चतुर्थः पटलः
प्रपञ्चसारतन्त्रम् (Prapancasaratantra), ज्याचा अर्थ 'ब्रह्मांडाचे सार' असा आहे.
अथ व्यवस्थिते त्वेवमस्य शक्तित्वमिष्यते ।
कृतकृत्यस्य जगति सततं रूढसंस्थितेः ॥१॥
प्राणात्मकं हकाराख्यं बीजं तेन तदुद्भवाः ।
षडूर्मयः स्यू रेफोत्था गुणाश्चत्वार एव च ॥२॥
पवनाद्याः पृथिव्यन्ताः स्पर्शाद्यैश्च गुणैः सह ।
करणान्यपि चत्वारि सङ्घातश्चेतनेति च ॥३॥
ईकारस्य गुणाः प्रोक्ताः षडिति क्रमतो बुधैः ।
ऊकारान्तास्त्वकाराद्याः षड्वर्णाः षड्भ्य एव तु ॥४॥
प्रभेदेभ्यः समुत्पन्ना हकारस्य महात्मनः ।
ऋकाराद्यास्तु चत्वारो रेफोत्था ऌपराः स्मृताः ॥५॥
एकारादिविसर्गान्तं वर्णानां षट्कमुद्गतम् ।
ईकारस्य षडङ्गेभ्य इतीदं षोडशांशवत् ॥६॥
येभ्यः सञ्जज्ञिरींशेभ्यः स्वराः षोडश सर्वगाः ।
तेभ्यो वर्णान्तराः सर्वे ततो मूलमिदं विदुः ॥७॥
गतो वो बीजतामेष प्राणिष्वेव व्यवस्थितः ।
ब्रह्माण्डं ग्रस्तमेतेन व्याप्तस्थावरजङ्गमम् ॥८॥
नादः प्राणश्च जीवश्च घोषश्चेत्यादि कथ्यते ।
एष पुंस्त्रीनियमितैर्लिङ्गैश्च सनपुंसकैः ॥९॥
रेफो मायाबीजमिति त्रिधा समभिधीयते ।
शक्तिः श्रीः सन्नतिः कान्तिर्लक्ष्मीर्मेधा सरस्वती ॥१०॥
क्षान्तिः पुष्टिः स्मृतिः शान्तिरित्याद्यैः स्वार्थवाचकैः ।
नानाविकारतां प्राप्तैः स्वैः स्वैर्भावैर्विकल्पितैः ॥११॥
तामेनां कुण्डलीत्येते सन्तो हृदयगां विदुः ।
सा रौति सततं देवी भृङ्गी सङ्गीतकध्वनिः ॥१२॥
आकृतिं स्वेन भावेन पिण्डितां बहुधा विदुः ।
कुण्डली सर्वथा ज्ञेया सुषुम्नानुगतैव सा ॥१३॥
चराचरस्य जगतो बीजत्वान्मूलमेव तत् ।
मूलस्य बिन्दुयोगेन शतानन्द त्वदुद्भवः ॥१४॥
रेफान्वितेकाराकारयोगादुत्पत्तिरेतयोः ।
हङ्काराख्यो भवांस्तेन हरिरित्येष शब्द्यते ॥१५॥
हरत्वमस्य तेनैव सर्वात्मत्वं ममापि च ।
अस्य बिन्दोः समुद्भूत्या तदन्तो हं स उच्यते ॥१६॥
स हङ्कारः पुमान्प्रोक्तः स इति प्रकृतिः स्मृता ।
अजपेयं मता शक्तिस्तथा दक्षिणवामगा ॥१७॥
बिन्दुर्दक्षिणभागस्तु वामभागौ विसर्गकः ।
तेन दक्षिणवामाख्यौ भानौ पुंस्त्रीविशेषितौ ॥१८॥
बिन्दुः पुरुष इत्युक्तो विसर्गः प्रकृतिर्मता ।
पुम्प्रकृत्यात्मको हंसस्तदात्मकमिदं जगत् ॥१९॥
पुंरूपं सा विदित्वा स्वं सोऽहम्भावमुपागता ।
स एष परमात्माख्यो मनुरस्य महामनोः ॥२०॥
