संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|प्रपञ्चसारतन्त्रम्| दशमः पटलः प्रपञ्चसारतन्त्रम् विशेष माहिती प्रथमः पटलः द्वितीयः पटलः तृतीयः पटलः चतुर्थः पटलः पञ्चमः पटलः षष्ठः पटलः सप्तमः पटलः अष्टमः पटलः नवमः पटलः दशमः पटलः एकादशः पटलः द्वादशः पटलः त्रयोदशः पटलः चतुर्दशः पटलः पञ्चदशः पटलः षोडशः पटलः सप्तदशः पटलः अष्टादशः पटलः एकोनविंशः पटलः विंशः पटलः एकविंशः पटलः द्वाविंशः पटलः त्रयोविंशः पटलः चतुर्विंशः पटलः पञ्चविंशः पटलः षड्विंशः पटलः सप्तविंशः पटलः अष्टाविंशः पटलः एकोनत्रिंशः पटलः त्रिंशः पटलः एकत्रिंशः पटलः द्वात्रिंशः पटलः त्रयस्त्रिंशः पटलः दशमः पटलः प्रपञ्चसारतन्त्रम् (Prapancasaratantra), ज्याचा अर्थ 'ब्रह्मांडाचे सार' असा आहे. Tags : prapanchasarshankaracharyaप्रपञ्चसारतन्त्रशंकराचार्य दशमः पटलः Translation - भाषांतर अथ वक्ष्ये सङ्ग्रहतो द्वादशगुणिताख्यमद्य यन्त्रवरम् ।सम्पूज्य येन शक्तिं भुक्तेर्मुक्तेव्र्रजेन्नरोऽनुभवम् ॥१॥व्याहृत्यावीतशक्तिज्वलनपुरयुगद्वन्द्वसन्ध्युत्थशक्त्या-वीतं कोणात्तदुर्बीजकमनु च कपोलात्तगायत्रिमन्त्रम् ।आग्नेयावीतमर्णैर्वृतमनुविगतैर्भूपुराभ्यां च रन्ध्रेक्षौं चिन्तारत्नकं द्वादशगुणितमिदं यन्त्रमिष्टार्थदायि ॥२॥पूर्वोक्तमानक्लृप्त्या मन्त्री त्रितयं विलिख्य वृत्तानाम् ।विलिखेदन्तर्वर्तुलमनुशक्तिं स्पष्टबिन्दुनिष्ठानाम् ॥३॥द्वादशमध्यमवर्तुलरेखा बहिरालिखेच्च शक्तीनाम् ।हरियमवरुणधनाधिपदिक्षु द्वे द्वे च ताः क्रमेण स्युः ॥४॥ईशाग्निऋतिमरुतां दिक्ष्वेकैकं विलिख्य भूयश्च ।बीजान्तरालनिर्गतशूलाज्र्तिकोणषट्कयुगमग्नेः ॥५॥मण्डलयुगयुगलं स्यादस्पृशदान्तरितवर्तुलं विशदम् ।शक्तिं प्रवेष्टयेच्च प्रतिलोमव्याहृतीभिरन्तःस्थाम् ॥६॥रविकोणेषु दुरन्तां मायां विलिखेदथाग्रबिन्दुमतीम् ।एकैकान्तरितास्ताः परस्परं शक्तयश्च सम्बध्युः ॥७॥गायत्रीं प्रतिलोमतः प्रविलिखेदग्नेः कपोलं बहि-र्द्वे द्वे चैव लिपी बहिश्च रचयेद्भूयस्तथा त्रिष्टुभम् ।वर्णान्प्रानुगतांश्च भूपुरयुगे सिंहाख्यचिन्तामणिंलिख्याद्यन्त्रमशेषदुःखशमनायोक्तं पुरा देशिकैः ॥८॥बहिरपि षोडशपत्रं वृत्तविचित्रं च राशिवीथियुतम् ।रचयेन्मण्डलमेवं पुनर्यथोक्तं निधापयेत्कलशम् ॥९॥आदावङ्गावरणमनु हृल्लेखिकाद्याश्चतस्रोब्रह्माण्याद्याः षोडशविकृतिद्वन्द्वसङ्ख्याक्रमेण ।सार्धं भूयश्चतसृभिरथो षष्टिभिर्लोकपालै-र्वङ्काद्यैरष्टममपि समभ्यर्चयेद्भक्तिनम्रः ॥१०॥कराली विकराली च उमा देवी सरस्वती ।दुर्र्गा शची उषा लक्ष्मीः श्रुतिः स्मृतिधृती तथा ॥११॥श्रद्धा मेधा मतिः कान्तिरार्या षोडश शक्तयः ।विद्याह्रीपुष्टयः प्रज्ञा सिनीवाली कुहूस्तथा ॥१२॥रुद्रवीर्या प्रभानन्दा पोषणी ऋद्धिदा शुभा ।कालरात्री महारात्री भद्रकाली कपालिनी ॥१३॥विकृतिर्दण्डिमुण्डिन्यौ सेन्दुखण्डा शिखण्डिनी ।निशुम्भशुम्भमथनी महिषासुरर्मिदनी ॥१४॥इन्द्राणी चैव रुद्राणी शङ्करार्धशरीरिणी ।नारी नारायणी चैव त्रिशूलिन्यपि पालिनी ॥१५॥अम्बिका ह्लादिनी चैव द्वात्रिंशच्छक्तयो मताः ।पिङ्गलाक्षी विशालाक्षी समृद्धिर्वृद्धिरेव च ॥१६॥श्रद्धा स्वाहा स्वधाख्या च मायाभिख्या वसुन्धरा ।त्रिलोकधात्री गायत्री सावित्री त्रिदशेश्वरी ॥१७॥सुरूपा बहुरूपा च स्कन्दमाताच्युतप्रिया ।विमला सामला चैव अरुणी वारुणी तथा ॥१८॥प्रकृतिर्विकृतिः सृष्टिः स्थितिः संहृतिरेव च ।सन्ध्या माता सती हंसा र्मिदका वङ्किआका परा ॥१९॥देवतामा भगवती देवकी कमलासना ।त्रिमुखीसप्तमुख्यौ च सुरासुरविर्मिदनी ॥२०॥सलम्बोष्ठ्यूध्र्वकेश्यौ च बहुशिश्ना वृकोदरी ।रथरेखाह्वया चैव शशिरेखा तथापरा ॥२१॥पुनर्गगनवेगाख्या वेगा च पवनादिका ।भूयो भुवनवेगाख्या तथैव मदनातुरा ॥२२॥अनङ्गानङ्गमदना भूयश्चानङ्गमेखला ।अनङ्गकुसुमा विश्वरूपासुरभयङ्करी ॥२३॥अक्षोभ्यासत्यवादिन्यौ वङ्कारूपा शुचिव्रता ।वरदा चैव वागीशी चतुःषष्टिः प्रकीर्तिताः ॥२४॥इष्ट्वा यथोक्तमिति तं कलशं निजं वापुत्रं तथाप्तमपि शिष्यमथाभिषिञ्चेत् ।आस्तिक्ययुक्तमथ सत्यरतं वदान्यंविप्रप्रियं कुलकरं च नृपोत्तमं वा ॥२५॥विधानमेतत्सकलार्थसिद्धिकरं परं पावनमिन्दिराढ्यम् ।आयुष्करं वश्यकरं रिपूणां प्रध्वंसनं मुक्तिफलप्रदं च ॥२६॥पाशाज्रुशमध्यगया शक्त्याथ जपार्चनाहुतादियुतम् ।वक्ष्ये यन्त्रविधानं त्रैलोक्यप्राभृतायमानमिदम् ॥२७॥अष्टाशात्तार्गलाविर्हगलयवरगाच्यपूर्वपाश्चात्त्यषट्कंकोष्ठोद्यत्साङ्गसाष्टाक्षरयुगयुगलाष्टाक्षराख्यं बहिश्च ।मायोपेतात्मयुग्मस्वरमिलितलसत्केसरं साष्टपत्रंपद्यं तन्मध्यर्वितत्रितयपरिलसत्पाशशक्त्यज्रुशार्णम् ॥२८॥पाशाज्रुशावृतमनुप्रतिलोमगैश्चवर्णैः सरोजपुटितेन घटेन चापि ।आवीतमिष्टफलभद्रघटं तदेत-द्यन्त्रोत्तमं भुवि घटार्गलनामधेयम् ॥२९॥प्राक्प्रत्यगर्गले हलमथ पुनराग्नेयमारुते च हयम् ।दक्षोत्तरे हवार्णं नैत्र्र+तशैवे हरं द्विपङ्क्तिं लिखेत् ॥३०॥विलिखेच्च र्किणकायां पाशाज्रुशसाध्यसंयुतां शक्तिम् ।अभ्यन्तराष्टकोष्ठेष्वङ्गान्यवशेषितेषु चाष्टार्णौ ॥३१॥कोष्ठेषु षोडशस्वथ षोडशवर्णं तथा मनुं मन्त्री ।पद्मस्य केसरेष्वथ युगस्वरात्मान्वितां तथा मायाम् ॥३२॥एकैकेषु दलेषु त्रिशस्त्रिशः र्किणकागतान्वर्णान्र् ।पाशाज्रुशबीजाभ्यां प्रवेष्टयेद्बाह्यतश्च नलिनस्य ॥३३॥अनुलोमविलोमगतैः प्रवेष्टयेदक्षरैश्च तद्बाह्ये ।तदनु घटेन सरोजस्थितेन तद्वक्त्रकेऽम्बुजं च लिखेत् ॥३४॥बिन्द्वन्तिका प्रतिष्ठा सन्दिष्टा पाशबीजमिति मुनिभिः ।निजभूर्दहनाप्यायिनिशशधरखण्डान्वितोऽज्रुशो भवति ॥३५॥पाशश्रीशक्तिस्वरमन्मथशक्तीन्दिराज्रुशाश्चेति ।एकं कामिनिरञ्जिनि ठद्वयमपरं त्विहाष्टवर्णं स्यात् ॥३६॥अथ गौरि रुद्रदयिते योगेश्वरि सकवचास्त्रठद्वितयैः ।बीजादिकमिदमुक्तं शाक्तेयं षोडशाक्षरं मन्त्रम् ॥३७॥इति कृतदलसुविभूषितमतिरुचिरं लोकनयनचित्तहरम् ।कृतोज्ज्वलं मण्डलमपि पीठाद्यं पुरेव परिपूज्य ॥३८॥पूर्वप्रोक्तैः क्वाथैरेकेनापूर्य पूरयेत्कलशम् ।हृल्लेखाद्यङ्गाख्यौ मात्रसुरेशादिकौ च कुलिशादिम् ॥३९॥एवं सम्पूज्य देवीं कलशमनुशुभैर्गन्धपुष्पादिकैस्ता-न्दध्याज्यक्षौद्रसिक्तैस्त्रिशतमथ पृथग्दुग्धवीरुत्समिद्भिः ।हुत्वा दत्वा सुवर्णांशुकपशुधरणीर्दक्षिणार्थं द्विजेभ्यःसम्पूज्याचार्यवर्यं वसुभिरमलधीः संयतात्माभिषिञ्चेत् ॥४०॥इति कृतकलशोऽयं सिच्यते येन पुंसास भवति कविरेनं नित्यमालिङ्गति श्रीः ।धनदिनरजनीशैस्तुल्यतेजा महिम्नानिरुपमचरितोऽसौ देहिनां स्यात्पुरोगः ॥४१॥जपेच्चतुर्विंशतिलक्षमेवं सुयन्त्रितो मन्त्रवरं यथावत् ।हविष्यभोजी परिपूर्णसङ्ख्ये जपे पुनर्होमविधिर्विधेयः ॥४२॥पयोद्रुमाणां च समित्सहस्रषट्कैर्दधिक्षौद्रघृतावसिक्तैः ।तिलैश्च तावज्जुहुयात्पयोक्तैर्द्विजोत्तमानभ्यवहारयेच्च ॥४३॥गुरुमपि परिपूज्य काञ्चनाद्यै-र्जपति च मन्त्रमथो सहस्रमात्रम् ।भजति च दिनशोऽमुमर्चनायांविधिविहितं विधिमादरेण भूयः ॥४४॥सङ्क्षेपतो निगदितो विधिरर्चनायाःशक्तेरमुं भजतु संसृतिमोचनाय ।कान्त्यै श्रियै च यशसे जनरञ्जनायसिद्ध्यै प्रसिद्धमहसोऽस्य परस्य धाम्नः ॥४५॥गजमृगमदकाश्मीरैर्मन्त्रितमः सुरभिरोचनोपेतैः ।विलिखेदलक्तकरसालुलितैर्यन्त्राणि सकलकार्यार्थी ॥४६॥राज्या पटुसंयुतया सपाशशक्त्यज्रुशेन मन्त्रेण ।स्वाद्वक्तयाभिजुह्वन्निश्युर्वीशांस्तथोर्वशीं वशयेत् ॥४७॥एभिर्विधानैर्भुवनेश्वरीं तां समर्चयित्वाथ जपंश्च मन्त्री ।स्तुत्यानयाभिष्टुवतां समग्र प्रीत्यै समस्तार्तिविभञ्जिकायाः ॥४८॥(भुवनेश्वरीस्तुतिः)प्रसीद प्रपञ्चस्वरूपे प्रधानेप्रकृत्यात्मिके प्राणिनां प्राणसंज्ञे ।प्रणोतुं प्रभो प्रारभे प्राञ्जलिस्त्वांप्रकृत्याप्रतक्र्ये प्रकामप्रवृत्ते ॥४९॥स्तुतिर्वाक्यबद्धा पदात्मैव वाक्यंपदं त्वक्षरात्माक्षरस्त्वं महेशि ।ध्रुवं त्वां त्वमेवाक्षरैस्त्वन्मयैस्तो-ष्यसि त्वन्मयी वाक्प्रवृत्तिर्यतः स्यात् ॥५०॥अजाधोक्षजत्रीक्षणाश्चापि रूपंपरं नाभिजानन्ति मायामयं ते ।स्तुवन्तीशि तां त्वाममी स्थूलरूपांतदेतावदम्बेह युक्तं ममापि ॥५१॥नमस्ते समस्तेशि बिन्दुस्वरूपेनमस्ते रवत्वेन तत्त्वाभिधाने ।नमस्ते महत्त्वं प्रपन्ने प्रधानेनमस्ते त्वहङ्कारतत्त्वस्वरूपे ॥५२॥नमः शब्दरूपे नमो व्योमरूपेनमः स्पर्शरूपे नमो वायुरूपे ।नमो रूपतेजोरसाम्भःस्वरूपेनमस्तेऽस्तु गन्धात्मिके भूस्वरूपे ॥५३॥नमः श्रोत्रचर्माक्षिजिह्वाख्यनासा-सवाक्पाणिपत्यायुसोपस्थरूपे ।मनोबुद्ध्यहङ्कारचित्तस्वरूपेविरूपे नमस्ते विभो विश्वरूपे ॥५४॥रवित्वेन भूत्वान्तरात्मा दधासिप्रजाश्चन्द्रमस्त्वेन पुष्णासि भूयः ।दहस्यग्निमूर्ति वहन्त्याहृतं वामहादेवि तेजस्त्रयं त्वत्त एव ॥५५॥चतुर्वक्त्रयुक्ता लसद्धंसवाहारजः संश्रिता ब्रह्मसंज्ञां दधाना ।जगत्सृष्टिकार्यं जगन्मातृभूतेपरं तत्पदं ध्यायसीशि त्वमेव ॥५६॥विराजत्किरीटा लसच्चक्रशङ्खावहन्ती च नारायणाख्यां जगत्सु ।गुणं सत्त्वमास्थाय विश्वस्थितिं यःकरोतीह सोंशोऽपि देवि त्वमेव ॥५७॥जटाबद्धचन्द्राहिगङ्गा त्रिणेत्राजगत्संहरन्ती च कल्पावसाने ।तमः संश्रिता रुद्रसंज्ञां दधानावहन्ती परश्वक्षमाले विभासि ॥५८॥सचिन्ताक्षमाला सुधाकुम्भलेखा-धरा त्रीक्षणार्धेन्दुराजत्कपर्दा ।सुशुक्लांशुकाकल्पदेहा सरस्व-त्यपि त्वन्मयैवेशि वाचामधीशा ॥५९॥लसच्चक्रशङ्खा चलत्खड्गभीमानदिन्त्सहवाहा ज्वलत्तुङ्गमौलिः ।द्रवद्दैत्यवर्गा स्तुवत्सिद्धसङ्घात्वमेवेशि दुर्गा विसर्गाविहीने ॥६०॥पुरारातिदेहार्धभागो भवानीगिरीन्द्रात्मजात्वेन यैषा विभासि ।महायोगिवन्द्यां महेशासुनाथामहेश्यम्बिका तत्त्वतस्त्वन्मयैव ॥६१॥लसत्कौस्तुभोद्भासिते व्योमनीलेवसन्ती च वक्षःस्थले कैटभारेः ।जगद्वल्लभां सर्वलोकैकनाथांश्रियं तां महादेव्यहं त्वामवैमि ॥६२॥अजाद्रीगुहाब्जाक्षपोत्रीन्द्रकाणांमहाभैरवस्यापि चिह्नं वहन्त्यः ।विभो मातरः सप्ततद्रूपरूपाःस्फुरन्त्यस्त्वदंशा महादेवि ताश्च ॥६३॥समुद्यद्दिवाकृत्सहस्रप्रभासासदा सन्तताशेषविश्वावकाशे ।लसन्मौलिबद्धेन्दुरेखे सपाशा-ज्रुशाभीत्यभीष्टात्तहस्ते नमस्ते ॥६४॥प्रभाकीर्त्तिकान्तीन्दिरारात्रिसन्ध्या-क्रियाशातमिस्राक्षुधाबुद्धिमेधाः ।स्तुतिर्वाङ् मतिः सन्नतिः श्रीश्च शक्ति-स्त्वमेवेशि येऽन्ये च शक्तिप्रभेदाः।६५॥हरे बिन्दुनादैः सशक्त्याख्यशान्तै-र्नमस्तेऽस्तु भेदैः प्रभिन्नैरभिन्ने ।सदा सप्तपाताललोकाचलाब्धि-ग्रहद्वीपधातुस्वरादिस्वरूपे ॥६६॥नमस्ते नमस्ते समस्तस्वरूपेसमस्तेषु वस्तुष्वनुस्यूतशक्ते ।अतिस्थूलसूक्ष्मस्वरूपे महेशिस्मृते बोधरूपेऽप्यबोधस्वरूपे ॥६७॥मनोवृत्तिरस्तु स्मृतिस्ते समस्तातथा वाक्प्रवृत्तिः स्तुतिः स्यान्महेशि ।शरीरप्रवृत्तिः प्रणामक्रिया स्या-त्प्रसीद क्षमस्व प्रभो सन्ततं मे ॥६८॥(इति भुवनेश्वरस्तुतिः)हृल्लेखाजपविधिमर्चनाविशेषा-नेतांस्तां स्तुतिमपि नित्यमादरेण ।योऽभ्यस्येत्स खलु परां श्रियं च गत्वाशुद्धं तद्व्रजति पदं परस्य धाम्नः ॥६९॥इति हृल्लेखाविहितो विधिरुक्तः सङ्ग्रहेण सकलोऽयम् ।अस्मिन्निष्णातमना मन्त्री योगी स एव भोगी च ॥७०॥इति श्रीमत्परमहंसपरिव्राजकाचार्यस्यश्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतःकृतौ प्रपञ्चसारे दशमः पटलः ॥ N/A References : N/A Last Updated : January 21, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP