योगकी महिमा, अष्टागंयोग, यम, नियम, आदि योगसाधनोंका लक्षण, प्राण्यायामका विशेष, प्रतिपादन, ध्यानके विविध प्रकार, पाशुपत योगका वर्नन वाराणसीमें प्राणत्यागकी महिमा शिव आराधनकी विधि शिव और विष्णुके अभेदका प्रतिपादन, शिवज्ञान योगकी परस्पराका वर्णन, ईश्वरगीताकी फलश्रुति तथा उपसंहार
ईश्वर उवाच
अतः परं प्रवक्ष्यामि योगं परमदुर्लभम ।
येनात्मानं प्रपश्यन्ति भानुमन्तमिवेश्वरम ॥१॥
योगाग्निर्दहति क्षीप्रमशेहं पापपत्र्जरम ।
प्रसन्नं जायते ज्ञानं साक्षन्निर्वाणसिद्धदम ॥२॥
योगात संजायते ज्ञानं ज्ञानाद योगः प्रवर्तते ।
योगज्ञानाभियुक्तस्यं प्रसीदति महेश्वरः ॥३॥
एकाकलां द्विकलं वा त्रिकालं नित्यमेव वा ।
ये युत्र्जन्तीह मद्योगं ते विज्ञेय महेश्वराः ॥४॥
योगस्तु द्विविधो ज्ञेयो ह्माभवः प्रथमो मतः ।
अपरस्तु महायोगः सर्वयोगोत्तमोत्तमः ॥५॥
शुन्यं सर्वनिराभासं स्वरुपं यत्र चिन्त्यते ।
अभागयोगः स प्रोक्तो येनात्मनं प्रपश्यति ॥६॥
यत्र पश्यति चात्मानं नित्यानदं निरत्र्जनम ।
मयैक्यं स महायोगी भाषितं परमेश्वरः ॥७॥
ये चान्ये योगिनां योगाः श्रुयन्ते ग्रन्थाविस्तरे ।
सर्वे ते ब्रह्मायोगस्य कलां नार्हन्ति षोडशीम ॥८॥
यत्र साक्षत प्रपश्यन्ति विमुक्ता विश्वमीश्वरम ।
सर्वेषामेव योगानां स योगः परमो मतः ॥९॥
सहस्त्रशोऽथं शतशो ये चेश्वरबहिकृताः ।
न ते पश्यन्ति मामेकं योगिनो यतमानसाः ॥१०॥
प्राणायामस्तथा ध्यानं प्रत्याहारोऽथ धारणा ।
समाधिश्च मुनिश्रेष्ठा यमो नियम आसनम ॥११॥
मय्येकचित्तत्तायोगो वृत्यन्तरनिरोधतः ।
तत्साधनान्यष्टधा तु युष्माकं कथितानि तु ॥१२॥
अहिंसा सत्यमस्तेयं ब्रह्माचर्यापरिग्रहौ ।
यमाः संक्षेपतः प्रोक्ताश्चित्तशुद्धिप्रदा नृणाम ॥१३॥
कर्मणा मनसा वाचा सर्वभुत्षु सर्वदा ।
अक्लेशजननं प्रोक्तं त्वहिंसा परमार्षिभिः ॥१४॥
अहिंसायाः परो धर्मो नास्त्यहिम्सा परं सुखम ।
विधिना या भवेद्धिंसा त्वहिंसैव प्रकीर्तिता ॥१५॥
सत्येन सर्वमाप्नोति सत्ये सर्वं प्रतिष्ठितम ।
यथार्थकथानाचारः सत्यं प्रोक्तं द्विजातिभिः ॥१६॥
परद्रव्यापहरणं चौर्याद वाथ बलेन वा ।
स्तेयं तस्यानाचरणदस्तेयं धर्मसाधनम ॥१७॥
कर्मणा मनसा वाच सर्वावस्थासु सर्वदा ।
सर्वत्र मैथुनत्यगं ब्रह्माचर्य प्रचक्षते ॥१८॥
