वानप्रस्थ आश्रम तथा वानप्रस्थ धर्मका वर्णन, वानप्रस्थाके कर्तव्योंका निरूपण
व्यास उवाच
एवं गृहाश्रमे स्थित्वां द्वितेयं भाममायुषः ।
वानप्रस्थाश्रम गच्छेत सदारः साग्रिरेव च ॥१॥
निक्षिप्य भार्या गच्छेद वनमथापि वा ।
दृष्टापत्यस्य चापत्यं जर्जरीकृतविग्रहः ॥२॥
शुक्लपक्षस्य पुर्वाह्ने प्रशस्ते चोत्तरायणे ।
गत्वारण्यं नियमवांस्तपः कुर्यात समाहितः ॥३॥
फलमूलानि पूतानि नित्यमाहारमाहरेत ।
यताहारो भवेत तेन पूजयेत पितृदेवताः ॥४॥
पूजयित्वातिथिं नित्यं स्नात्वा चाभ्यर्चयेत सुरान ।
गृहादाहृत्य चाश्नीयादष्टौ ग्रासान समाहितः ॥५॥
जटाश्च बिभृयान्नित्यं नखरोमाणि नोत्सृजेत ।
स्वाध्यायं सर्वदा कुर्यान्नियच्छेद वाचमन्यतः ॥६॥
अग्निहोत्रं च जुहुयात पंचयज्ञान समाचरेत ।
मुन्यन्नैर्विविधैर्मेध्येः शाकमुलफलेन वा ॥७॥
चीरवासा भवेन्नित्यं स्नायात त्रिषवणं शुचिः ।
सर्वभुतानुकम्पी स्यात प्रतिग्रहविवर्जितः ॥८॥
दर्शेन पौर्णमासेन यजेत नियतं द्विजः ।
ऋक्षेष्वाग्रयणे चैव चातुर्मास्यानि चाहरेत ।
उत्तरायणं क्रमशो दक्शस्यायनमेव च ॥९॥
वासन्तैः शारदैर्मेधैर्मुन्यन्नैः स्वयमाहृतैः ।
पुरोडाशांश्चभुत्र्जीत विधिवन्निअर्वपत्र पृथक ॥१०॥
देवताभ्यस्च तद हुत्वा वन्य मेध्यतरं हविः ।
शेष समुपाभ्त्र्जीत लवणं च स्वयं कृतम ॥११॥
वर्जयेन्मधुमांसानि भौमानि कवकानि च ।
भूस्तृणं शिग्रुकं चैव श्लेष्मातकफलानि च ॥१२॥
न फालकुश्टमश्नीयादुत्सृष्टमपि केनचित ।
न ग्रामजातान्यार्तोऽपि पुष्पाणि च फलानि च ॥१३॥
श्रावणेनैव विधिन वह्निं परिचरेत सदा ।
न दुर्ह्रोत सर्वभुतानि निर्द्वन्द्वो निर्भयो भवेत ॥१४॥
न नक्तं किंचिदश्नीयाद रात्रौ ध्यानपरो भवेत ।
जितेंन्द्रियो जितक्रोधस्तत्वज्ञानविचिन्तकः ।
ब्रह्माचरी भवेन्नित्यं न पत्नीमपि संश्रयेत ॥१५॥
यस्तु पत्न्या वन गत्वा मैथुनंकामतश्चरेत ।
तद व्रतं तस्य लुप्येत प्रायश्चित्तीयते द्विजः ॥१६॥
तत्र यो जायते गर्भो न संस्पृश्यो द्विजातिभिः ।
न ह वेदेऽधिकारौस्य तंद्वशेऽप्येमवेव हि ॥१७॥
अधः शयीत सततं सावित्रीजाप्यतत्परः ।
शरण्य सर्वभुतानां संविभागपरः सदा ॥१८॥
परिवादं मृषावदं निद्रालस्यं विवर्जयेत ।
एकाग्र्निरनिकेतः स्यात प्रोक्षिताण भूमिमाश्रयेत ॥१९॥
