकी क्रियाविधि शुद्धि विधान, सपिण्डता, सद्यः शौच, अन्त्येष्टि, संस्कार, सपिण्डीकारण विधि, मासिक तथा सांवत्सरिक श्राद्ध आदिका वर्णन

व्यास उवाच

दशाहं प्राहुराशौच सपिण्डेषु विपश्चितः ।

मृतेषु वाथ जातेषुः ब्राह्मणानां द्विजोत्तमाः ॥१॥

नित्यानि चैव कर्माणि काम्यानि च विशेषतः ।

न कुर्याद विहितं कित्र्चित स्वाध्यायं मनसापि च ॥२॥

शुचीनक्रोधानान भुम्यान शालग्नौ भावयेद द्विजान ।

शुष्कान्नेन फलैर्वपि वैतानं जुहुयात तथा ॥३॥

न स्पृशोयुरिमनन्ये न च तेभ्यः समाहरेत ।

चतुर्थे पंचमें वाह्नि संस्पर्शः कथितो बुधैः ॥४॥

सुतके तु सपिण्डानां संस्पर्शों न प्रदुष्यति ।

सुतकं सुतिकां चैव वर्जयित्वा गृणां पुनः ॥५॥

अधीयानस्तथा यज्वा वेदविच्च पिता भवेत ।

संस्पृश्या सर्व एवैते स्नानान्माता दशाहतः ॥६॥

दशाहं निर्गुणे प्रोक्तमशौचं चातिनिर्गुणे ।

एकद्वित्रिगुणैर्युक्तं चतुर्त्र्येकदिनैः शुचिः ॥७॥

दशाहात तु परं सम्यगधीयीत जुहोत च ।

चतुर्थे तस्य संस्पर्श मनुराह प्रजापतिः ॥८॥

क्रियाहिनस्य मुर्खस्य महारोगिण एव च ।

यथेष्टाचरणस्याहुर्मरणान्तमशौचकम ॥९॥

त्रिरात्रं दशरात्रं वा ब्राह्माणानामशौचकम ।

प्राक्संस्कारात त्रिरातं स्यत तस्मादुर्ध्व दशाहकम ॥१०॥

उनद्विज्वार्षिके प्रेते मातापित्रोस्तदिष्यते ।

त्रिरात्रेण शुचिस्त्वन्यो यदि ह्रान्त्यन्तनिर्गुण ॥११॥

अदन्तजातमरणे पित्रोरेकाहमिष्यते ।

जातदन्ते त्रिरात्रं स्याद यदि स्यता तु निरुणौ ॥१२॥

आदन्तजननात सद्य आचाउलादेकरारकम ।

त्रिरात्रामौपनयनात सपिण्डानामुदाहृतम ॥१३॥

जातमात्रस्य बालस्य यदि स्यान्मरणं पितृः ।

मातुश्च सुतकं तत स्यत पिता स्यात स्पृश्य एव च ॥१४॥

सद्यः शौचं सपिण्डानां कर्तव्यः सोदरस्य च ।

ऊर्ध्व दशाहादेकहं सोदरो यदि निर्गुणः ॥१५॥

अथोर्ध्व दन्तजनानात सपिण्डानामशौचकमज ।

एकरात्र निर्गुणानां चौलादुर्ध्वं त्रिरात्रकम ॥१६॥

अदन्तजातमरणं सम्भवेद यति सत्तमाः ।

एकरात्रं सपिण्डानां यदि तेऽयन्तनिर्गुणाः ॥१७॥

व्रतादेशात सपिण्डानामर्वाक स्नानं विधीयते ।

सर्वेषामेव गुणीनामुर्ध्वं तु विषम पुनः ॥१८॥

अर्वाक षण्मासतः स्त्रीणां यदि स्याद गर्भसंस्रवः ।

तदा माससमैस्तासामशौचं दिवसैः स्मृतम ॥१९॥

तत ऊर्ध्वं तु पतने स्त्रीणां द्वादशारात्रिकम ।

सद्यः शौच सपिण्डनां गर्भस्रावाच्च वा ततः ॥२०॥

गर्भच्यतावहोरात्रं सपिण्डेऽत्यन्तनिर्गुणेः ।

यथेष्टाचरणे ज्ञातौ त्रिरात्रमिति निश्चयः ॥२१॥

यदि स्यात सुतके सुतिर्मरणे वा मृतिर्बभेत ।

शैषेणैव भवेच्छुद्धिरहः शेषे त्रिरात्रकम ॥२२॥

मरणोत्पत्तियोगे तु मरणच्छुद्धिरिष्यते ।

अघवृद्धिमदशौचमूर्ध्व चेत तेन शुद्धति ॥२३॥

अथ चेत पंचमीरात्रिमतीत्य परतो भवेत ।