द्रव्यणमप्यन्दानमापद्यपि यथेच्छाया ।
अपरिग्रह इत्याहुस्तं प्रयत्नेन पालयेत ॥१९॥
तपः स्वध्यायसंतोषाः शौचमीश्वरपुजनम ।
समसन्नियमाः प्रोक्त योगसिद्धप्रदायिनः ॥२०॥
उपवासपराकादिकृश्च्छ्रचान्दायणादिभिः ।
शरीरशोषणं प्राहुस्तापसास्तप उत्तमम ॥२१॥
वेदान्तशतरुद्रीयप्रणवादिजपं बुधाः ।
सत्वशुद्धिकरं पुंसां स्वाध्यायं परिचक्षते ॥२२॥
स्वाध्यायस्य त्रयो भेदा वाचिकोपांशुमानसाः ।
उत्तरोत्तरवैशष्टयं प्राहुर्वेदार्थवेदिनः ॥२३॥
यः शद्द्बाबोधजननः परेषा श्रुण्वतां स्फूटम ।
स्वाध्यायी वाचिकः प्रोक्त उपांशोरथ लक्षणम ॥२४॥
ओष्ठयोः स्पन्दमात्रेण परस्याशब्दबोधकः ।
उपांशुरेषु निर्दिष्टः साहस्त्रों वाचिकाज्जपः ॥२५॥
यत्पदाक्षरसंगत्या परिप्न्दनवर्जितम ।
चिन्तन सर्वशब्दानां मानसं तं जपं विदुः ॥२६॥
यदृच्छालाभतो नित्यमलं पुंसोअ भवेदिति ।
या धीस्तामृषयः प्राहुः संतोषं सुखलक्षणम ॥२७॥
ब्राह्ममाभ्यन्तरं शौचं द्विधा प्रोक्तं द्विजोत्तमाः ।
मृज्जलाभ्यां स्मृतं बाह्मं मनः शुद्धिरथान्तरम ॥२८॥
स्तुतिस्मरणपुजाभिर्वागंन कायकर्मभिः ।
सुनिश्चला शिवे भक्तिरेतदीश्वरपुजनम ॥२९॥
यमाः सनियामाः प्रोक्ताः प्राणायामं निबोधत ।
प्राणः स्वदेहजो वायुराजामस्तान्निरोधनम ॥३०॥
उत्तमाधममध्यत्वात त्रिधायं प्रतिपादितः ।
स एव द्विगिधः प्रोक्तः सगर्भाऽगर्भ एव च ॥३१॥
मात्राद्वादशको मन्दश्चर्विशातिमात्रिकः ।
मध्यमः प्राणसंरोधः षटत्रिंशोन्मात्रिकोत्तमः ॥३२॥
प्रस्वेदकम्पनोत्थानजनकत्वं यथाक्रमम ।
मन्दमध्यममुख्यानामनन्दादुत्तमोत्तमः ॥३३॥
सगर्भमाहुः सजपमगर्भ विजपं बुधाः ।
एतद वै योगिनामुक्तं प्राणायामस्य लक्षणम ॥३४॥
सव्याह्रतिं सप्रणवां गायत्रीं शिरसा सह ।
त्रिर्जपेदायतप्राणः प्राणायामः स उच्यते ॥३५॥
रेचकः पूरकश्चैव प्राणायामोऽथ कुम्भकः ।
प्रोच्यते सर्वशास्त्रेषु योगिभिर्यतमानसैः ॥३६॥
रेचकोऽजस्त्रनिःश्वासात पुरकस्तन्निरोधत ।
साम्येन संस्थितिर्या सा कुम्भक परिगीयते ॥३७॥
इन्द्रियाणां विचरतां विषयेषु स्वभावतः ।
निग्रहः प्रोच्यते सद्भिः प्रत्याहारस्तु सत्तमाः ॥३८॥
हृत्पुण्डरीके नाभ्यां वा मूर्ध्नि पर्वतमस्तके ।
एवमादिषु देशेषु धारणा चित्तबन्धनम ॥३९॥
देशावस्थितिमालम्ब्य बुद्धेर्य वृत्तिसंतति ।
