प्रायश्चित्त प्रकरणमें कपालमोचन तीर्थका आख्यान
कथं देवेन रुद्रेण शंकरेणामितौजसा ।
कपालं ब्रह्माणः पुर्ण स्थापितं देहजं भुवि ॥१॥
सुत उवाच
श्रृणुध्वमृषयः पुण्यां कथां पापप्रणाशिनीम ।
माहाम्त्यं देवदेवस्य महादेवस्य धीमतः ॥२॥
पुरा पितामहं देवं मेरुश्रुगे महर्षयः ।
प्रोचुः प्रणम्य लोकादिं किमेकं तत्त्वमव्ययम ॥३॥
स मायया महेशस्य मोहितो लोकसम्भवः ।
अविज्ञाय परं भावं स्वात्मानं प्राह धर्षिणम ॥४॥
अहं धाता जगद्योनिः स्वयम्भुरेकः इश्वरः ।
अनादिमप्तरं ब्रह्मा मामभ्यर्च्य विमुच्यते ॥५॥
अहं हि सर्वदेवानां प्रवर्तननिवर्तकः ।
न विद्यते चाभ्यधिको मत्तो लोकेषु कश्चन ॥६॥
तस्यैवं मन्यमानस्य जज्ञे नारायणांशजः ।
प्रोवाच प्रहसन वाक्यं रोषताम्रविलोचनः ॥७॥
किं कारणमिंद ब्रह्मान वर्तते तव साम्प्रतम ।
अज्ञानयोगयुक्तस्य न त्वेतदुचितं तव ॥८॥
अहं धाता हि लोकानां यज्ञो नारायणः प्रभुः ।
न मामृतेऽस्य जगतो जीवनं सर्वदा क्वचित ॥९॥
अहमेव परं ज्योतिरहमेव परा गतिः ।
मत्प्रेरितेन भवता सृष्टं भुवनमण्डलम ॥१०॥
एवं विवदतोर्मोहात परस्परजयैषिणोः ।
आजग्मुर्यत्र तौ देवौ वेदाश्चत्वार एव हि ॥११॥
अन्वीक्ष्य देव ब्रह्माणं यज्ञात्मानं चं संस्थितम ।
प्रोचुः संविग्नहृदया याथात्म्यं परमेष्ठिन ॥१२॥
ऋग्वेद उवाच
यस्यान्त स्थानि भूतानि यस्मात सर्वं प्रवर्तते ।
यदाहुस्तत्परं तत्त्वं स देवः स्यान्महेश्वरः ॥१३॥
यजुर्वेद उवाच
यो यज्ञॆरखिलैरीशो योगेन च समर्च्यते ।
यमाहुरीश्वरम देवं स देवः स्यात पिनाकधृक ॥१४॥
सामवेद उवाच
येनेदं भ्राम्यते चक्रं यदाकाशान्तरं शिवम ।
योगिभिर्विद्यते तत्त्वं महादेवः स शंकरः ॥१५॥
अथर्ववेद उवाच
यं प्रपश्यन्ति योगेशं यजन्तो यतयः परम ।
महेशं पुरुषं रुद्रं स देवो भगवान भवः ॥१६॥
एवं स भगवान ब्रह्मा वेदानामीरितं शुभम ।
श्रुत्वाह प्रहसह वाक्य विश्वात्मापि विमोहितः ॥१७॥
कथं तत्परमं ब्रह्मा सर्वसंगविवर्जितम ।
रमते भार्यया सार्धं प्रमथैश्चातिगर्वितैः ॥१८॥
इतिरितेऽथ भगवान प्रणवात्मा सनातनः ।
अमूतो मूर्तिमान भूत्वा वचः प्राह पितामहम ॥१९॥
प्रणव उवाच
न ह्रोष भगवान पत्न्या स्वात्मनो व्यतिरिक्तिया ।
कदाचिद रमते रुद्रस्तादृषो हि महेश्वरः ॥२०॥
अयं स भगवानीशः स्वयंज्योतिः सनातनः ।