अघवृद्धिमदाशौचं तदा पुर्व्ण शुध्यति ॥२४॥

देशान्तरगतं श्रुत्वां सुतकं शावमेव तु ।

तावदप्रयतो मर्त्यो यावच्छेषः समाप्यते ॥२५॥

अतीते सुतके प्रोक्तं सपिण्डानां त्रिरात्रकम ।

तथैव मरणे स्नानमुर्ध्व संवत्सराद यदि ॥२६॥

वेदान्तविच्चाधीयानो योऽग्निमान वृत्तिकर्षितः ।

सद्यःशौचं भवेत तस्य सर्वावस्थासु सर्वदा ॥२७॥

स्त्रीणामसंस्कृतानं तु प्रदानात पुर्वेतः सदा ।

सपिण्डानं त्रिरात्रं स्यात संस्कारेक भर्तुरेव हि ॥२८॥

अहस्त्वदत्तकन्यानामशौचं मरणे स्मृतम ।

ऊनर्द्विवर्षान्मारणे सद्यः शौचमुदाहृतम ॥२९॥

आदन्तात सोदरे सद्य आचौलादेकारात्रकमा ।

आप्रदानात त्रिरात्रं स्याद दशरात्रमत परम ॥३०॥

मातामहानां मरणे त्रिरात्रं स्यादशौचकम ।

एकोदकानां मरणे सुतके चैतदेव हि ॥३१॥

पक्षिणी योनिसम्बन्धे बान्धवेषु तथैव च ।

एकमात्रं समुद्दिष्टं गुरौ सब्रहाचरिणि ॥३२॥

प्रेते राजनि सज्योतिर्यस्य स्याद विषये स्थितिः ।

गृहे मृतासु दतासु कन्यकासु त्र्यहं पितृः ॥३३॥

परपुर्वासु भार्यासु पुत्रेषु कृतकेषु च ।

त्रिरात्रं स्यात तथाचार्ये स्वभार्यास्वन्यगासु च ॥३४॥

आचार्यपुत्रे पन्त्यां च अहोरात्रमुदाहृतम ।

एकाहं स्यादुपाध्याये स्वग्रामे क्षोत्रियेऽपि च ॥३५॥

त्रिरात्रमसपिण्डेषु स्वगृहे संस्थितेषु च।

एकाहं चास्ववर्ये स्यादेकारात्रं तदिष्यते ॥३६॥

त्रिरात्रं श्वश्रुमरणेक श्वशुरें वै तदेव हि ।

सद्यः शौचं समुद्दिष्टं सगोत्रे संस्थिते सति ॥३७॥

शुद्धेद विप्रो दशाहेन द्वादशाहेन भुमिपः ।

वैश्यः पंचदशाहेन शुद्रो मासेन शुध्यति ॥३८॥

क्षत्रविटशुद्रदायादा ये स्युर्विप्रस्य बान्धवाः ।

तेषामशौचे विप्रस्य दशाहाच्छुद्धिरिष्यते ॥३९॥

राजन्यवैश्यावप्येवं हीनवर्नासु योनिषु ।

स्वमेव शौचं कुर्यातां विशुद्धर्यमसंशयम ॥४०॥

सर्वे तृतरवर्णनामशौचं कुर्यरादृताः ।

तदवर्णविधिदृष्टेन स्वं तु शौचं स्वयोनिषु ॥४१॥

षडरात्रं वा त्रिरात्रं स्यादेकरात्रं क्रमेण हि ।

वैश्यक्षत्रियविप्राणां शुद्रेष्वाशौचमेव तु ॥४२॥

अर्धमासोऽथ षड्रान्नं त्रिरात्रं द्विजपुंगवाः ।

शुद्रक्षत्रियविप्राणसं वैश्येश्वाशौचाचमिष्याते ॥४३॥

षडरात्रं वै दशाहं च विप्राणां वैश्यशुद्रयोः ।

अशौचं क्षत्रिये प्रोक्तं क्रमेण द्विजपुंगवाः ॥४४॥

शुद्रविटक्षत्रियानां तु ब्राह्माणे संस्थिते सति ।

दशरात्रेण शुद्धिः स्यादित्याह कमलोद्भवः ॥४५॥

असपिण्डं द्विजं प्रेतं विप्रो निर्हृत्य बन्धुवत ।

अशित्व च सहोषित्वा दशरात्रेण शुध्यति ॥४६॥

यद्यन्नमत्ति तेषां तु त्रिरात्रेण ततः शुचिः ।

अनदन्ननमह्नेव न च तस्मिन गृहे वसेत ॥४७॥

सोदकेष्वेतदेव स्यन्मातुराप्तेषु बन्धुषु ।

दशाहेन शवस्पर्शे सपिण्दश्चैव शुध्यति ॥४८॥