वृत्यन्तरैरसंसृष्टा तद्धायानं सुरयो विदुः ॥४०॥
एकाकारः समाधिः स्याद देशालम्बनवर्जितः
प्रत्ययो ह्रार्थमात्रेण योगसाधनमुत्तमम ॥४१॥
धारणा द्वादशायमा ध्यानं द्वादश धारणाः
ध्यानं द्वादशाकं यावतं समधिरभिधीयते ॥४२॥
आसनं स्वस्तिकं प्रोक्तं पद्ममर्धासनं तथा ।
साधनांना च सर्वेषमेतत्साधनमुत्तमम ॥४३॥
ऊर्वोरुपरि विप्रेनन्द्राः कृत्वा पादतले उभे ।
समासीतात्मनः पद्ममेतदानमुत्तमम ॥४४॥
एकं पादमथैकस्मिन विन्यस्य्रुणि सत्तमाः ।
आसीतार्धासनमिदं योगसाधनमुत्तमम ॥४५॥
उभे कृत्वा पादतले जाणुर्वोरन्तरेण हि ।
समासीतात्मनः प्रोक्तमासनं स्वस्तिकं परम ॥४६॥
अदेशकाले योगस्य दर्शन ही न विद्यते ।
अग्न्यभ्यशे जले वापो शुष्कपर्ण चये तथा ॥४७॥
जन्तुव्याप्ते श्मशाने च जीर्णगोष्ठे चतुष्पथे ।
सशब्दे सभये वापि चैत्यवल्मीकसंचये ॥४८॥
अशुभे दुर्जनाक्रान्ते मशकादिसमन्विते ।
नाचरेद देहबाधे वा दौर्मनस्यादिसम्भवे ॥४९॥
सुगुप्ते सुशुभेदेशे गुहायां पर्वतस्य तु ।
नद्यास्तीरे पुण्यदेशे देवतायतने तथा ॥५०॥
गृहे वा सुशुभे रम्ये विजने जन्तुवर्जिते ।
युत्र्जीत योगी सततमात्मानं मप्तरायणः ॥५१॥
नमस्कृत्य तु योगीन्द्रान सशिष्यांश्रं विनायक ।
गुरुं चैवाथ मां योगी युत्र्जीत सुसमाहितः ॥५२॥
आसनं स्वस्तिकं बद्धवा अद्ममर्धमथापि वा ।
नासिकाग्रे समा दृश्टिमीषदुन्मीलितक्षणः ॥५३॥
कृत्वाथ निर्भयःशान्तस्त्यवक्त्या मायामयं जगत ।
स्वात्मन्यवस्थितं देवं चिन्तयेत परमेश्वरम ॥५४॥
शिखाग्रे द्वादशांगुल्ये कल्पयित्वाथ पंकजम ।
धर्मकन्दसमुदभुत ज्ञाननालं सुशोभनम ॥५५॥
ऐश्वर्याष्टदलं श्वेत परं वैराग्यकर्णिकम ।
चिन्तयेत परम कोशं कर्णिकायां हिरणमयम ॥५६॥
सर्वशक्तिमयं साक्षाद यं प्राहुर्दिव्यमव्ययम ।
ओंकार्वाच्यमव्यक्त रश्मिजालासमाकुलम ॥५७॥
चिन्तयेत तत्र विमलं परं ज्योतिर्यदक्षरम ।
तस्मिन ज्योतिषि विन्यस्य स्वात्मानं तदभेदतः ॥५८॥
ध्यायीताकाशमध्यस्थमीशं परमकारणम ।
तदात्मा सर्वगो भूत्वा न किंचिदपि चिन्तयेत ॥५९॥
एतद गुह्मातमं ध्यानं ध्यानान्तरमथोच्यते ।
चिन्तयित्वा तु पुर्वाक्त हृदये पद्ममुत्तमम ॥६०॥
आत्मनमथ कर्तारं तत्रानलसमत्विषम ।
मध्ये वह्रिशिखाकारं पुरुषं पंचविशकम ॥६१॥
चिन्तयेत परमात्मानं तन्ममध्ये गगन परम ।
ओंकारबोधितं तत्त्वं शाश्वतं शिवमच्युतम ॥६२॥
