संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|प्रपञ्चसारतन्त्रम्| त्रिंशः पटलः प्रपञ्चसारतन्त्रम् विशेष माहिती प्रथमः पटलः द्वितीयः पटलः तृतीयः पटलः चतुर्थः पटलः पञ्चमः पटलः षष्ठः पटलः सप्तमः पटलः अष्टमः पटलः नवमः पटलः दशमः पटलः एकादशः पटलः द्वादशः पटलः त्रयोदशः पटलः चतुर्दशः पटलः पञ्चदशः पटलः षोडशः पटलः सप्तदशः पटलः अष्टादशः पटलः एकोनविंशः पटलः विंशः पटलः एकविंशः पटलः द्वाविंशः पटलः त्रयोविंशः पटलः चतुर्विंशः पटलः पञ्चविंशः पटलः षड्विंशः पटलः सप्तविंशः पटलः अष्टाविंशः पटलः एकोनत्रिंशः पटलः त्रिंशः पटलः एकत्रिंशः पटलः द्वात्रिंशः पटलः त्रयस्त्रिंशः पटलः त्रिंशः पटलः प्रपञ्चसारतन्त्रम् (Prapancasaratantra), ज्याचा अर्थ 'ब्रह्मांडाचे सार' असा आहे. Tags : prapanchasarshankaracharyaप्रपञ्चसारतन्त्रशंकराचार्य त्रिंशः पटलः Translation - भाषांतर अथाभिवक्ष्ये महितस्य मन्त्रस्यानुष्टुभः सङ्ग्रहतो विधानम् ।ऋष्यादिकैरङ्गपदैर्यथावद्दीक्षाजपार्चाहवनैः क्रमेण ॥१॥ऋषिरभिहितो वसिष्ठश्छन्दोऽनुष्टुप्च देवता रुद्रः ।त्र्यम्बकपदादिका स्यान्मनुनैव षडङ्गकॢप्तिरथ कथिता ॥२॥त्रिभिस्तु वर्णैर्हृदयं शिरश्चचतुर्भिरष्टाभिरथो शिखा च ।उक्तं नवार्णैः कवचं तथाक्षि-पञ्चार्णकं त्र्यक्षरमस्त्रमाहुः ॥३॥प्राक्प्रत्यग्यास्यसौम्ये शिरसि च वदनोरोगलांसेषु नाभौहृद्देशे पृष्ठकुक्ष्योरथ शिवगुदयोरूरुमूलान्तयोश्च ।जान्वोस्तद्दृत्तयुग्मस्तनतटयुगपाश्र्वेषु पत्पाणिनासा-शीर्षेष्वप्यूध्र्वतोऽर्णैन्र्यसतु पुनरधस्तोऽपि मन्त्री तथोध्र्वम् ॥४॥चरणाग्रसन्धिषु गुदाधारोदरहृदयकन्धरेषु पुनः ।बाह्वोः सन्ध्यग्रास्यघ्राणद्वयदृक्श्रुतिभ्रुशीर्षेषु ॥५॥वर्णान्न्यस्य शिरोभ्रूदृग्वक्त्रकगलहृदुदरगुह्यषु ।ऊर्वोर्जान्वोः पादयोः पदैश्च मनुवित्क्रमेण विन्यस्येत् ॥६॥वसिष्ठादिक्रमेणैव अङ्गन्यासं समाचरेत् ।वसिष्ठस्त्र्यम्बकश्चैव त्रिणेत्रश्च तथैव च ।अनुष्टुप्छन्दसे चेति जातियुक्तेन मन्त्रवित् ॥७॥अच्छस्वच्छारविन्दस्थितिरुभयकराज्र्स्थितं पूर्णकुम्भंद्वाभ्यां वेदाक्षमाले निजकरकमलाभ्यां घटौ नित्यपूर्णौ ।