यदि निर्हरति प्रेतं प्रलोभाक्रन्तमानसः ।

दशाहेन द्विजः शुध्येद द्वादशाहेन भुमिपः ॥४९॥

अर्धमासेन वैश्यस्तु शुद्रो मासेन शुध्यति ।

षडरात्रेणाथवा सर्वे त्रिरात्रेनाथवा पुनः ॥५०॥

अनाथं चैव निर्हृत्य ब्राह्मणं धनवर्जितम ।

स्नात्वा सम्र्पाश्य तु घृतं शुध्यन्ति ब्राह्मणादयः ॥५१॥

अवरश्चेद वरं वर्णमवरं वा वरो यदि ।

अशौचे संस्पृशेचे स्नेहात तदाशौचेन शुध्याति ॥५२॥

प्रेतीभूत द्विजं विप्रो योऽनुगच्छेत कामतः ।

स्नात्वा सचैलं स्पृष्टाग्निं घृतं प्राश्तं विशुध्याति ॥५३॥

एकाहात क्षत्रिये शुद्धिवैश्ये स्याच्च द्वयहेन तु ।

शुद्रे दिनत्रयं प्रोक्तं प्राणायामशतं पुनः ॥५४॥

अनास्थिसंचितं शुद्रे रौति चेदु ब्राह्मणः स्वकैः ।

त्रिरत्रं स्यात तथाशौचमेकाहं त्वन्यथा स्मृतम ॥५५॥

अस्थिसंचयनादर्वागेकाहं क्षत्रवैश्ययोः ।

अन्यथा चैव सज्योतिब्रार्ह्मणे स्नानमेव तु ॥५६॥

अनस्थिसंचिते विप्रे ब्राह्मणो रौति चेत तदा ।

स्नानेनैव भवेच्छुद्धिः सचैलेन न संशयः ॥५७॥

यस्तैः सहाशनं कुर्याच्छयनादीनि चैव हि ।

बान्धवो वापरो वापि स दशहेन शुध्यति ॥५८॥

यस्तेषामन्नमश्नाति सकृदेवापि कामतः ।

तदाशौचे निवृत्तेऽसौ स्नानं कृत्वा विशुध्यतिः ॥५९॥

यावत्तदन्नमश्नाति दुर्भिक्षोपहतो नरः ।

तावन्त्यहान्यशौचं स्यात प्रायश्चित्तं ततश्चरेत ॥६०॥

दाहाद्यशौचं कर्तव्यं द्विजानामाग्निहोत्रणाम ।

सपिण्डानां तु मरणे मरणादितरेषु च ॥६१॥

सपिण्डता च पुरुषे सप्तमें विनिवर्तते ।

समानोदकभावस्तु जन्मनाम्नारवेदने ॥६२॥

पिता पितामहश्चैव तथैव प्रतितामहः ।

लेपभाजस्त्रयश्चात्मा सापिण्ड्यं साप्तपौरुषम ॥६३॥

अप्रत्तानां तथा स्त्रीणां सापिण्डयं साप्तपौरुषम ।

ऊढानां भर्तुसापिण्ड्यं प्राह देवः पितामहः ॥६४॥

ये चैकजाता बहवो भिन्नयोजय एव च ।

भिन्नवर्णास्तु सापिण्ड्यं भवेत तेषां त्रिपुरुषम ॥६५॥

कारवः शिल्पिनो वैद्या दासीदासास्तथैव च ।

दातारो नियमो चिव ब्रह्माविदब्रह्माचरिणी ॥६६॥

सत्रिणो व्रतिनस्तावत सद्यः शौचा उदाहृताः ।

राजा चैवाभिषिक्तश्च प्राणसत्रिण एव च ॥६७॥

यज्ञे विवाहकाले च देवयागे तथैव च ।

सद्यः शौचं समाख्याचं दुर्भिक्षे चाप्युपद्रवे ॥६८॥

डिम्बाहवहतानां च विद्युता पार्थिवैर्द्विजैः ।

सद्यः शौचं समाख्यातं सर्पादिकरणे तथा ॥६९॥

अग्नौ मरुप्रपतेनए वीराध्वन्यप्यनाशके ।

ब्राह्मणार्थे च संन्यस्ते सद्यः शौचं विधीयते ॥७०॥

नैष्ठिकानां वनस्थानां यतीनां ब्रह्माचरिणाम ।

नाशौचं कीर्त्यते सद्भिः पतिते च ताथा मृते ॥७१॥

पतितानां न दहाः स्यान्नान्त्येष्टिर्नास्थिसंचयः ।

न चाश्रुपातपिण्डौ वा कार्यं श्राद्धदिकं क्वचित ॥७२॥

व्यापादयेत तथात्मानं स्वयं योऽग्निविषदिभिः ।