मृगैः सह चरेद वांस तैः सहैव च संवसेत ।
शिलाया शर्करायां वा शयीत सुसमाहितः ॥२०॥
सद्यः प्रक्षालको वा स्यान्माससंचयिकोऽपि वा ।
षण्मासनिचयो वा स्यात समानिचय एव वा ॥२१॥
त्यजेदाश्वयुजे मासि सम्पन्नं पुर्वसंचितम ।
जीर्णानि चैव वासांसि शाकमुलफलानि च ॥२२॥
दन्तोलुखनिको वा स्यात कापोंतीवृत्तिमाश्रयेत ।
अश्मकुट्टो भवेद वापि कालपक्वभुगेव वा ॥२३॥
नक्तं चान्नं समश्नीयाद दिवा चाहत्य शक्तितः ।
चतुर्थकालिको वा स्यात स्याद्वाप्यष्टमकालिकः ॥२४॥
चान्द्रायणविधानैवा शुक्ले कॄष्णे च वर्तयेत ।
पक्षे पक्षे समश्नीयाद यवागुंक क्वथितां सकृत ॥२५॥
पुष्पमुलफलैर्वापि केवलैर्वतयेत सदा ।
स्वाभाविकैः स्वयं शीणैर्वैखानसमते स्थितः ॥२६॥
भूमौ वा परिवर्तेत तिष्ठेद वा प्रपदैर्दिनम ।
स्थानासनाभ्यां विहरेत्र क्वचिद धैर्यमुत्सृजेत ॥२७॥
ग्रीष्पे पंचतपाश्च स्याद वर्शास्वभ्रावकाशकः ।
आर्द्रवासास्तु हेमन्ते क्रमशो वर्धयंस्तपः ॥२८॥
उपस्पृश्य त्रिषवणं पितृदेवांश्च तर्पयेत ।
एकपादेन तिष्ठेत मरीचीन वा पिबेत तदा ॥२९॥
पंचग्रिर्धूपतो वा स्यादुष्मपः सोमपोऽपि वा ।
पयः पिबेच्छुक्लपक्षे कृष्णपक्षे तु गोमयम ।
शीर्णपर्नाशनो वा स्यात कृच्छैर्वा वर्तयेत सदा ॥३०॥
योगाभ्यासरतश्च स्याद रुद्राध्यायौ भवेत सदा ।
अथर्वशिरसोऽध्येता वेदान्ताभ्यासतत्परः ॥३१॥
यमान सेवेत सततं नियमांश्चाप्यतन्द्रितः ।
कृष्णाजिनी सोत्त्तरियः शुक्लयज्ञोपवीतवान ॥३२॥
अथ चाग्नीन समारोप्य स्वात्मनि ध्यानतप्तरः ।
अनग्निरनिकेतः स्यान्मुनिर्मोक्षपरो भवेत ॥३३॥
तापसेष्वेव विप्रेषु यात्रिकं भैक्षमाहरेत ।
गृहमेधिषु चान्येषु द्विजेषु वनवासिशु ॥३४॥
ग्रामादाहृत्य वाश्नीयादष्टौ ग्रासान वने वसन ।
प्रतिगृह्मा पुटेनैव पाणिना शकलेन वा ॥३५॥
विविधाश्चोपनिषद आत्मसंसिद्धये जपेत ।
विद्याविशेषान सावित्रीं रुद्राध्यायं तथैव च ॥३६॥
महाप्र्रास्थानिकं चासौ कुर्यादनशनं तु वा ।
अग्निप्रवेशमन्यद वा ब्रह्मार्पणविधी स्थितः ॥३७॥
यस्तु समागिमामाश्रमं शिवं संश्रयेदशिवपुत्र्जनाशनम ।
तापसः स परमैश्वरं पद यातियत्र जगतोऽस्य संस्थितिः ॥३८॥
इति श्रीकूर्मपुराणे षटसाहस्त्रयां संहितायामुपरिविभागे सप्तविंशोऽध्यायः ॥२७॥