अव्यक्तं प्रकृतौ लीनं परं ज्योतिरनुत्तमम ।
तदन्तः परमं तत्त्वमात्माधारं निरत्र्जनम ॥६३॥
ध्यायीत तन्मयो नित्यमेकरुपं महेश्वारम ।
विशोध्य सर्वतत्वानि प्रणवेनाथवा पुनः ॥६४॥
संस्थाप्य मयि चात्मानं निर्मले परमे पदे ।
प्लावयित्वात्मने देहं तेनैव ज्ञानवारिणा ॥६५॥
मदात्मा मन्मयो भस्म गृहीत्वा ह्माग्निहोत्रजम ।
तेनोद्धत्य तु सर्वांगमिग्निरित्यादिमन्ग्त्रतः ।
चिन्तयेत स्वात्मनीशान् परं ज्योति स्वरुपिणम ॥६६॥
एष पाशुपतो योगः पशुपशविमुक्तये ।
सर्ववेदान्तसारोऽयमत्याश्रमिति श्रुतिः ॥६७॥
एतत परतरं गुह्मं मत्सयुज्योपपादकम ।
द्विजातीनां तु कथितं भक्तनां ब्रह्माचरिणाम ॥६८॥
ब्रह्माचर्यमहिंसा च क्षमा शौचं तपो दमः ।
संतोषः सत्यमास्तिक्यं व्रतांगनि विशेषतः ॥६९॥
एकेनप्यथ हेनेन व्रतमस्य तु लुप्यते ।
तस्मादात्मगुणोपेतो मदव्रतं वोषुमर्हति ॥७०॥
ब्रीतरागयक्रोधा मन्मय मामुपश्रिताः ।
बहवोऽनेने योगेन पुता मद्भावमागताः ॥७१॥
ये यथ मां प्रपद्यन्ते तांस्तथैव भजाम्यहम ।
ज्ञानयोगेन मां तस्माद यजेत परमेश्वरम ॥७२॥
अथवा भक्तियोगेन वैराग्येण परेण तु ।
चेतसा बोधयुक्तेन पुजयेन्मां सदा शुचिः ॥७३॥
सर्वकर्माणि संनस्य भिक्षाशी निष्पारिग्रहः ।
प्राप्नोति मम सायुज्यं गुह्मामेतन्मयोदितम ॥७४॥
अद्वेष्टा सर्वभुतानां मैत्रः करुण एव च ।
निर्ममो निरहंकारो यो मद्भक्तः स मे प्रियः ॥७५॥
संतुष्टः सततं योगी यतात्मा दृढनिश्चयः ।
मययार्पितमनो बुद्धियों मद्भक्तः स मे प्रिय ॥७६॥
यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः ।
हर्षामर्षभयोद्वेगैर्मुक्तो यः स हि मे प्रियः ॥७७॥
अनपेक्षः शुचिर्दक्श उदासीनो गतव्यथः ।
सर्वारम्भपरित्यगी भक्तिमानु य स मे प्रियः ॥७८॥
तुल्यनिन्दासुतित्मौनीं संतुष्टो येन केनचित ।
अनिकेतःस्थिअरमर्तिर्मद्भक्तो मामुपैष्यति ॥७९॥
सर्वकर्माण्यपि सदा कुर्वाणो मत्परायणः ।
मत्प्रसादादवाप्नोति शाश्वतं परमं पदम ॥८०॥
चेतसा सर्वकर्माणि मयि सन्यस्य मप्तरः ।
निराशीनिर्ममो भुत्वा मामेकं शरणं व्रजेत ॥८१॥
त्यक्त्वा कर्मफलासंग नित्यतृत्पो निराश्रयः ।
कर्मण्यर्भिप्रवृतोऽपि नैव तैन निबध्यते ॥८२॥
निराशीर्यतचितात्मा त्यक्तसर्वपरिग्रहः ।
शारीरं केवलं कर्म कुर्वन्नाप्नोत तत्पदम ॥८३॥
यदुच्छालाभतुष्टस्य द्वान्द्वातीतस्य चैव हि ।
कुर्वतो मत्प्रसादार्थं कर्मं संसारनाशनम ॥८४॥
मन्मना मन्नमस्कारो मद्याजी मत्परायणः ।
मामुपैष्यति योगीशं ज्ञात्वाम माम परमेश्वरम ॥८५॥
मदबुद्धयो मां सततं बोधयन्तः परस्परम ।
कथयन्तश्च मां नित्यं मम सायुज्यमाप्नुयुः ॥८६॥
एवं नित्यभियुक्तानां मायेयं कर्मसान्वगम ।
नाशयामि तमः कृत्स्नं ज्ञानदीपेन भास्वताः ॥८७॥
मदबुद्धयो मां सततं पुजयन्तीह ये जनाः ।
तेषं नित्याभियुक्तांना योगक्षेम वहाम्पहम ॥८८॥
येऽन्ये च कामभोगार्थ यजन्ते ह्रान्यदेवताः ।
तेषां तदन्तं विज्ञेयं देवतानुगतं फलम ॥८९॥
ये चान्यदेवताभक्त पुज्यन्तीह देवताः ।
मद्भावनासमायुक्ता मुच्यन्ते तेऽपि भावतः ॥९०॥
तस्मादनीश्वरानन्यास्त्यवक्त्वा देवानशेषतः ।
ममेव संश्रयेदीशंस याति परमं पदम ॥९१॥
त्यक्त्वा पुत्रादिषु स्नेहं निःशोको निष्परिग्रहः ।
यजेच्चार्मरणाल्लिंगे विरक्तः परमेश्वरम ॥९२॥
येऽर्चयन्ति सदा लिंग त्यक्त्वा भोगानशेषतः ।
एकेन जन्मना तेषां ददामि परमैश्वरम ॥९३॥
परानन्दात्मकं लिंग केवलं सन्निरत्र्जनम ।
ज्ञनात्मकं सर्वगतं योगिनं हृदि संस्थितम ॥९४॥
ये चान्ये नियता भक्तो भावयित्वा विधानतः ।
यत्र क्वचन तल्लिंगमर्चयन्ति महेश्वरम ॥९५॥
जले व वह्निमध्ये व व्योम्नि सौर्येऽथ वान्यतः ।
रत्नादौ भावयित्वेशमर्चयेलिंगमैश्वरम ॥९६॥
सर्व लिंगमयं ह्योतत सर्व लिंग प्रतिष्ठितम ।
तस्माल्लिगेंऽर्चयेदीशं यत्र क्वचन शाश्वतम ॥९७॥
अग्नौ क्रियवतामप्सु व्योग्नि सुर्ये मनीषिणाम ।
काष्ठादिष्वेव मुर्खाणां हृदि लिंग तु योगिनाम ॥९८॥
यद्यनुप्तन्नविज्ञानो विरक्तः प्रतिसंयुतः ।
यावज्जीवं जपेद युक्तः प्रणवः ब्रह्माणो वपुः ॥९९॥
अथवा शतरुद्रीयं जपेदामरणाद द्विजः ।
एककी यताचित्तात्म स याति परमं पदम ॥१००॥
वसेद वामरणाद विप्रो वाराणस्यां समाहित ।
सोऽपीश्वरप्रसादेन याति तत परमं पदम ॥१०१॥
तत्रोक्रमणकाले हि सर्वेषामेव देहिनाम ।
ददति तत परं ज्ञान येन मुच्येत बन्धनात ॥१०२॥
वर्नाश्रमाविधिं कृत्स्नं कुर्वाणो मत्परायणः ।
तेनैव जन्मना ज्ञान लब्ध्वा याति शिवं पदम ॥१०३॥
येऽपि तत्र वसन्तीह नीचा वा पापयोनयः ।
सर्वे तरन्ति संसारमीश्वरानुग्रहाद द्विजाः ॥१०४॥
किन्तु विघ्ना भविष्यन्ति पापोपहतचेतसाम ।