स्वानन्दभुता कथिता देवी नागन्तुका शिवा ॥२१॥
इत्येकमुक्तेपि तदा यज्ञमूर्तेरजस्य च ।
नाज्ञानमगमन्नाशमीश्वरस्यैव मायया ॥२२॥
तदन्तरे महाज्योतिर्विरिज्जो विश्वभावनाः ।
प्रापश्यददभुतं दिव्यं पुरयन गगनान्तरम ॥२३॥
तन्मध्यसंस्थं विमलं मण्डलं तेजोसोज्ज्वलम ।
व्योममध्यगतं दिव्यं प्रादुरासीद द्विजोत्तमाः ॥२४॥
स दृष्टा वदनं दिव्यं मूर्धिं लोकपितामहः ।
तेन तन्मण्डलं घोरमालोकदनिन्दितम ॥२५॥
प्रजज्वालातिकोपेन ब्रह्माणः पंचमं शिरः ।
क्षणाददृश्यत महान पुरुषोः नीललोहितः ॥२६॥
त्रिशुलपिंगलो देवो नागयज्ञोपवीतवान ।
तं प्राह भगवान ब्रह्मा शंकर नीललोहितम ॥२७॥
जानमि भवतः पुर्वं ललाटादेव शंकर ।
प्रादुर्भावं महेशानं मामेव शरणं व्रज ॥२८॥
श्रुत्वा सगर्ववचनं पद्मयोनेरथेश्वरः ।
प्राहिणोत पुरुषं कालं भैरवं लोकदाहकम ॥२९॥
स कृत्वा सुमहद युद्धं ब्रह्माण कालभैरवः \
चकर्त तस्य वदनं विरित्र्चस्याथ पंचमम ॥३०॥
निकृत्तवदनो देवो ब्रह्मा देवेन शम्भुना ।
ममार चेशयोगेन जीवितं प्राप विश्वसृक ॥३१॥
अथानुपश्यद गिरिशं मण्डलान्तरसंस्थितम ।
समासीनं महादेव्या महादेव सनातनम ॥३२॥
भुजगंराजवलयं चन्द्रावयवभुषणम ।
कोटिसुर्यप्रतीकाश जटाजुटविराजितम ॥३३॥
शार्दुलचर्मवसनं दिव्यमालासमन्वितम ।
त्रिशुलपाणिं दुष्प्रेक्ष्यं योगिनं भूतिभुषणम ॥३४॥
यमन्तरा योगनिष्ठाः प्रपश्यन्ति हृदीश्वरम ।
तमादिदेवं ब्रह्माणं महादेवं ददर्श ह ॥३५॥
यस्य सा परमा देवी शक्तिराकशसंस्थिता ।
सोऽनन्तैश्वर्ययोगात्मा महेशो दृश्यतो किल ॥३६॥
यस्याशेषजगद बीजं विलयं याति मोहनम ।
सकृत्प्रणाममात्रेण स रुद्रः खलु दुश्यते ॥३७॥
योऽथ नाचरनिरतान स्वभक्तानेव केवलम ।
विमोचयति लोकानां नायको दृश्यते किल ॥३८॥
यस्य वेदविदः शान्ता निर्द्वन्द्वा ब्रहमचारिणः ।
विदन्ति विमलं रुपं स शम्भर्दृश्यते किल ॥३९॥
यस्य ब्रह्मादयो देवा ऋषयो ब्रह्मावादिनः
अर्चयन्ति सदा लिंग विश्वेशः खलु दृश्यते ॥४०॥
यस्याशेशजगद बीजं विलयं याति मोहनम ।
सकृत्प्रणाममात्रेण स रुद्रः खलु दृश्यते ॥४१॥
विद्यासहायो भगवान यस्यासौ मण्डलान्तरम ।
हिरण्यगर्भपुत्रोऽसर्वीश्वरो दृश्यते किल ॥४२॥
यस्याशेषजगत्सूतिर्विज्ञानतनुरिश्वरी ।
न मुत्र्चति सदा पार्श्व शंकरोऽसावदृश्यत ॥४३॥
पुष्पं वा यादि वा पंत्र यत्पादयुगले जलम ।
