ईश्वर ( शिव ) तथा ऋषियोंके संवादमें ईश्वरगीताका उपक्रम
ऋषय ऊचुः
भवता कथितः सम्यक सर्गः स्वायम्भुवस्ततः ।
ब्रह्माण्डस्यास्य विस्तरो मन्वन्तरविनिश्चयः ॥१॥
तत्रेश्वरेश्वरो देवो वर्णिभिर्धर्मतपरैः ।
ज्ञानयोगरतैर्नित्यमाराध्यः कथितस्त्वया ॥२॥
तद्वदाशेषसंसारदुख्हनाशमनुत्तमम ।
ज्ञानं ब्रह्मोकविषयं येन पश्येम तत्परम ॥३॥
त्वं हि नारायणात साक्षात कृष्णद्वैपयानात प्रभो ।
वाप्ताखिलविज्ञानस्तत्वां पूच्छामहे पुनः ॥४॥
श्रुत्वा मुनीनां तद वक्यं कृष्नद्वैपायनं प्रभुम ।
सुतः पौराणिकःस्मृत्वा भाषितुं ह्मापचक्रमे ॥५॥
अथास्मिन्नन्तरे व्यासः कृष्नद्वैपायनः स्वयम ।
आजगम मुनिश्रेष्ठा यत्र सत्रं समासते ॥६॥
तं दृष्टा वेद्विद्वासां कालमेघसमद्युतिम ।
व्याम्स कमलपंत्राक्षं प्रणेमुद्विजपुंगवाः ॥७॥
पपात दण्दवद भूमौ दृश्टासौ रोमहर्षणः ।
प्रदक्षिणीकृत्यं गुरुं प्रात्र्जलिः पार्श्वगोऽभवत ॥८॥
पृष्टास्तेऽनामयं विप्राह शौनकाद्या महामुनिम ।
समाश्वस्यासन तस्मैं तदयोग्यं समकल्पयन ॥९॥
अथैतानब्रवीद वाक्य्हं प्राशरसुत प्रभुः ।
कच्चिन्न तपसो हानिः स्वाध्यायस्य श्रुतस्य च ॥१०॥
ततः स सुतः स्वगुरुं प्रणम्याह महमुनिम ।
ज्ञानं तद ब्रह्माविषयं मुनीनां वक्तमर्हसि ॥११॥
इमें हि मुनयः शान्तास्तापसा धर्मतप्तराः ।
शुश्रुषा जायतेः चैषां वक्तुमर्हसि तत्वतः ॥१२॥
ज्ञानं विमुक्तिदं दिव्यं यन्मे साक्षात त्वयोदितम ।
मुनीनां व्याहृतं पुर्व विष्णुनां कूर्मरुपिणा ॥१३॥
श्रुत्वा सुतस्य वचनं मुनिः सत्यवतीसुतः ।
प्रणम्य शिरसा रुद्रं वचः प्राह सुखावहम ॥१४॥
व्यास उवाच
वक्ष्ये देवो महादेवः पृष्टो योगीश्वरैः पुरा ।
सनत्कुमारप्रमुखैःस्वयं यत समभाषत ॥१५॥
सनत्कुमारः सनकस्तथैव च सनन्दनः ।
अंगिरा रुद्रसहितो भॄगुः परमधर्मवित ॥१६॥
कणादः कपिलो योगी वामदेवो महामुनिः ।
शुक्रो वसिष्ठो भगवन सर्वे संयतमानसा ॥१७॥
परस्परं विचायैते सम्शयाविष्टचेतसह ।
तप्तवन्तस्ततो घोरं पुण्यं बदरिकाश्रमे ॥१८॥
अपश्यंस्ते महायोगमृषिं धर्मसुतं शुचिम ।
नारायणमनाद्यन्तं नरेण सहितं तदा ॥१९॥
संस्तुयं विविधैः स्तोत्रैः सर्वे वेदसमुद्भवैः ।
प्रणेमुर्भक्तिसंयुक्त योगिनो योगवित्तमम ॥२०॥
विज्ञाय वात्र्छितं तेषां भगवानपि सर्ववित ।
प्राह गम्भीरया वाचा किमर्थ तप्यते तपः ॥२१॥
अबुवन हृष्टमनसो विश्वात्मानं सनातनम ।
साक्षान्नारायणं देवमागतं सिद्धिसुचकम ॥२२॥
वयं संशयमापन्नाः सर्वे वै ब्रहमवादिनः ।
भवन्तमेकं शरणं प्रपन्नाः पुरुषोत्तमम ॥२३॥
त्वं हि तद वेत्थ परम सर्वज्ञो भगवानृषि ।
नारायणः स्वयं साक्षात पुराणोऽव्यक्तिपुरुषः ॥२४॥
नह्रान्यो विद्यते वेत्ता त्वामृते परमेश्वर ।
शुश्रुषास्माकमखिलं संशयं छेतुमर्हसि ॥२५॥
किं कारणमिदं कृत्स्नं कोऽनुसंसरते सदा ।
कश्चिदात्मा च का मुक्तिः संसारह किंनिमित्तकः ॥२६॥
कः संसारयतीशानः को वा सर्व प्रपश्यति ।
किं तत परतरं ब्रह्मा सर्व नो वक्तुमर्हसि ॥२७॥
एवमुक्ते तु मुनयः प्रापश्यन पुरुषोत्तमम ।
विहाय पापसं रुपं संस्थितं स्वेन तेजसा ॥२८॥
विभ्राजमानं विमलं प्रभामण्डलमण्डितम ।
श्रीवत्सवक्षसं देवं तप्तजाम्बुनदप्रभ्म ॥२९॥
शंखचक्रगदापाणिं शार्गहस्तं श्रियावृतम ।
न द्रुष्टस्तत्क्ष्णदेव नरस्वस्यैव तेजसा ॥३०॥
तदन्तरे महादेवः शशाकाकिंतशेखरः ।
प्रसादाभिमुखो रुद्रः प्रादुरासीन्महेश्वरः ॥३१॥
निरीक्ष्य ते जगन्नाथं त्रिनेत्रं चन्द्रभुषनम ।
तुष्टुवुर्हृष्तमनसो भक्त्या तं परमेश्वरम ॥३२॥
जयेश्वर महादेवजय भूतपते शिव ।
जयाशेषमुनीशान तपासाभिप्रपुजित ॥३३॥
सहस्त्रमुर्ते विश्वात्मान जगद्यन्त्रप्रवर्तक ।
जयानन्त जगज्जन्मत्राणसंहारकारण ॥३४॥
शस्त्रचरणेशान शम्भो योगीन्द्रवन्तित ।
जयाम्भिकापते देव नमस्ते परमेश्वर ॥३५॥
संस्तुतो बह्गवानीशस्त्र्यम्बको भक्तवत्सलः ।
समालिंग्य हृशीकेशं प्राह गम्भीरया गिरा ॥३६॥
किमर्थक पुण्डरीकेशं मुनीन्द्रा ब्रह्मावादिनः ।
इमं समागता देशं इं वा कार्यं मयाच्युतः ॥३७॥
आकर्ण्य भगवदवाक्यं देवदेवो जनार्दनः ।
प्राह देवो महादेवं प्रसादभिमुखं स्थितम ॥३८॥
इमें हि मुनयो देव तापसाः क्षीणकल्पषाः ।
अभ्यागता मां शरणं सम्यग दर्शनकांगिणः ॥३९॥
यदि प्रसन्नो भगवान मुनीनां भावितात्मनाम ।
संनिधौ मम तज्ज्ञानं दिव्यं वक्तुम्किहार्हसि ॥४०॥
त्वं हि वेत्थ स्वमात्मानं न ह्यान्यो विद्यते शिव ।
ततस्त्वमाम्तनाम्तानं मुनीन्द्रेभ्यः प्रदशयः ॥४१॥
एवमुक्त्वा हृषीकेशः प्रोवाच मुनिपुंगवान ।
प्रदर्शयन योगसिद्धे निरीक्ष्य वृषभध्वजम ॥४२॥
संदर्शनान्महेशस्य शंकरस्याथ शुलिनः ।
कृतार्थ स्वयमात्मानं ज्ञातुमर्हथ तत्वतः ॥४३॥
प्रष्टुमर्हथ विश्वेशं प्रत्यक्षं पुरतः स्थितम ।
ममैव संनिधावेष यथावद वक्तुमीश्वरः ॥४४॥
निशम्य विष्णुवचनं प्रणम्य वृषभध्वजम ।
सनत्कुमारप्रमुखाः पृच्छन्ति स्म महेश्वरम ॥४५॥
अथास्मिन्नन्तरे दिव्यामसनं विमलं शिवम ।
किमप्यचिन्यं गगनादीश्वरार्हं समुदबभौ ॥४६॥
तत्राससाद योगात्मा विष्णुनां सह विश्वकृत ।
तेजसा पुरयन विश्वं भाति देवो महेश्वरः ॥४७॥
तं ते देवादिदेवेशं शंकरं ब्रह्मवादिनः ।
विभ्राजमानं विमले तस्मिन दद्रुशरासने ॥४८॥
यं प्रपश्यन्ति योगास्थाः स्वात्मन्यात्माननीश्वरम ।
अनन्यतेजसं शान्तं शिवं दद्वशिरें किल ॥४९॥
यतः प्रसुतिर्भूताना यत्रैतत प्रविलीयते ।
तमासनस्थं भूतानामीशं दद्वशिरे किल ॥५०॥
यदन्तरा सर्वमेतद यतोऽभिन्नमिदं जगत ।
स वासुदेवमासीनंतमीशं ददृशुः किल ॥५१॥
प्रोवाच पुष्टो भागवान मुनीना परमेश्वरः ।
निरीक्ष्य पुण्डरीकाक्षं स्वात्मयोगमनुत्तमम ॥५२॥
तच्छृणुध्वं यथान्यायमुच्यमानं मयानघाः ।
प्रशान्तमानसाः सर्व ज्ञानमीश्वरभाषितम ॥५३॥
इति श्रीकूर्मपुराणे षटसाहस्रयां संहितायामुपरिविभागे ( ईश्वरगीतासु ) प्रथमोऽध्यायः ॥१॥