संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|प्रपञ्चसारतन्त्रम्| त्रयस्त्रिंशः पटलः प्रपञ्चसारतन्त्रम् विशेष माहिती प्रथमः पटलः द्वितीयः पटलः तृतीयः पटलः चतुर्थः पटलः पञ्चमः पटलः षष्ठः पटलः सप्तमः पटलः अष्टमः पटलः नवमः पटलः दशमः पटलः एकादशः पटलः द्वादशः पटलः त्रयोदशः पटलः चतुर्दशः पटलः पञ्चदशः पटलः षोडशः पटलः सप्तदशः पटलः अष्टादशः पटलः एकोनविंशः पटलः विंशः पटलः एकविंशः पटलः द्वाविंशः पटलः त्रयोविंशः पटलः चतुर्विंशः पटलः पञ्चविंशः पटलः षड्विंशः पटलः सप्तविंशः पटलः अष्टाविंशः पटलः एकोनत्रिंशः पटलः त्रिंशः पटलः एकत्रिंशः पटलः द्वात्रिंशः पटलः त्रयस्त्रिंशः पटलः त्रयस्त्रिंशः पटलः प्रपञ्चसारतन्त्रम् (Prapancasaratantra), ज्याचा अर्थ 'ब्रह्मांडाचे सार' असा आहे. Tags : prapanchasarshankaracharyaप्रपञ्चसारतन्त्रशंकराचार्य त्रयस्त्रिंशः पटलः Translation - भाषांतर अथ सन्तानसंसिद्धिसमाकुलितचेतसाम् ।तदुत्पत्तिकरं यागं प्रवक्ष्ये गृहमेधिनाम् ॥१॥न चापुत्रस्य लोकोऽस्ति पितरोऽधः पतन्ति च ।तस्मात्तु सकलोपायैर्यतेतापत्यसिद्धये ॥२॥देर्विषपितृपूजासु निरतानामभक्तितः ।गुरुमातृपितृश्राद्धवञ्चकानां च नित्यशः ॥३॥रैथभ्योऽर्थमदातृणां विद्यमानेऽर्थसञ्चये ।अदत्त्वैवातिथिभ्योऽन्नं भोक्तॄणां पापचेतसाम् ॥४॥हरिशङ्करयोः पादपद्मार्चाविरतात्मनाम् ।स्वभार्यानिन्दकानां च लोकवेदविरोधिनाम् ॥५॥इत्यादिदोषदुष्टानां पापानां गृहमेधिनाम् ।दुष्प्रतिग्रहदोषाद्वा जायते त्वनपत्यया ॥६॥एवमादिकदोषापनोदनी सुतसिद्धिदा ।अशेषपापहन्त्री च वक्ष्यते यजनक्रिया ॥७॥पुत्राप्तये गृहस्थो दीक्षाविधिना चतुर्दशीरात्रिम् ।सह पत्न्या गमयित्वा कृत्वा पौर्वाह्निकीः क्रियाः सर्वाः ॥८॥संयोज्य किञ्चन यथाविधि पञ्चगव्यंसङ्कोचकेन मनुना प्रतिमथ्य वार्णम् ।सम्मन्त्र्य चाष्टशतकं समवद्यभूत-मन्त्रैः पिबेत्स्वयमसावपि गर्भधात्री ॥९॥ततोऽग्निमाधाय चरुं च कृत्वासज्र्ल्प्य तद्दक्षिणमुत्तरं च ।भागं क्रमात्पैतृकदैविकं त-त्पित्र्यं तु पूर्वं जुहुयात्क्रमेण ॥१०॥स्मृत्वा निजं पितरमप्यधरा निषण्णंसान्नाय्य पिण्डयुगलं घृतसम्प्लुतं तत् ।हुत्वा स्रुवेण घृतसम्पुटितं तथैवमन्त्री पितामहमथ प्रपितामहं च ॥११॥व्याहृतीभिरथ पक्वहोमतः सर्वतः प्रतिजुहोतु र्सिपषा ।मातृवर्गगुरुतत्पितृद्वयं पूर्ववत्समवदिष्य साधकः ॥१२॥कलायुतैः षोडशमूर्तिमन्त्रैव्र्यस्तैरथाष्टाक्षरजैश्च वर्णैः ।अष्टौ समस्तेन च तेन पञ्चाक्षरेण चाष्टाक्षरवज्जुहोतु ॥१३॥पक्वाहुतीनामपि वर्णसङ्ख्यं चतुर्गुणं चापि घृताहुतीनाम् ।हुत्वावदानद्वितयं च पुंस्त्रीभेदप्रभिन्नं हविषा करोतु ॥१४॥पञ्चाक्षरेण पुरुषात्मकमन्यदन्य-वर्णेन चाष्टशतयुग्ममथ प्रजप्य ।संयोज्य तद्युगलमप्यभिमन्त्र्य विष्णु-र्योन्यादिकेन मनुना च कर्पिदसङ्ख्यम् ॥१५॥पुरुषः पुरुषात्मकं प्रकृत्यात्मकमन्याथ समाहितोपयुज्य ।अवदानयुगं क्रमान्मनस्वी पुनराचम्य समर्चयेद्धुताशम् ॥१६॥गुरवेऽप्यथ दक्षिणां प्रदत्त्वानलमुद्वास्य च भोजयेद्विजातीन् ।प्रतिपर्वकमेवमेकवृद्ध्या मतिमान् पकुरकं प्रपूरयीत ॥१७॥एकहासादन्यमब्दं द्विजाती-न्सम्भोज्यान्यं पूरयेदेकवृद्ध्या ।सम्पूर्यमाणादेवमेव त्रिकाब्दा-दर्वाक्पुत्रो जायते दैवशक्त्या ॥१८॥पितृदेवताप्रसादान्मेधायुःकान्तिसंयुतो विद्वान् ।लक्ष्मीतेजोयुक्त धर्मरुचिर्भवति सन्ततेः कर्ता ॥१९॥समुनिसुरपितृभ्यो ब्रह्मचर्येण यज्ञै-स्त्रिविधमृणमपत्यैश्चैव सम्मोचयेद्यः ।श्रुतिवचनकृदस्मिन्वापि लोके परस्मि-न्निति स तु गृहमेधी पूज्यते साधुलोकैः ॥२०॥वर्णादिको हलोमन्त्रः सङ्कोचाख्यो ध्रुवादिकः ।मन्त्रः स्याद्भूतमनवः स्युश्च भूतात्मनात्मभिः ॥२१॥अथो हिताय जगतां प्रथितं शितचेतसाम् ।अद्य सङ्क्षिप्य वक्ष्यामि लक्षणं गुरुशिष्ययोः ॥२२॥स्वच्छः स्वच्छन्दसहितोऽतुच्छधीः सक्तहृच्छयः ।देशकालादिविद्देशे देशे देशिक उच्यते ॥२३॥अग्रगण्यः समग्रज्ञो निग्रहानुग्रहक्षमः ।षड्वर्गविजयव्यग्रोऽनुग्रो विगतविग्रहः ॥२४॥शुक्लशुक्लांशुकोत्कृष्टकर्मा विक्लवमानसः ।वेदवेदाङ्गविद्वादी वेदिताविदितागमः ॥२५॥इष्टदोऽनिष्टसंहर्ता दृष्टादृष्टसुखावहः ।रतोऽविरतमर्चासु परं पुरमुरद्विषोः ॥२६॥शान्तो दान्तः शान्तमना नितान्तं कान्तविग्रहः ।स्वदुःखकरणेनापि परं परसुखोद्यतः ॥२७॥ऊहापोहविदव्यग्रो लोभमोहविर्विजतः ।अज्ञानुकम्प्यविज्ञातज्ञानो ज्ञातपरेङ्गितः ॥२८॥निरंशसांशवित्सर्वसंशयच्छिदसंशयः ।नयविद्विनयोपेतो विनीतो न चिरात्मवान् ॥२९॥व्याधिप्रापितव्याधिः समाधिविधिसंयुतः ।श्रुतिधीरोऽतिधीरश्च वीरो वाक्यविशारदः ॥३०॥वर्गोपेतसमारम्भो गभीरो दम्भर्विजतः ।आदर्श इव विद्यानां न तु दर्शनदूषकः ॥३१॥असौ मृग्यश्च दृश्यश्च सेव्यश्चाभीष्टमिच्छता ।शिष्यस्तदावर्जनकृद्देहेन द्रविणेन च ॥३२॥तस्य पादारविन्दोत्थरजःपटलरूषणः ।स्नानमप्राप्य न प्राप्यं प्रायो बुद्धिमतेप्सितम् ॥३३॥नित्यशः कायवाक्चित्तैस्त्रिद्व्येकाब्दादिकावधि ।परिचर्यापरः शिष्यः स्यात्सुसंयतमानसः ॥३४॥तं तथाविधमालक्ष्य सदावितथवादिनम् ।मातृतः पितृतः शुद्धं बूद्धिमन्तमलोलुपम् ॥३५॥अस्तेयवृत्तिमास्तिक्ययुक्तं मुक्तिकृतोद्यमम् ।अकल्मषं मृषाहीनमहीनद्रव्यमानसम् ॥३६॥ब्रह्मचर्यपरं नित्यं परिचर्यापरं गुरोः ।अल्पाशनिद्रं पूजायामनल्पकृतकल्पनम् ॥३७॥अधीतवेदं स्वाधीनमनाधिं व्याधिर्विजतम् ।तरुणं करुणावासं परितोषकरं गुरोः ॥३८॥सुवेषमेषणातीतममलं विमलाशयम् ।सुप्रसन्नं प्रसन्नाङ्गं सदा सन्निहितं गुरोः ॥३९॥परोपकारनिरतं विरतं परदूषणे ।मातृवद्गुरुपत्नीं च भ्रातृवत्तत्सुतानपि ॥४०॥स्मरन्तमस्मराबाधं स्मितोपेतमविस्मितम् ।परिग्रहे परीक्ष्यैव शिष्यमेवङ्गुणं गुरुः ॥४१॥अलसं मलसङ्क्लिन्नं क्लिष्टं क्लिष्टन्ववायजम् ।दम्भान्वितमगम्भीरं चण्डं पण्डितमानिनम् ॥४२॥रागिणं रोगिणं भोगलालसं बालसम्मतम् ।रौद्रं दरिद्रं निद्रालुमाद्यूनं क्षुद्रचेष्टितम् ॥४३॥नृशंसमन्धं बधिरं पङ्गुं व्यङ्गममङ्गलम् ।अतिदीर्घमतिह्रस्वमतिस्थूलकृशात्मकम् ॥४४॥आदित्सुं कुत्सितं वत्सं बीभत्सं मत्सरात्मकम् ।परदारपरं भीरुं दारुणं वैरिणं सताम् ॥४५॥लुब्धं त्वलब्धवैदग्ध्यं स्तब्धं लुब्धकबान्धकवम् ।सुखिनं मुखरं दुर्गं दुर्मुखं मूकमानसम् ॥४६॥प्रत्यग्रमुग्रं व्यग्रेहमग्रगण्यं दुरात्मनाम् ।प्रष्टव्यकं तमःस्पृष्टं क्लिष्टमिष्टापहं नृणाम् ॥४७॥स्वार्थकृत्यं प्रसक्तार्थं निरर्थारम्भणं शठम् ।ईदृग्विधं गुरुः शिष्यं न गृह्णीयात्कथञ्चन ॥४८॥यदि गृह्णाति तद्दोषः प्रायो गुरुमपि स्पृशेत् ।मन्त्रिदोषो यथा राज्ञि पत्यौ जायाकृतो यथा ॥४९॥तथा शिष्यकृतो दोषो गुरुमेति न संशयः ।स्नेहाद्वा लोभतो वापि यो न गृह्णाति दीक्षया ॥५०॥तस्मिन्गुरौ सशिष्ये तु देवताशाप आपतेत् ।मधुद्विषि महादेवे मातापित्रोर्महीभृति ।भक्तिर्या सा पदाम्भोजे कार्या निजगुरौ सदा ॥५१॥छायाज्ञापादुकोपानद्दण्डांश्च शयनासने ।यानं मनोगतं चान्यदन्तेवासी न लङ्घयेत् ॥५२॥व्याख्याविवादः स्वातन्त्र्यकामिता काम्यजृम्भिता ।निद्राकुतर्कक्रोधांश्च त्यजेद्गुरुगृहे सदा ॥५३॥अग्राम्यधर्मं विण्मूत्रसर्गनिष्ठीवनादिकम् ।परित्यजेत्परिज्ञाता वमिं च गुरुमन्दिरे ॥५४॥ग्राम्योक्तीरनृतं निन्दामृणं च वसुविक्रयम् ।परित्यजेद्गुरौ तस्य सपत्न्यैश्च समागमम् ॥५५॥इष्टं वानिष्टमादिष्टं गुरुणा यत्तु गुर्वपि ।त्वरया परया कुर्याद्धिया सम्यगजिह्मया ॥५६॥कर्मणा मनसा वाचा सदा भक्तियुजा गुरुम् ।निव्र्याजं पूजयेच्छिष्यो निजकार्यप्रसिद्धये ॥५७॥लोकोद्वेगरी या च या च कर्मनिकृन्तनी ।स्थित्युच्छेदकरी या च तां गिरं नैव भाषयेत् ॥५८॥रम्यमप्युज्ज्वलमपि मनसोऽपि समीप्सितम् ।लोकविद्वेषणं वेषं न गृह्णीयात्कदाचन ॥५९॥इत्याचारपरः सम्यगाचार्यं यः समर्चयेत् ।कृतकृत्यः स वै शिष्यः परत्रेह च नन्दति ॥६०॥देवानृषीनपि पितृनतिथींस्तथाग्निंनित्योद्यतेन मनसा दिनशोऽर्चयेद्यः ।इष्टानवाप्य सकलानिह भोगजाता-न्प्रेत्य प्रयाति परमं पदमादिपुंसः ॥६१॥इत्थं मूलप्रकृत्यक्षरविकृतिलिपिव्रातजातग्रहक्र्ष-क्षेत्राद्याबद्धभूतेन्द्रियगुणरविचन्द्राग्निसम्प्रोतरूपैः ।मन्त्रैस्तद्देवताभिर्मुनिभिरपि जपध्यानहोमार्चनाभि-स्तन्त्रेऽस्मिन्यन्त्रभेदैरपि कमलज ते र्दिशतोऽयं प्रपञ्चः ॥६२॥यदाश्रया विप्रकृतिप्रभावतोविभिन्नतारांशसमुत्थितौजसः ।जगन्ति पुष्णन्ति रवीन्दुवह्नयोनमोऽस्तु तस्मै परिपूर्णतेजसे ॥६३॥॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्यश्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतःकृतौ प्रपञ्चसारे त्रयिंस्त्रशः पटलः ॥॥ प्रपञ्चसारः सम्पूर्णः ॥ N/A References : N/A Last Updated : January 21, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP