तीर्थमाहत्म्य प्रकरणमें नैमिषारण्य तथा जप्येश्वर तीर्थकी महिमा, जप्येश्वर तीर्थमें महर्षि शिलादके पुत्र नन्दीकी तपस्या तथा उनके गणाधिपाति होनेका आख्यान
सुत उवाच
इंद त्रैलोक्यविख्यातं तीर्थं नैमिशमुत्तमम ।
महादेवाप्रियकरं महापातकनाशनम ॥१॥
महादेवं दिद्वक्षूणामृषीणां परमेष्ठिनाम ।
ब्रह्माणा निर्मितं स्थानं तपस्तप्तुं द्विजोत्तमाः ॥२॥
मरीचयोऽत्रयो विप्रा वसिष्ठाः क्रतवस्तथा ।
भृगवोऽगिंरसः पुर्वाः ब्रह्माणां कमलोद्भवम ॥३॥
समेत्य सर्ववरदं चतुर्मुर्तिं चतुर्मुखम ।
पृच्छन्ति प्रणिपत्यैनं विश्वकर्माणमच्युतम ॥४॥
षटकुलीया ऊचुः
भगवन देवमीशानं भर्गमेकं कपार्दिनम ।
केनोपायेन पश्यामो ब्रुहि देवनमस्कृतम ॥५॥
ब्रह्मोवाच
सत्रं सहस्त्रमासध्वं वाडमनोदोषवर्जिताः ।
देशं च वः प्रवक्ष्यामि यस्मिन देशे चरिष्यथ ॥६॥
उक्त्वा मनोमयं चक्रं स सृष्टा तानुवाच ह ।
क्षिप्तमेतन्मया चक्रमनव्रजत मा चिरम ।
यत्रास्य नेमिः शीर्येत स देशः पुरुषर्षभाः ॥७॥
ततो मुमोच तच्चक्रं ते च तत्समनुव्रजन ।
तस्य वै व्रजतः क्षिप्रं यत्र नेमिरशीर्यत ।
नैमिशं तत्स्मृतं नाम्रां पुण्यं सर्वत्र पूजितम ॥८॥
सिद्धचारणसंकीर्ण यक्षगन्धर्वसेवितम ।
स्थानं भगवतः शम्भोरेतन्नैमिशमुत्तमम ॥९॥
अत्र देवाः सगन्धर्वाः सयक्षोरगराक्षसाः ।
तपस्तप्त्वा पुरा देवा लेभिरे प्रवरान वरान ॥१०॥
इमं देशं समाश्रित्यं षटकुलीयाः समाहिताः ।
सत्रेणाराध्य देवेशं दृष्टावन्तो महेश्वरम ॥११॥
अत्र दानं तपस्तत्पं स्नानं जप्यादिकं च यत ।
एकैकं पावयेत पापं सप्तजन्मकृतं द्विजाः ॥१२॥
अत्र पुर्वं स भगवानुषीणां सत्रमासाताम ।
प्रोवाच वायुर्ब्रह्माण्डं पुराणं ब्रह्माभाषितम ॥१३॥
अत्र देवो महादेवो रुद्राण्या किल विश्वकृत ।
रमतेऽद्यापि भगवान प्रमथैः परिवारितः ॥१४॥
अत्र प्राणान परित्यज्य नियमेन द्विजातयः ।
ब्रह्मालोकं गमिष्यन्ति यत्र गत्वा न जायते ॥१५॥
अन्यच्च तीर्थप्रवरं जाप्येश्वरमितिश्रुतम ।
जजाप रुद्रमनिशं यत्र नन्दी महागणः ॥१६॥
प्रीतस्तस्य महादेवो देव्या सह पिनाकधृक ।
ददावात्मसमानत्वं मृत्युवत्र्चनमेव च ॥१७॥
अभूदृषिः स धर्मात्मा शिलादो नाम धर्मवित ।
आराधयन्महादेवं पुत्रार्थ वृषभध्वजम ॥१८॥
तस्य वर्शसहस्त्रान्ते तप्यमानस्य विश्वकृत ।
शर्वः सोमो गणवृतो वरदोऽस्मीत्यभाषत ॥१९॥
स वव्रे वरमीशानं वरेण्यं गिरिजापतिम ।
अयोनिजं मृत्युहिनं देहि पुत्रं त्वया समम ॥२०॥
तथास्त्वित्याह भगवान देव्या सह महेश्वरः ।
पश्यतस्तस्य विप्रर्षेरन्तर्धानं गतो हरः ॥२१॥
ततो यियक्षुः स्वां भूमिं शिलादो धर्मवित्तमः ।
चकर्ष लांगलेनोर्वा भित्वादृश्यत शोभनः ॥२२॥
संवर्तकानलप्रख्यः कुमारः प्रहसान्निव ।
रुपलावण्यसम्पन्नस्तेजसा भासयन दिशः ॥२३॥
कुमारतुल्योऽप्रतिमो मेघगम्भीरया गिरा ।
शिलादं तात तातेति प्राह नन्दी पुनः पुनः ॥२४॥
तं दृष्टः नन्दनं जातं शिलादः परिषस्वजे ।
मुनिभ्यो दर्शयामास ये तदाश्रमवासिनः ॥२५॥
जातकर्मादिकाः सर्वाः क्रियास्तस्य चकार ह ।
उपनीय यथाशास्त्रं वेदमध्यापयत सुतम ॥२६॥
अधीतवेदो भगवान नन्दी मतिमनुत्तमाम ।
चक्रे महेश्वरं द्रष्टुं जेष्यें मृत्युमिति प्रभुम ॥२७॥
स गत्वा सरितं पुण्यमेकाग्रश्रद्धायन्वितः ।
जजाप रुद्रमनिशं महेषासक्तमानसः ॥२८॥
तस्य कोट्यं तु पुर्णायां शंकरो भक्तवत्सलः ।
आगत्य साम्बः सगणो वरदोऽस्मीत्युवाच ह ॥२९॥
स वव्रे पुनरेवाहं जपेयं कोटिमीश्वरम ।
तावदायुर्महादेव देहिति वरमीश्वर ॥३०॥
एवमस्त्विति सम्प्रोच्य देवोऽप्यन्तरधीयत ।
जजाप कोटिं भगवान भुयस्तदगतमानसः ॥३१॥
द्वितीयायां च कोट्यां वै सम्पुर्णायां वृषध्वजः ।
आगत्य वरदोऽस्मीति प्राह भूतगणैर्वृतः ॥३२॥
तृतीयां जप्तुमिच्छामि कोटिं भुयोऽपि शंकर ।
तथास्त्वित्याह विश्वात्मा देवोऽप्यन्तरधीयत ॥३३॥
कोटित्रयेऽथ सम्पुर्ण देवः प्रीतमना भृशम ।
आगत्य वरदोऽस्मीति प्राह भूतगणैर्वृतः ॥३४॥
जपेयं कोटिमन्यां वैं भूयोऽपि तव तेजसा ।
इत्युक्ते भगवानाह न जप्तव्यं त्वया पुनः ॥३५॥
अमरो जरया त्यक्तो मम पार्श्वगतः सदा ।
महागणपतिर्देव्याः पुत्रो भव महेश्वरः ॥३६॥
योगीश्वरो योगनेता गणानामीश्वरेश्वरः ।
सर्वलोकाधिपः श्रीमान सर्वज्ञो मदबलान्वितः ॥३७॥
ज्ञानं तन्मामकं दिव्यंक हस्तामलकवत तव ।
आभुतसम्प्लवस्थायी ततो यास्यासि मत्पदम ॥३८॥
एतदुक्त्वा महादेवो गणानाहुया शंकरः ।
अभिषेकेण युक्तेने नन्दीश्वरमयोजयत ॥३९॥
उद्वाहयामास च तं स्वयमेव पिनाकधृक ।
मरुतां च शुभां कन्यां सुयशेति च विश्रुताम ॥४०॥
एतज्जप्येश्वरं स्थानं देवदेवस्यं शुलिनः ।
यत्र तत्र मृतो मर्त्यो रुद्रलोके महीयते ॥४१॥
इति श्रीकूर्मपुराणे षटसाहस्रयां संहितायामुपरिविभागे एकचत्वारिंशोऽध्यायः ॥४१॥