विहितं तस्य नाशौचं नाग्निर्नाप्य्दकादिकम ॥७३॥

अथ कश्चित प्रमादेन म्रियतेऽग्निविषादिभिः ।

तस्याशौचं विधातव्यं कार्यं चैवोदकादिकम ॥७४॥

जाते कुमारे तदहः कामं कुर्यात प्रतिग्रहम ।

हिरण्यधान्यगोवासस्तिलान्नगुडसर्पिषाम ॥७५॥

फलानि पुष्पं शाकं च लवणं काष्ठमेव च ।

तोयं दधि घृतं तैलमौषधं क्षीरमेव च ।

आशौचिनां गृहाद ग्राहं शुष्कान्नं चैव नित्यशः ॥७६॥

आहितग्निर्यथान्यायं दग्धव्यास्त्रिभिरग्निभिः ।

अनाहिताग्निर्गृह्मोण लौकिकेननेतरो जनः ॥७७॥

देहाभावात पत्‍नाशैस्तु कृत्वा प्रतिकृतिं पुनः ।

दाहः कार्यो यथान्यायं सपिण्डैः श्रद्धयान्वितैः ॥७८॥

सकृत्प्रसित्र्ज्चन्त्युदकं नामगोत्रेण वाग्यताः ।

दशाहं बान्धवैः सार्धं सर्वे चैवार्द्रवाससः ॥७९॥

पिण्डं प्रतिदिनं दद्युः सायं प्रातर्यथाविधिः ।

प्रेताय च गृहद्वारि चतुर्थ भोजयेद द्विजान ॥८०॥

द्वितीयेऽहनि कर्तव्यं क्षुरकर्म सबान्धवैः ।

चतुर्थ बान्धवैः सर्वैरस्थ्नां संचयनं भवेत ।

पुर्वं तु भोजयेद विप्रानयुग्मान श्रद्धया शुचीन ॥८१॥

पंचमे नवमें चैव तथैवैकादशेऽहनि ।

अगुग्मान भोजयेद विप्रान नवश्राद्धं तु तद्विदुः ॥८२॥

एकादशेऽह्नु कुर्वीत प्रेतमुद्दिश्य भावत ।

द्वादशे वाथ कर्तव्यामनिन्द्ये त्वथवाहनि ।

एकं पवित्रमेकोऽर्घः पिण्डापात्रं तथैव च ॥८३॥

एवं मृताह्नि कर्तव्यं प्रतिमासं तु वत्सरम ।

सपिण्डिकरणं प्रोक्तं पुर्णे संवत्सरे पुनः ॥८४॥

कुर्याच्चत्वरि पात्राणि प्रेतादिनां द्विजोत्तमाः ।

प्रेतार्घं पितृपात्रेषु पात्रमासेचयेत ततः ॥८५॥

ये समाना इति द्वाभ्यां पिण्डानप्येवमेव हि ।

सपिण्डीकरणं श्राद्धं देवपुर्व विधीयते ॥८६॥

पितृनावहायेत तत्र पुनः प्रेतं च निर्दिशेत ।

ये सपिण्डीकृताह प्रेताः न तेषां स्यात पृथकक्रियाः ।

यस्तु क्रुयात पृथक पिण्डं पितृहां सोऽभिजायते ॥८७॥

मृते पितरि वै पुत्रः पिण्डमद्बं समाचरेत ।

दद्याच्चान्नं सोदकुम्भं प्रत्यहं प्रेतधर्मतः ॥८८॥

पार्वणेन विधानेन सांवत्सरिकमिष्यते ।

प्रतिसंवत्सरं कार्यं विधिरेष सनातनः ॥८९॥

मातापित्रोः सुतैः कार्यं पिण्डदानादिकं च यत ।

पत्नी कुर्यात सुताभावे पत्‍न्यभावे सहोदरः ॥९०॥

अनेनैव विधानेन जीवन वा श्राद्धमाचरेत ।

कृत्वा दनादिकं सर्व श्रद्धायुक्तः समाहितः ॥९१॥

एष वः कथितः सम्यग गृहस्थानां क्रियाविधिः ।

स्त्रीणां तु भर्तृशुश्रुषा धर्मो नान्यं इहेष्यते ॥९२॥

स्वधर्मपरमो नित्यमीश्वरार्पितामानसः ।

प्राप्नोति तत परं स्थानं यदुक्तं वेदवादिभिः ॥९३॥

इति श्रीकूर्मपुराणे षटसाहस्रयां संहितायामुपरिविभागे त्रयोविंशोऽध्यायः ॥२३॥

N/A

References : N/A
Last Updated : April 17, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP