ब्रह्माचारीका धर्म, यजोएवीत आदिके सम्बन्धमें विविध विवरण अभिवादनकी विधी, माता पिता एवं गुरुकी महिमा ब्रह्माचारीके सदाचर्का वर्णन
व्यास उवाच
श्रृणुध्वमृषयः सर्वे वक्ष्यमाणं सनातनम ।
कर्मयोगं ब्राह्मणनमत्यन्तिकफाप्रदम ॥१॥
आम्रयसिद्ध्मखिलं ब्रह्माणनुप्रदर्शितम ।
ऋषीणं श्रुण्वतां पुर्वं मनुरह प्रजापतिः ॥२॥
सर्वपापहरं पुण्यमृषिसंगैर्निषेवितम ।
समाहिताधियो युयं श्रृणुध्वं गदतो मम ॥३॥
कृतोपनयनो वेदानधीयीत द्विजोत्तमाः ।
गर्भीष्टऽष्टमे वाब्दे स्वसुत्रोक्तविधानतः ॥४॥
दण्डी च मेखली सुत्री कृष्णाजिनधरो मुनिः ।
भिक्षाहारो गुरुहितो वीक्षमाणो गुरोर्मुखम ॥५॥
कार्पासमुपवेतार्थ निर्मितं ब्रह्माणा पुरा ।
ब्राह्मणानां त्रिवृतं सुत्रं कौशं वा वास्त्रमेव वा ॥६॥
सदोपवीती चैव स्यात सदा बद्धशिखो द्विजः ।
अन्यथा यत कृतं कर्म तद भवत्ययथाकृतम ॥७॥
वसेदविकृत वासः कार्पासं वा कषायकम ।
तदेव परिधानीयं शुक्लमच्छिद्रमुत्तमम ॥८॥
उत्तरं तु समाख्यातं वासः कृष्णाजिनं शुभम ।
अभावे दिव्यमजिनं रौरवं वा विधीयते ॥९॥
उद्धत्यं दक्षिणं बाहुं सव्ये बाहौ समर्पितम ।
उपर्वीतं भवेन्नित्यं निवीतं कण्ठसज्जने ॥१०॥
सव्यं बाहुं समुद्धत्यं दक्षिणे तु धृतं द्विजाः ।
प्राचीनावीतामित्युक्तं पित्र्ये कर्मणि योजयेत ॥११॥
अगन्यगारे गवां गोष्ठे होमे जप्ये तथैव च ।
स्वाध्याये भोजने नित्यं ब्राह्मणानां च संनिधौ ॥१२॥
उपासने गुरुणां च संध्ययोः साधुसंगमें ।
उपवीती भवेन्नित्यं विधिरेष सनातनः ॥१३॥
मौत्र्जी त्रिवुत समा श्लक्ष्ण कार्या विप्रस्य मेखला ।
मुत्र्जाभावे कुशेनाहुर्ग्रन्थिनैकेन व त्रिभिः ॥१४॥
धारयेद बैल्वपालाशी दण्डौ केशान्तकौ द्विजः ।
यज्ञार्हवृक्षजं वाथ सौम्यमव्रणमेव च ॥१५॥
सायं प्रतिर्द्विजः संध्यामुपासीत समाहितः ।
कामल्लोभाद भयान्मोहात त्यक्तेन पतितो भवेत ॥१६॥
अग्निकार्यं ततः कुर्यात सायं प्राप्तः प्रसन्नधीः ।
स्नात्वा संतर्पयेद देवानृषीद पितृगणास्तंथा ॥१७॥
देवताभ्यर्चनं कुर्यात पुष्पैः पुत्रेण वाम्बुभिः ।
अभिवादनशीलः स्यान्नित्यं वृद्धेषु धर्मतुः ॥१८॥
असावहं भो नामेति सम्यकः प्रणतिपुर्वकम ।
आयुरारोग्यसिद्धर्थ तन्द्रादिपरिवर्जितः ॥१९॥
आयुष्मान भव सौम्ह्येति वाच्यों विप्रोऽभिवादने ।
अकारश्चास्य नाम्रोऽन्ते वाच्यः पुर्वाक्षरः प्लुतः ॥२०॥
न कुर्याद योऽभिवादस्य द्विजः प्रत्याभिवादनम ।
नाभिवाद्यः स विदुषा यथा शुद्रस्तथैव सः ॥२१॥
व्यत्यस्तपाणिना कार्यमुपसंग्रहणं गुरोः ।
सव्येन सव्यः स्पर्ष्टव्यो दक्षिणेन तु दक्षिणः ॥२२॥
लौकिकं वैदिकं चापि तथाध्यात्मिकमेव वा ।
आददीत यतो ज्ञानं त पुर्वमभिवादयेत ॥२३॥
नोदकं धारयेद भैक्ष्यं पुष्पाणि समिधस्तथा ।
एवं विधानि चान्यनि न दैवाद्येषु कर्मसु ॥२४॥
ब्राह्मणं कुशलं पृच्छेत क्षत्रबन्धुमनामयम ।
वैश्यं क्षेमं समागम्य शुद्रमारोग्यमेव तु ॥२५॥
उपध्यायः पिता ज्येष्ठो भ्राता चैव महीपतिः ।
मातुलः श्वशुरस्त्राता मातामहपितामहौः ।
वर्णज्येष्ठ पितृव्यश्च पुंसोऽत्र गुरवः स्मृताः ॥२६॥
माता मातामही गुर्वी पितृर्मातुश्च सोदरा ।
श्वश्रुः पितामही ज्येष्ठा धात्री च गुरवः स्त्रियः ॥२७॥
इत्युक्तो गुरुवर्गोऽयं मातृतः पितृतो द्विजाः ।
अनुवर्तनमेतेषां मनोवाक्कायकर्मभिः ॥२८॥
गुरुं दृष्टा समुत्तिष्ठेदभिवाद्य कृतात्र्जलिः ।
नैतैरुपविशेत सार्धं विवदेननत्मकारणात ॥२९॥
जीवितार्थमपि द्वेषद गुरुभिनैव भाषणम ।
उदितोऽपि गुणैरन्यैर्गुरुद्वेषी पतत्यधः ॥३०॥
गुरुणामपि सर्वेषां पुज्याः पंच विशेषतः ।
तेषामाद्यस्त्रयं श्रेष्ठास्तेषां मातां सुपुजिताः ॥३१॥
यो भावयति या सुते येन विद्योपदिश्यते ।
ज्येष्ठो भ्राताच भर्ता च पत्र्चैते गुरवः स्मृताः ॥३२॥
आत्मनः सर्वयत्णेन प्राणत्यागेन वा पुनः ।
पुजनीया विशेषेण पत्र्चैते भूतिमिच्छता ॥३३॥
यावत पिता च मता च द्वतेतौ निर्विकारिणौ ।
तावत सर्व परित्यज्य पुत्रः स्यात तप्तरायणः ॥३४॥
पिता माता च सुप्रीतौ स्यातां पुत्रगुणैर्यादि ।
स पुत्रः सकलं धर्ममाप्नुयत तैन कर्मणा ॥३५॥
नास्ति मातृसमं दैव नास्ति पितृसमो गुरुः ।
तयोः प्रत्युपकराऽपि न कथत्र्चन विद्यते ॥३६॥
तयोर्नित्यं प्रियख कुर्यात कर्मणा मनसा गिरा ।
न ताभ्यामननुज्ञातो धर्ममन्यं समाचरेत ॥३७॥
वर्जयित्वा मुक्तिफलं नित्यं नैमित्तिकं तथा ।
धर्मसारः समुद्दिष्टः प्रेत्यनान्तफलप्रदः ॥३८॥
सम्यगाराधय़ वक्तारं विसृष्टस्तदनुज्ञया ।
शिष्यो विद्याफलं भुड्क्तें प्रेत्य चापद्यते दिविः ॥३९॥
यो भ्रातरं पितृसमं ज्येष्ठं मुर्खो*वमन्वते ।
तेन दोषेण स प्रेत्य निरयं घोरमृच्छति ॥४०॥
पुंसा वर्त्मनिविष्टेन पुज्यों भर्ता तु सर्वदा ।
यति दातारि लोकेऽस्मिन उपकाराद्धि गौरवम ॥४१॥
ये नरा भर्तृपिण्डार्थ स्वान प्राणान सत्यंजान्ति हि ।
तेषामथाक्षयाँल्लोकान प्रोवच भगवान मनुः ॥४२॥
मातुलांश्चं पितृव्यांश्च श्वशुरानृत्विजो गुरुन ।
असावहमिति ब्रुयुः प्रत्युत्थाय यवीयसः ॥४३॥
अवाच्यो दिक्षितो नाम्रा यवेयानापि यो भवेत ।
भोभवत्पुर्वकं त्वेनभिभाषेत धर्मावित ॥४४॥
अभिवाद्यश्च पुज्यश्च शिरसा वन्द्य एव च ।
ब्राह्मण क्षत्रियद्यश्च श्रीकामैं सादरं सदा ॥४५॥
नाभिवाद्यास्तु विप्रेण क्षत्रियाद्याः कथत्रंचनः ।
ज्ञानकर्मगुणोपेता यद्यप्येते बहुश्रुताः ॥४६॥
ब्राह्मणः सर्ववर्नानां स्वस्ति क्रुर्यादिति स्थिति ।
सर्वर्णेषु सवर्णानां कार्यमेवाभिवादनम ॥४७॥
गुरुरग्निर्द्विजातीनां वर्णानां ब्राह्मणो गुरुः ।
पतिरेको गुरुः स्त्रीणां सर्वत्राभ्यागतो गुरुः ॥४८॥
विद्या कर्म वयो बन्धुवित्तं भवति पंचमम ।
मान्यस्थानानि पंचाहुः पुर्व पुर्व गुरुत्तरात ॥४९॥
पंचनां त्रिषु वर्णॆषु भुयांसि बलवन्ति च ।
यत्र स्युः सोऽत्र मानार्हः शुद्रोऽपि दशमीं गतः ॥५०॥
पन्था देयो ब्रह्मणाय स्त्रियै राज्ञे ह्राचक्षुषे ।
वृद्धाय भारभुग्राय रोगिणे दुर्बलय च ॥५१॥
भिक्षामाहृत्य शिष्टानां गृहेभ्यः प्रयतोऽन्वहम ।
निवेद्य गुरवेऽश्नीयाद वाग्यतस्तदनुज्ञया ॥५२॥
भवत्पूर्वं चरेद भैक्ष्यमुपनीतो द्विजोत्तमः ।
भवन्मध्यं तु राजन्यो वैश्यस्तु भवदुत्तरम ॥५३॥
मातरं वा स्वासारं वा मातुर्वां भगिनीं निजाम ।
भिक्षेत भिक्षां प्रथमं या चैनं न विमानयेत ॥५४॥
सजातीयगृहेष्वेव सार्ववर्णिकमेव वा ।
भैक्षस्य चरणं प्रोक्तं पतितादिषु वर्जितम ॥५५॥
वेदयज्ञैरहीनानां प्रशस्तानां स्वकर्मसु ।
ब्रह्माचार्याहरेद भैक्षं गृहेभ्यः प्रयतोऽन्वहम ॥५६॥
गुरो कुले न भिक्षेत न ज्ञातिकुलबन्धुषु ।
अलाभे त्वन्यगेहानां पुर्वं पुर्व विवर्जयेत ॥५७॥
सर्व वा विचरेद ग्रामं पुर्वोक्तानामसम्भवे ।
नियम प्रयतो वाचं दिसह्स्त्वन वलोकयन ॥५८॥
समाहत्य तु तद भैक्षं यावदर्थममायया ।
भुत्र्जीत प्रयतो नित्यं वाग्यतोऽनन्यमानसः ॥५९॥
भैक्ष्येण वर्तयेन्नियं नैकान्नादी भवेद व्रती ।
भैक्ष्येण व्रतिनो वृत्तिरुपवाससमा स्मृता ॥६०॥
पुजयेदशनं नित्यमाद्याच्चैतदकुत्सयन ।
दृष्टा हृष्येत प्रसीदेच्च प्रतिनन्देच्च सर्वशः ॥६१॥
अनारोग्यमनायुष्यमस्वर्ग्य चातिभोजनम ।
अपुण्यं लोकविद्विष्टं तस्मात तत्परविर्जयेत ॥६२॥
प्राडमुखोऽन्नानि भुत्र्जीत सुर्याभिमुख एव वा ।
नाद्याददड्मुखो नित्य विधिरेष सनातनः ॥६३॥
प्रक्षाल्य पाणीपादौ च भुत्र्चानो द्विरुपस्पृशेत ।
शुचौ देशे समासीनो भुक्त्वा च दिरुपस्पृशेत ।६४॥
इति श्रीकूर्मपुराण षटसाहस्रयां संहितामुपरिविभागे द्वादशोऽध्यायः ।१२॥