सकारं च हकारं च लोपयित्वा प्रयोजयेत् ।
सन्धिं वै पूर्वरूपाख्यं ततोऽसौ प्रणवो भवेत् ॥२१॥
ताराद्विभक्ताच्चरमांशतः स्यु-
र्भूतानि खादीन्यथ मध्यमांशात् ।
इनादितेजांसि च पूर्वभागा-
च्छब्दाः समस्ताः प्रभवन्ति लोके ॥२२॥
एवमेषा जगत्सूतिः सवितेत्यभिधीयते ।
यदा तदैति स्वैस्तत्त्वैश्चतुर्विंशतिधा भिदाम् ॥२३॥
तद्वर्णभिन्ना गायत्री गायकत्राणनाद्भवेत् ।
सप्तग्रहात्मिका प्रोक्ता यदेयं सप्तभेदिनी ॥२४॥
तदा स्वरेशः सूर्योऽयं कवर्गेशस्तु लोहितः ।
चवर्गप्रभवः काव्यष्टवर्गाद्बुधसम्भवः ॥२५॥
तवर्गोत्थः सुरगुरुः पवर्गोत्थः शनैश्चरः ।
यवर्गजोऽयं शीतांशुरिति सप्तगुणा त्वियम् ॥२६॥
यथा स्वरेभ्यो नान्ये स्युर्वर्णाः षड्वर्गभेदिताः ।
तथा सवित्रनुस्यूतं गृहषट्कं न संशयः ॥२७॥
इति संलीनसूर्यांशे वर्गषट्के तु षड्गुणाः ।
हृल्लेखेयं तथा यन्त्रं स्मर्यते स्मृतिकोविदैः ॥२८॥
सर्वव्याप्ता हि सा शक्तिः शश्वद्भास्कररूपिणी ।
स्वभासा क्रमते यत्र तत्रास्या स्थितिरिष्यते ॥२९॥
अस्यास्तु रजसा चैव तमसा च दिवानिशम् ।
सत्त्वावष्टब्धबिन्द्वात्मा मेरुं चरति भास्करः ॥३०॥
अस्या विकाराद्वर्णेभ्यो जाता द्वादशराशयः ।
लवादिकालोपचितैस्तैः स्याच्चक्रगतिस्त्रिधा ॥३१॥
ऋक्षराश्यादियुतया चक्रगत्या जगत्स्थितिः ।
वक्ष्यामि चक्ररूपं च प्रबन्धं राशिभिर्यथा ॥३२॥
अन्तर्बहिर्विभागेन रचयेद्राशिमण्डलम् ।
भूचक्र एष मेषादिः प्रविज्ञेयोऽथ मानुषः ॥३३॥
आद्यैर्मेषाह्वयो राशिरीकारान्तैः प्रजायते ।
ऋकारान्तैरुकाराद्यैवृषो युग्मं ततस्त्रिभिः ॥३४॥
एदैतोः कर्कटो राशिरोदौतोः सिंहसम्भवः ।
अमः शवर्गलेभ्यश्च सञ्जाता कन्यका मता ॥३५॥
षड्भ्यः कचटतेभ्यश्च पयाभ्यां च प्रजज्ञिरे ।
वणिगाद्यास्तु मीनान्ता राशयः शक्तिजृम्भणात् ॥३६॥
चतुर्भिर्यादिभिः सार्धं स्यात्क्षकारस्तु मीनगः ।
स्यातामर्धाधिके पञ्चनाडिकौ चापकर्कटौ ॥३७॥
पादाधिका मकरयुक्सिंहवृश्चिकसंज्ञकाः ।
पादोनौ कुम्भवृषभौ वाणिक्कन्ये च पञ्चके ॥३८॥
त्रिपादोनौ मीनमेषौ सङ्ख्योक्ता राशिसंश्रिता ।
चापनीरजयुक्कन्याः पीताः स्युरुभयास्त्वमी ॥३९॥
वणिङ्मकरमेषाह्वकुलीरा रक्तरोचिषः ।
चरावशिष्टाश्चत्वारः स्थिराः श्वेताः पृथङ्मताः ॥४०॥
स्युः कर्कटो वृश्चिकमीनराशी
विप्रा नृपाः सिंहकधन्वमेषाः ।
तुला सकुम्भा मिथुनं च वैश्याः
कन्या वृषोऽथो मकरश्च शूद्राः ॥४१॥
अङ्गारावजवृश्चिकौ वृषतुले शुक्रस्य युक्कन्यके
बोधै कर्कटकाह्वयो हिमरुचः सिंहस्तथा गोपतेः ।
चापाब्जावपि धैषणौ मकरकुम्भाख्यौ च मान्दौ ग्रहाः
प्रोक्ता राश्यधिपा बलौ च कलशे सोऽयं क्रमो र्दिशतः ॥४२॥
लग्नो धनभ्रातृबन्धुपुत्रशत्रुकलत्रकाः ।
मरणं धर्मकर्मायव्यया द्वादशराशयः ॥४३॥
ततस्तदूध्र्वभागस्थो भुवश्चक्रः समस्तथा ।
स तु सिंहादिको यस्मिन्पैतृकी नियता गतिः ॥४४॥
तदूध्र्वभागसंस्थः स्यात्स्वश्चक्रश्चापि तादृशः ।
स तु चापादिको दैवश्चक्रस्त्रैनाभिकस्त्वयम् ॥४५॥
धनुस्तु देवलग्नत्वात्समासाल्लग्नमुच्यते ।
वेध्या धनुर्मेषसिंहमकरर्षभकन्यकाः ॥४६॥
सकुम्भयुग्मवणिजो मीनकर्कटवृश्चिकाः ।
अयं तु राशिवेधः स्यादतो वेधस्तु भात्मकः ॥४७॥
मूलाश्विनीमघज्येष्ठारेवत्याश्लेषकास्तथा ।
याम्यपूर्वानुपूर्वाहिर्बुध्निपुष्यानुराधकाः ॥४८॥
स्वातीशतभिषाद्र्रा च श्रोणारोहिणिहस्तकाः ।
पादं पादत्रये बुध्याद्योजयेदर्धमर्धकैः ॥४९॥
चरस्थिरोभयात्मानश्चातुर्वण्र्यगुणात्मकाः ।
राशिं राश्यधिपास्त्वेवं बुध्युर्वेधविधानतः ॥५०॥
एभ्य एव तु राशिभ्यो नक्षत्राणां च सम्भवः ।
स चाप्यक्षरभेदेन सप्तविंशतिधा भवेत् ॥५१॥
आभ्यामश्वयुगेर्जाता भरणी कृत्तिका पुनः ।
लिपित्रयाद्रोहिणी च तत्परस्ताच्चतुष्टयात् ॥५२॥
एदैतोर्मृगशीर्षाद्र्रे तदन्ताभ्यां पुनर्वसू ।
अमसोः केवलो योगो रेवत्यर्थं पृथग्गतः ॥५३॥
कतस्तिष्यस्तथाश्लेषा खगयोर्घङयोर्मघाः ।
चतः पूर्वाथ छजयोरुत्तरा झञयोस्तथा ॥५४॥
हस्तश्चित्रा च टठयोः स्वाती डादक्षरादभूत् ।
विशाखास्तु ढणोद्भूतास्तथा देऽभ्योऽनुराधकाः ॥५५॥
ज्येष्ठा धकारान्मूलाख्यो नपफेभ्यो बतस्तथा ।
पूर्वाषाढा भतोऽन्या च सञ्जाता श्रवणो मतः ॥५६॥
श्रविष्ठा चापि यरयोस्तथा शतभिषग्लतः ।
वशयोः प्रोष्ठपात्संज्ञा षसहेभ्यः परा स्मृता ॥५७॥
ताभ्याममोभ्यां लार्णोऽयं यदा वै सह वत्स्यते ।
तदेन्दुसूर्ययोर्योगादमावास्या प्रतीयते ॥५८॥
कषतो भुवनं मत्तः कषयोः सङ्गमो भवेत् ।
ततः क्षकारः सञ्जातो नृसिंहस्तस्य देवता ॥५९॥
स पुनः षसहैः सार्धं परप्रोष्ठपदं गतः ।
कारस्कराख्यामलकोदुम्बरो जम्बुसंज्ञकः ॥६०॥
खदिरः कृष्णवंशौ च पिप्पलो नागरोहिणौ ।
पलाशः प्लक्षकाम्बष्ठबिल्वार्जुनविकज्र्ताः ॥६१॥
वकुलः शबरः सर्जो वञ्जुलः पनसार्ककौ ।
शमीकदम्बनिम्बाम्रौ मधूकान्ता दिनाङ्घ्रिपाः ॥६२॥
आयुष्कामः स्वकं वृक्षं छेदयेन्न कदाचन ।
सेचयेद्वर्धयेच्चापि पूजयेत्प्रणमेदपि ॥६३॥
तिथिनक्षत्रवारेषु स्वेषु मन्त्रजपो वरः ।
तस्मादेषां दिनादीनां वक्ष्यन्ते देवता अपि ॥६४॥
अश्वियमानलधाता शशिरुद्रादितिसुरेड्यसर्पाश्च
पित्रर्यमभगदिनकृत्त्वष्टारो मारुतस्तथेन्द्राग्नी ।
मित्रेन्द्रौ नित्र्र+तिर्जाले विश्वे देवा हरिस्तथा वसवः
वारुणोऽजैकपादहिर्बुध्निः पूषा च देवता भानाम् ॥६५॥
अश्वेभाजभुजङ्गसर्पसरमा मार्जारकाजा बिली
मूषा मूषिकरुद्रयानमहिषी व्याघ्रो यमारोहणम् ।
व्याघ्र्यैणी हरिणी श्ववानपरपशुः शाखामृगी स्त्री हयो
मत्र्यो गौः करिणीति साधु कथिता नक्षत्रयोन्यः क्रमात् ॥६६॥
एभ्योऽमावास्यान्ता वर्तन्ते प्रतिपदादिकास्तिथयः ।
राशिभ्योऽथ तिथीनामध्यर्धयुगं तु राशिरेकं स्यात् ॥६७॥
तेन त्रिंशत्तिथयो द्वादशधा वर्णतो भिन्नाः ।
ता एव स्युर्द्विविधाः पुनरपि पूर्वान्त्यपक्षभेदेन ॥६८॥
पक्षः पञ्चदशाहः स्यात्पूर्वः प्रतिपदादिकः शुक्लः ।
तद्वज्ज्ञेयोऽप्यपरः कृष्णः प्रतिपदादिकः प्रोक्तः ॥६९॥
संज्ञासाम्ये सत्यपि सौम्यात्तु ह्रासवृद्धितस्तिथयः ।
न समाः पक्षद्वितये त्रिंशद्भेदास्तथा हि सम्प्रोक्ताः ॥७०॥
अग्न्यश्व्युमा सविघ्ना नागा गुहसवितृमातरो दुर्गा ।
ककुभो धनपतिविष्णू यमहरचन्द्राः क्रमेण तिथ्यधिपाः ॥७१॥
राशिभ्यः सदिनेभ्यः सतिथिभ्यः शक्तिजृम्भणसमुत्थानात् ।
अक्षरभेदविकारात्करणान्यपि सप्तभेदकान्यभवन् ॥७२॥
सिंहव्याघ्रवराहाः खरगजवृषकुक्कुटाः प्रतिपदर्धात् ।
अन्त्यां तिथ्यर्धेऽर्धे तिष्ठन्त्याः कृष्णगोश्चतुर्दश्याः ॥७३॥
एवं सङ्ग्रहराशिक दिनतिथिकरणप्रभेदकाः कथिताः ।
अस्मात्पञ्चविभेदाद्विज्ञेया पञ्चवर्णनिष्पत्तिः ॥७४॥
वर्णः पीतश्वेतारुणासितश्यामकास्तथा क्वाद्याः ।
इति मूलाक्षरविकृतिं कथितमिदं वर्णविकृतिबाहुल्यम् ॥७५॥
सचराचरस्य जगतो मूलत्वान्मूलतास्य बीजस्य ॥७६॥
यां ज्ञात्वा सकलमपास्य कर्मबन्धं
तद्विष्णोः परमपदं प्रयाति लोकः ।
तामेनां त्रिजगति जन्तुजीवभूतां
हृल्लेखां जपत च नित्यमर्चयीत ॥७७॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः
कृतौ प्रपञ्चसारे चतुर्थः पटलः ॥
N/A
References : N/A
Last Updated : January 21, 2026

TOP