दत्वा तरति संसारं रुद्रोऽसौ दृश्यते किल ॥४४॥
तत्संनिधाने सकलं नियच्छति सनातनः ।
कालः किल स योगात्मा कालकालो हि दृश्यते ॥४५॥
जीवनं सर्वलोकानां त्रिलोकस्यैव भूषणम ।
सोमः स दृश्यते देवः सोमो यस्य विभुषणम ॥४६॥
देव्या सह सदा साक्षाद यस्य योगः स्वभावतः ।
गीयते परमा मुक्तिः स योगी दृश्यते किल ॥४७॥
योगिनो योगतत्त्वज्ञा वियोगाभिमुखाऽनिशम ।
योगं ध्यायन्ति देव्याऽसौ स योगी दृश्यते किल ॥४८॥
सोऽनुवीक्ष महादेव महादेव्या सनतनम ।
वरासने समासीनमवाप परमा स्मृतिम ॥४९॥
लब्ध्वा माहेश्वरी दिव्यां संस्मृतिं भगवानजः ।
तोषयामास वरदं सोमं सोमविभुषणम ॥५०॥
ब्रह्मोवाच
नमो देवाय महते महादेव्यै नमो नमः ।
नमः शिवाय शान्ताय शिवायै शान्तये नमः ॥५१॥
ओं नमो ब्रह्माणे तुभ्यं विद्यायै ते नमो नमः ।
नमो मूलप्रकृतमहेशाय नमो नमः ॥५२॥
नमो विज्ञानदेहाय चिन्तायै ते नमो नमः ।
नमस्ते कालकालाय इश्वरायै नमो नमः ॥५३॥
नमो नमोऽस्तु रुद्राय रुद्राण्यै ते नमो नमः ।
नमो नमस्ते कामाय मायायै च नमो नमः ॥५४॥
नियन्त्रे सर्वकार्याणां क्षोभिकायैः नमो नमः ।
नमोऽस्तु ते प्रकृतये नमो नारायणायच च ॥५५॥
योगदायै नमस्तुभ्यं योगिनां गुरवे नमः ।
नमः संसारनाशाय संसारोत्पत्तये नमः ॥५६॥
नित्यानन्दाय विभवे नमोऽस्त्वानन्दमूर्तये ।
नमः कार्यविहिनाय विश्वप्रकृतये नमः ॥५७॥
ओंकारमूर्तये तुभ्यं तदन्तः संस्थिताय च ।
नमस्ते व्योमसंस्थाय व्योमशक्त्यै नमो नमः ॥५८॥
इति सोमाष्तकेनेशं प्रणनाम पितामहः ।
पपात दण्डवत भूमौ गृणन वै शतरुद्रियम ॥५९॥
अथ देवो महादेवः प्रणतार्तिहरो हरः ।
प्रोवाचोत्थाप्य हस्ताभ्यां प्रीतोऽस्मि तव साम्प्रतम ॥६०॥
दत्त्वासौ परमं योगमैश्वर्यमतुलं महत ।
प्रोवाचाग्रे स्थितं देवं नीललोहितमीश्वरम ॥६१॥
एष ब्रह्मास्य जगतः सम्पुज्यः प्रथमः सुतः ।
आत्मनो रक्षणीयस्ते गुरुर्ज्येष्ठः पिता तव ॥६२॥
अयं पुराणपुरुषो न हन्तव्यस्त्वयानघ ।
स्ययोगैर्श्वर्यमाहात्म्यान्मामेव शरणं गतः ॥६३॥
अयं च यज्ञो भगवान सगर्वो भवतानघ ।
शासितव्यो विरित्र्चस्य धारणीयं शिरस्त्वया ॥६४॥
ब्रह्माहत्यापनोदार्थ व्रतं लोकाय दर्शयन ।
चरस्व सततं भिक्षां संस्थापय सुरद्विजान ॥६५॥
इत्येतदुक्त्वा वचनं भगवान परमेश्वरः ।
स्थानं स्वाभाविकं दिव्य ययौ तप्तरमं पदम ॥६६॥
ततः स भगवानीशः कपर्दी नीललोहितः ।
ग्राहयामास वदनं ब्रह्माणः कालभैरवम ॥६७॥
चर त्वं पापनाशार्थं व्रतं लोकहितावहम ।
कपालहस्तो भगवान भिक्षां गृह्णातु सर्वतः ॥६८॥
उक्त्वैवं प्राहिणोत कन्यां ब्रह्माहत्यामिति श्रुताम ।
दंष्टाकरालवदनां ज्वालामालविभुषणाम ॥६९॥
यावद वाराणसीं दिव्यां पूरीमेष गमिष्यति ।
तावत त्वं भीषणे कालमनुगच्छ त्रिलोचनम ॥७०॥
एवमाभाष्य कालाग्निं प्राह देवो महेश्वरः ।
अटस्व निखिलं लोकं भिक्षार्थी मन्नियोगतः ॥७१॥
यदा द्रक्ष्यसि देवेशं नारायणमनामयम ।
तदासौ वक्ष्यति स्पष्टमुपायं पापशोधनम ॥७२॥
स देवदेवतावाक्यमाकर्ण्य भगवान हरः ।
कपालपाणिर्विश्वात्मा चचार भुवनत्रयम ॥७३॥
आस्थाय विकृतं वेषं दीप्यमानं स्वतेजसा ।
श्रीमत पवित्रमतुलं जटाजुटविराजितम ॥७४॥
कोटिसुर्यप्रतीकाशैः प्रमथैश्चतिगर्वितैः ।
भाति कालग्निनयनो महादेवः समावृतः ॥७५॥
पीत्वा तदमृतं दिव्यमानन्दं परमेष्ठिनः ।
लीलाविलासबहुलो लोकानागच्छतीश्वरः ॥७६॥
तं दृष्टा कालवदनं शंकरं कालभैरवम ।
रुपलावण्यसम्पन्नं नारीकुलमगादनु ॥७७॥
गायन्ति विविधं गीतं नृत्यन्ति पुरतः प्रभोः ।
सस्मितं प्रेक्ष्य वदनं चक्रुर्भ्रुभंगमेव च ॥७८॥
स देवदानवादीनां देशानभ्येत्य शुलधृक ।
जगाम विष्णोर्भवनं यत्रास्ते मधुसुदनः ॥७९॥
निरीक्ष्य दिव्यभवनं शंकरो लोकशंकरः ।
सहैव भुतप्रवरैः प्रवेष्टमुपचक्रमे ॥८०॥
अविज्ञाय परं भावं दिव्यं तत्पारमेश्वरम ।
न्यवारयत त्रिशुलांक द्वारपालो महाबलः ॥८१॥
शंखचक्रगदापाणिः पीतवासा महाभुजः ।
विष्वक्सेन इति ख्यातो विष्णोरंशसमुद्भवः ॥८२॥
अथैनं शंकरगणो युयुधे विष्णुसम्भवम ।
भीषणो भैरवादेशात कालवेग इति श्रुतः ॥८३॥
विजित्यं तं कालवेगं क्रोधसंरक्तलोचनः ।
रुद्रायाभिमुखं रौद्रं चिक्षेप च सुदर्शनम ॥८४॥
अथ देवो महादेवस्त्रिपुरारिस्त्रुशुलभृत ।
तमापतन्तं सावज्ञमालोकयदमित्रजित ॥८५॥
तदन्तरे महदभृतं युगान्तदहनोपमम ।
शुलेनोरसि निभिद्य पातयामास तं भुवि ॥८६॥
स शुलभिहतोऽत्यर्थ त्यक्त्वा स्वं परमं बलम ।
तत्याज जीवित दृष्टा मृत्त्युं व्याधिहतां इव ॥८७॥
निहत्य विष्णुपुरुषं सार्धं; प्रमथपुंगवैः ।
विवेश चान्तरगृहं समादान कलेवरम ॥८८॥
निरीक्ष्य जगतो हेतुमीश्वरं भगवान हरिः ।
शिरो ललाटात सम्भिद्य रक्तधारामपातयत ॥८९॥