धर्म समाश्रयेत तस्मान्मुक्तये नियतं द्विजाः ॥१०५॥
एतद रहस्यं वेदानां न देयं यस्य कस्याचित ।
धार्मिकायैव दातव्यं भक्तायं ब्रह्माचारिणे ॥१०६॥
व्यास उवाच
इत्येतदुक्त्वा बह्गवानात्मयोगमनुत्तमम ।
व्याजहार समासीनं नारायणमनामयम ॥१०७॥
मयैतद भाषितं ज्ञानं हितार्थं ब्रह्मावादिनाम ।
दातव्यं शान्तचित्तेभ्यं शिष्येभ्यों भवता शिवम ॥१०८॥
उक्त्वैवमथ योगीन्द्रानब्रवीद भगवानजः ।
हिताय सर्वभक्तानां द्विजातीनां द्विजोत्तमाः ॥१०९॥
भवन्तोऽपि हि मंज्ज्ञानं शिष्याणां विधिपुर्वकम ।
उपदेक्ष्यन्ति भक्तांना सर्वेषां वचनान्मम ॥११०॥
अयं नारायणो योऽहमीश्वरो नात्र स्संशयः ।
नान्तरं ये प्रपश्यन्ति तेषां देयमिदं परम ॥१११॥
ममैषा परमा मुर्तिर्नारायणसमह्वाया ।
सर्वभुतात्मभुतस्था शान्ता चाक्षरसंज्ञिता ॥११२॥
ये त्वन्यथा प्रपश्यन्ति लोके भेदद्रुशो जनाः ।
न ते माम सम्प्रपश्यन्ति जायन्ते च पुनः पुनः ॥११३॥
ये त्विमं विष्णूमव्यक्तं मां वा देवं महेश्वरम ।
एकीभावेन पश्यन्ति न तेषां पुनरुद्द्भवः ॥११४॥
तस्मदनादिनिधनं विष्णुमात्मानमव्ययम ।
मामेव सम्प्रपश्यध्वं पुजयध्वं तथैव हि ॥११५॥
येऽन्यथा मां प्रपश्यन्ति मत्वेमं देवातान्तरम ।
ते यान्ति नरकान घोरान नाहं तेषु व्यवस्थितः ॥११६॥
मुर्ख वा पाण्डीतं वापि ब्राह्मणं वा मदाश्रयम ।
मोचयामि श्वपाकं वा न नारायणानिन्दकम ॥११७॥
तस्मादेष महायोगी मद्भकैः पुरुषोत्तमः ।
अर्चनीयो नमस्कार्यो मत्प्रीतिजननय हि ॥११८॥
एवमुक्त्वा समालिंगग्य वासुदेव पिनाकधृक ।
अन्तार्हितोऽभवत तेषां सर्वेषाएव पश्यताम ॥११९॥
नारायणोऽपि भगवांस्तपसं वेषमुत्तमम ।
जग्राह योगिनः सर्वास्त्यक्त्वा वै परमं वपुः ॥१२०॥
ज्ञातं भवद्भिरमलं प्रसदात परमेष्ठिनः ।
साक्षदेव महेशस्य ज्ञानं संसरनाशनम ॥१२१॥
गच्छध्वं विज्वराः सर्वे विज्ञानं परमेष्ठिनः ।
प्रवर्तयध्वं शिष्येभ्यो धार्मिकेभ्यो मुनीश्वरा ॥१२२॥
इंद्र भक्ताय शान्ताय धार्मिकायहिताग्नये ।
विज्ञानमैश्वरं देयं ब्राह्माणाय विशेषतः ॥१२३॥
एवमुक्त्वा स विश्वात्मा योगिनां योगवित्तमः ।
नारय्णो महयोगी योगिनं योगवित्तमः ।
नारय्णो महयोगे जगामदर्शन स्वयम ॥१२४॥
तेऽपि देवादिदेवेशं नमस्कृत्य महेश्वरम ।
न्र्य्णं च भुतदिं स्वनि स्थ्नानि भेजिरे ॥१२५॥
सनत्कुमारो भगवान संवर्ताय महामुनिः ।
दत्तवानैश्वरं ज्ञानं सोऽपि सत्यव्रताय तु ॥१२६॥
सनन्दनोऽपि योगीन्द्रः पुलहय महर्षये ।
प्रददु गौतमाय्थ पुलहोऽपि प्रजापतिः ॥१२७॥
अंगिर वेदविदुषे भरद्वजय दत्तवन ।
जैगीषव्याय कपिलस्तथा पंचशिखय च ॥१२८॥
पराशरोऽपि सनकात पित मे सर्वत्त्त्वदृक ।
लेभे तत्परमं ज्ञानं तस्मद वल्मीकिरत्ववन ॥१२९॥
मामुवाच पुरा देवः सतीदेवभवंगंजः ।
वामदेवो महयोगी रुद्रः किल पिनाकधृकः ॥१३०॥
नारायणोऽपि भगवन देवकीतनयो हरिः ।
अर्जुनय स्वयं सक्षात दत्तवानिदमुत्तमम ॥१३१॥
यदहं लब्धवान रुद्राद वामदेवादनुत्तमम ।
विशेषाद गिरिशे भक्तिस्त्स्मादारभ्यं मेऽभवत ॥१३२॥
शरण्यं शरणं रुद्रं प्रपन्नोऽहं विशेषतः ।
भुतेशंगिरिशं स्थाणुं देवदेवं त्रिशुलिनम ॥१३३॥
भवन्तोऽपि हि तं देवं शम्भुं गोव्रुषवाहनम ।
प्रपद्यध्वं सपात्नीकाः सपुत्राः शरणं शिवम ॥१३४॥
वर्तध्वं तत्प्रसादेन कर्मयोगेन शंकरम ।
पुजयध्वं महादेवं गोपतिं भूतिभुषणम ॥१३५॥
एवमुक्तेऽथ मुनयः शौनकाद्या महेश्वरम ।
प्रणेमुः शाश्वतं स्थाणु व्यासं सत्यवतीसुतम ॥१३६॥
अब्रुवन हृष्टमनसः कृष्णद्वैपायनं प्रभुम ।
साक्षादेव हृषीकेशं सर्वलोकमहेश्वरम ॥१३७॥
भवत्प्रसादादचला शरण्ये गोवृषध्वजे ।
इदानीं जायते भक्तियाँ देवैरपि दुर्लभा ॥१३८॥
काथयस्व मुनिश्रेष्ठ कर्मयोगमनुत्तमम ।
येनासौ भगवानीशः समाराध्यो मुमुक्षुभिः ॥१३९॥
त्वत्संनिधावेष सुतः श्रुणोतु भगवद्वचः ।
तद्वदाखिललोकनां रक्षण धर्मसंग्रहम ॥१४०॥
यदुक्तं देवदेवेन विष्णुनं कूर्मरुपिणा ।
पृष्टेन मुनिभिः पुर्व शक्रेणमृतमन्थने ॥१४१॥
श्रुत्वा सत्यवतीसुनुः कर्मयोगं सनातनम ।
मुनीनां भाषितं कृष्णः प्रोवच सुसमहितः ॥१४२॥
य इमं पठते नित्यं संवादं कृत्तिवाससः ।
सनत्कुमप्रमुखैः सर्वपापैः प्रमुच्यते ॥१४३॥
श्रावयेद व द्विजान शुद्धान ब्रह्माचर्यपरयणान ।
यो वा विचारयेदर्थ स यति परमां गतिम ॥१४४॥
यश्चैतच्छ्रणुयान्नित्यं भक्तियुक्तो दृढव्रतः ।
सर्वपापविनिर्मुक्तो ब्रह्मलोके महीयते ॥१४५॥
तस्मात स्र्वप्रयत्नेन पठितव्यो मनीषिभिः ।
श्रोतव्यश्चथ मन्तव्यो विशेषाद ब्राह्मणैः सद ॥१४६॥
इति श्रीकूर्मपुराणे षटसाहस्रयां संहितायामुपरिविभागे ( ईश्वरगीतसु ) एकादशोऽध्यायः ॥११॥
( ईश्वरगीता समाप्त )