गृहाण भगवान भिक्षां मदीयाममितद्युते ।
न विद्यतेऽनाभ्युदिता तव त्रिपुरमर्दन ॥९०॥
न सम्पुर्ण कपालं तद ब्रह्माणः परमेष्ठिनः ।
दिव्यं वर्षसहस्त्रं तु सा च धारा प्रवाहिताः ॥९१॥
अथाब्रवीत कालरुद्रं हरिर्नारायणः प्रभुः ।
संस्तुयं वैदिकैर्मन्त्रैब्रहुमानपुरः सरम ॥९२॥
किमर्थमेतद वदनं ब्रह्माणो भवता धृतम ।
प्रोवाच वृत्तमखिलं भगवान परमेश्वरः ॥९३॥
समाहुय हृषीकेशो ब्रह्माहत्यामथाच्युतः ।
प्रार्थयामास देवेशो विमुत्र्चेति त्रिशुलिनम ॥९४॥
न तत्याजाथ सा पार्श्व व्याहृतापि मुरारिणा ।
चिरं ध्यात्वा जगद्योनिः शंकरं प्राह सर्ववित ॥९५॥
व्रजस्व भगवन दिव्यां पुरीं वाराणसीं शुभाम ।
यत्राखिलजगदद्दोषं क्षिप्रं नाशयतीश्वरः ॥९६॥
ततः सर्वाणि गुह्मानि तीर्थान्यायतनानि च ।
जगाम लीलया देवो लोकानां हितकाम्यया ॥९७॥
संस्तुयमानः प्रमथैर्महायोगैरितस्ततः ।
नृत्यमानो महायोगी हस्तन्यस्तकलेवरः ॥९८॥
तमभ्यधावद भगवान हरिर्नारायणः स्वयम ।
अथास्थायापरं रुपं नृत्यदर्शनलालसः ॥९९॥
निरीक्षणामाणो गोविन्दं वृषेन्द्राकिंतशासनः ।
सस्मितोऽनन्तयोगात्मा नृत्याति स्म पुनः पुनः ॥१००॥
अथ सानुचरो रुद्रः सहारिर्धर्मवाहनः ।
भेजे महदेवपुरीं वाराणसीमति श्रुताम ॥१०१॥
प्रविष्टमात्रे देवेशे ब्रह्माहत्या कपर्दिने ।
हा हेत्युक्त्वा सनादं सा पातालं प्राप दुःखिता ॥१०२॥
प्रविश्य परमं स्थानं कपालं ब्रह्माणो हरः ।
गणनामग्रतो देवः स्थापयामास शंकरः ॥१०३॥
स्थापयित्वा महादेवो ददौ तत्त्व कलेवरम ।
उक्त्वा सजीवमस्त्वीशी विष्णवे स घृणानिधिः ॥१०४॥
ये स्मरन्ति ममाजस्त्रं कापालं वेषमुत्तमम ।
तेषा विनश्यति क्षिप्रामिहामुत्र च पातकम ॥१०५॥
आगम्य तीर्थप्रवरे स्नानं कृत्वा विधानतः ।
तर्पयित्वा तत परं ज्ञानं ददामि परमं पदम ॥१०७॥
इतीदमुक्त्वा भगवान समलिंगं जनार्दनम ।
सहैव प्रमथेशानैः क्षणादन्तरधीयत ॥१०८॥
स लब्ध्वा भगवान कृष्णो विष्वक्सेनं त्रिशुलिंनः ।
स्वं देशमगमत तुर्ण गृहीत्वा परमं वपुः ॥१०९॥
एतद व कथितं पुण्यं महापाकनाशनमः ।
कपालमोचनं तीर्थं स्थाणोः प्रियकरं शुभम ॥११०॥
य इमं पठतेऽध्यायं ब्राह्मणानां समीपतः ।
वाचिकैर्मानसैः पापैः कायिकैश्च विमुच्यते ॥१११॥
इति श्रीकुर्मपुराण षटसाहस्त्रयां संहितायामुपरिविभागे एकत्रिंशोऽध्यायः ॥३१॥