द्वाभ्यां तौ च स्रवन्तौ शिरसि शशिकलाबन्धुरे प्लावयन्तौदेहं देवो दधानः प्रदिशतु विशदाकल्पजालः श्रियं वः ॥८॥प्रासादोक्ते पीठे गव्यैर्वा दुग्धतरुकषायैर्वा ।सम्पूर्यकलशमस्मिन्महेशमावाह्य पूजयेद्भक्त्या ॥९॥अङ्गैराद्यार्काद्यैः पुनरावृतिरष्टभिर्द्वितीया स्यात् ।मन्त्रार्णशक्तिभिः स्युः पुनश्चतस्रो दिशापवङ्काद्यैः ॥१०॥अर्केन्दुधरणितोयानलेरवियदात्मसंज्ञकास्ते च ।आनुष्टुभमित्यष्टावरणं प्रोक्तं विधानवरमेवम् ॥११॥रमा राका प्रभा ज्योत्स्ना पूर्णोषा पूरणी सुधा ।विश्वा विद्या सुधा प्रह्वा सारा सन्ध्या शिवा निशा ॥१२॥आद्र्रा प्रज्ञा प्रभा मेधा कान्तिः शान्तिद्र्युतिर्मतिः ।परोमा पावनी पद्मा शान्ता मेधा जयामला ॥१३॥द्वात्रिंशदिति निर्दिष्टाः शक्तयोऽनुष्टुभः क्रमात् ।शिवानुभावतो नित्यं जगदाप्याययन्ति याः ॥१४॥इति परिपूज्य महेशं कलशजलैः समभिषेचयेच्छिष्यम् ।कनकांशुकरत्नाद्यैर्गुरुमपि परिपूज्य मनुमतः सिद्धम् ॥१५॥प्रजपेल्लक्षायत्या द्रव्यैर्जुहुयाज्जपावसाने च ।बिल्वपलाशौ खदिरो वटतिलसिद्धार्थदौग्धदुग्धानि ॥१६॥दधिदूर्वेति दशैतान्याज्यसमेतानि होमवस्तूनि ।एकैकशः सहस्रं दशभिर्हुत्वा प्रतप्र्य विप्रांश्च ॥१७॥भवति नरः सिद्धमनुर्मन्त्रेण च सर्वकर्मकर्ता स्यात् ।बिल्वैरयुतं हुत्वा महतीं लक्ष्मीमवाप्नुयाद्विप्रः ॥१८॥तावद्भिद्विजवृक्षैर्द्विजः श्रियं पुष्कलामवाप्नोति ।खदिरसमिदयुतहोमात्तेजोबलपुष्टिमाप्नुयादिष्टाम् ॥१९॥न्यग्रोधायुतहोमाद्धनधान्यसमृद्धिमेति नचिरेण ।अयुतं तिलैः प्रजुह्वन्नपमृत्योः पाप्मनो विमुक्तः स्यात् ॥२०॥सिद्धार्थायुतहोमो वैरिणमपमृत्युमपि विनाशयति ।पायसहुतेन परमां रमामथायुर्यशो लभेन्मत्र्यः ॥२१॥दुग्धहुतात्कान्तिः स्यात्परकृत्या नश्यति श्रियं लभते ।दधिदोमतोऽन्नवान्स्यात्संवननकरं च तं वदन्ति बुधाः ॥२२॥दूर्वायुतेन जुहुयाद्रोगान्निर्वास्य सर्वमपमृत्युम् ।र्गिवतधीरब्दानां विप्रवरः सर्वथा शतं जीवेत् ॥२३॥निजजन्मदिने पयोन्धसा वा शतवीर्यत्रितयैः पयोघृताक्तैः ।जुहुयाच्च शतं सविंशतिं यः स लभेदायुररोगतां चिराय ॥२४॥काष्मर्यदारुसमिधां त्रिशतं सहस्रंर्सिपःपयोन्नसहितं त्रितयं जुहोतु ।विप्रान्प्रतप्र्य च गुरून्परिपूज्य सम्य-ग्दीर्घं विमुक्तगदमायुरवाप्तुकामः ॥२५॥स्नात्वार्काभिमुखोऽम्भसि स्थित इमं मन्त्रं सहस्रं जपे-दायुष्यं प्रतिपर्व दुग्धहविषा होमो महाश्रीप्रदः ।लाजाभिर्निजवाञ्छिताय हवनात्कन्याशु सन्दीयतेस्वाद्वक्तस्तनजद्रुमैश्च हवनात्सर्वान्वशे स्थापयेत् ॥२६॥गायत्रिवर्णपरिपूर्णतनुस्तु भानु-स्त्रिष्टुब्विशिष्टमहिमा महितः कृशानुः ।आनुष्टुभाक्षरसमग्ररुचिः शशाज्रेदद्युः समुद्यतममी परिवाञ्छितं वः ॥२७॥एभिस्त्रिभिर्मनुवरैस्तु शताक्षराख्योमन्त्रोऽभिकाङ्क्षितफलाप्तिदकामधेनुः ।प्रोक्तो हिताय जगतां मुनिभिः कृपाद्र्र-चित्तैर्यथोक्तमथ सङ्ग्रहतो वदामि ॥२८॥ऋष्याद्याः पूर्वोक्तास्त्रिदशाः स्युर्हृत्त्रयोदशभिरर्णैः ।शिर एकादशभिश्च द्वाविंशद्भिस्तथा शिखाकवचम् ॥२९॥नयनं पञ्चदशार्णैः ससप्तभिर्दशभिरस्त्रमङ्गविधिः ।विन्यासं च मनूनां मन्त्रज्ञः पूर्ववत्क्रमात्कुर्यात् ॥३०॥स्मर्तव्याखिललोकर्वित सततं यज्जङ्गमस्थावरंव्याप्तं येन च यत्प्रपञ्चविहितं मुक्तिश्च यत्सिद्धितः ।यद्वा स्यात्प्रणवत्रिभेदगहनं श्रुत्या च यद्गीयतेतद्वः काङ्क्षितसिद्धयेऽस्तु परमं तेजस्त्रयोत्थं महः ॥३१॥लक्षायतो जपविधिः शताक्षरस्याथ होमविधिरुक्तः ।अयुतावधिको द्रव्यं दौग्धान्नं र्सिपषा समायुक्तम् ॥३२॥सौरे पीठे पूज्या पूर्वोक्ताङ्गैः समावृतिः प्रथमा ।प्रह्लादिन्याद्याभिस्तिस्रः प्रोक्ताः क्रमात्समावृतयः ॥३३॥पञ्चम्यावृतिरुक्ता त्रैष्टुभवज्जागतादिभिस्तदनु ।स्याच्चरमादिभिरावृतिचतुष्कमुक्तं दशम्यथेन्द्राद्यैः ॥३४॥इति शताक्षरमन्त्रसमर्चना निगदितेह दशवरणा बुधैः ।प्रजपतामभिकाङ्क्षितसिद्धये निखिलसंसृतिमोक्षपदाप्तये ॥३५॥दुग्धाक्तैर्जुहुयात्सहस्रममृताकाण्डैस्तु दीर्घायुषेदूर्वाणां त्रितयैस्तथा घृतपयःसिक्तैर्घृतेनैव वा ।लक्ष्म्यै कोकनदैश्च शोणरुचिभिस्त्रिस्वादुयुक्तैस्तथारक्तैरुत्पलकैस्तदह्नि विकचैर्बैल्वप्रसूनैरपि ॥३६॥अनुदिनमघशान्त्यै संयतात्मा सहस्रंप्रतिजुहुतु तिलैर्वा मन्त्रविन्मासमेकम् ।अपि दिनकरसङ्ख्यं भोएजयीत द्विजाती-न्विविधरसविशिष्टैर्भक्तितो भोज्यजातैः ॥३७॥शतं शतं प्रातरतन्द्रितोद्यतोजपेद् द्विजो मन्त्रमिमं शताक्षरम् ।अरोगजुष्टं बहुलेन्दिरायुतंशतं स जीवेच्छरदां सुखेन सः ॥३८॥सर्वान्कामानवाप्नोति मन्त्रमेनं जपेत्तु यः ।सर्वं साधयते मन्त्री अस्त्रशस्त्रादिलक्षणम्।३९॥प्रणवव्याहृत्याद्या व्याहृतितारान्तिका च मन्त्री च ।जप्त्वा शताक्षरी स्यादिहपरलोकप्रसिद्धये दिनशः ॥४०॥मनुममुमघशान्त्यै पत्पदाद्यं प्रजप्या-द्गदगणरहितायाप्यायुषेऽनुष्टुबाद्यम् ।विमलमतिररातिध्वंसने त्रिष्टुबाद्यंदिनमनु दिनवक्त्रे वत्सरं संयतात्मा ॥४१॥शताक्षरमनोरयं क्रम उदीरितः सङ्ग्रहा-द्भजेदमुमतन्द्रिते दिनश एव मन्त्री रहः ।अभीष्टफलसिद्धये सुयशसे च दीर्घायुषे-ऽप्यशेषजनरञ्जनाय चिरमिन्दिरावाप्तये ॥४२॥संवादसूक्तविहितं विधानमथ साङ्गदेवतारूपम् ।वक्ष्यामि साधकानामनुदिनमभिवाञ्छितप्रदानकरम् ॥४३॥ऋषिरपि संवननोऽस्यानुष्टुप्च त्रिष्टुबुच्यते च्छन्दः ।संवादाद्यः प्रोक्तः संज्ञानाद्यश्च देवता वह्निः ॥४४॥ब्रह्माख्यो हृदयमनुः शिरश्च विष्णूरुद्रः स्यादिह तु शिखेश्वरश्च वर्म ।नेत्रे द्वे भवति सदाशिवस्तथास्त्रंसर्वात्मेत्यथ कथितं षडङ्गमेवम् ॥४५॥धवलनलिनराजच्चन्द्रमध्ये निषण्णंकरविलसितपाशं साज्रुशं साभयं च ।सवरदममलेन्दुक्षीरगौरं त्रिणेत्रंप्रणमत सुरवक्त्रं मुङ्क्षु संवादयन्त्रम् ॥४६॥सहस्रकाणां दशभिश्चतुर्भिर-प्यथो सहस्रैश्च चतुर्भिरन्वितम् ।जपेन्मनुं सम्यगथाभिदीक्षितःपयोन्धसान्ते जुहुयाद्दशांशकम् ॥४७॥यजेत्पुराङ्गैश्च तदर्चनाविधौपुर्निद्वतीयावरणेऽग्निमूर्तिभिः ।अनन्तरं च त्रिदिवेश्वरादिभिःक्रमेण वह्निं विधिनेति पूजयेत् ॥४८॥संवादसूक्ते विधिनेत्यनेनसंसाधिते कर्म करोतु मन्त्री ।चतुःशतं चापि दशोत्तरेणचतुश्चतुष्कं प्रजपेद्धुनेद्वा ॥४९॥पायसेन मधुरत्रयभाजा विप्रराजतरुजैः कुसुमैर्वा ।र्सिपषा स्तनजवृक्षसमिद्भिर्वाञ्छितार्थविधये प्रजुहोतु ॥५०॥जुहुयात्कलाचतुष्कैः प्रत्यृचमायोज्य कादिवर्गचतुष्कैः ।तद्वच्च पयशलाद्यैर्वर्गैः संयोज्य पूर्ववन्मतिमान् ॥५१॥तद्वदृचं प्रतियोज्य त्रिष्टुप्पादांश्च पूर्वसङ्ख्येन ।जुहुयात्र्सिपःसिक्तं पायसमचिरेण कार्यसमवाप्त्यै ॥५२॥प्रतिपादमथक्र्पादं प्रतियोज्य जुहोतु पूर्ववन्मतिमान् ।तेनाभीष्टावाप्तिर्नचिरेण नरस्य हस्तगा भवति ॥५३॥अक्षरपादात्त्रिष्टुब्युक्तैः सूक्तैस्तु पूर्वसङ्ख्येन ।जुहुयात्समाजरूपं संवादयितुं प्रतर्पयेद्वाग्भिः ॥५४॥उद्दिश्य यद्यदिह मन्त्रितमो जुहोतिसूक्तैरमा निगदितैस्त्रिविधैश्च मन्त्रैः ।व्यस्तैर्यथाविभवतो विधिवत्समस्तै-स्तत्तस्य सिध्यति समग्रमयत्नमेव ॥५५॥ऋग्वारुणी ध्रुवा स्वाद्या या सा त्रिष्टुब्निगद्यते ।ऋषिर्वसिष्ठस्त्रिष्टुप्च च्छन्दो वारीशदेवता ॥५६॥अष्टभिः सप्तभिः षड्भिः पुनस्तावद्भिरक्षरैः ।षडङ्गानि विधेयानि तन्मन्त्रसमुदीरितैः ॥५७॥अङ्गुल्यग्रससन्धिपायुशिवसंज्ञाधारनाभिष्वथोकुक्षौ पृष्ठहृदोरुरोजगलदोःसन्ध्यग्रवक्त्रेषु च ।गण्डघ्राणविलोचनश्रवणयुग्भ्रूमध्यमध्येषु केसर्वाङ्गेषु तथा न्यसेद्विशदधीर्वर्णैः समर्थैः क्रमात् ॥५८॥अच्छांशुकाभरणमाल्यविलेपनाढ्यःपाशाज्रुशाभयवरोद्यतदोः सरोजः ।स्वच्छारविन्दवसतिः सुसितः प्रसन्नोभूयाद्विभूतिविधये वरुणश्चिरं वः ॥५९॥अङ्गैरष्टभिरहिपैर्दिशाधिपैः समभिपूज्य वारीशम् ।कलशैः पुनरभिषिञ्चेत्परमगुरुर्मन्त्रजापिनं शिष्यम् ॥६०॥वसुभिः प्रसाद्य देशिकमथ शिष्यो मनुमिमं जपेल्लक्षम् ।जुहुयाच्च दुग्धपक्वैरन्नैरयुतं घृताप्लुतैर्मतिमान् ॥६१॥ऋगियमृणमोचनी स्याज्जपैर्हुतैस्तर्पणैश्च मन्त्रविदः ।सम्प्राप्तदुर्गतेरपि सद्यो हृद्यां च संवहेल्लक्ष्मीम् ॥६२॥इक्षोः सितैश्च शकलैर्घृतसंसिक्तैश्चतुर्दिनं जुहुयात् ।सकलोपद्रवशान्त्यै तथर्णमुक्त्यै च सम्पदे सुचिरम् ॥६३॥वैतससमिदयुतहुताद्वृष्टिमकालेऽपि वितनुते वरुणः ।गव्यक्षीरसमेतात्त्रिदिनकृताद्दिनमुखेषु मुदितमनाः ॥६४॥शतभिषजि समुदितेऽर्के चतुःशतं पायसं हुनेत्सघृतम् ।ऋणमोचनाय लक्ष्म्यै जनसंवननाय शुक्रवारे वा ॥६५॥पाशाबद्धं वैरिणमज्रुशसम्प्रोतमम्बुधेः पारे ।ध्यायन्परे क्षिपन्तं वरुणं जुहुयाच्च वा तथा प्रजपेत् ॥६६॥पाशनिबद्धं वैरिणमसिना च्छित्वाशु नाशयन्तममुम् ।ध्यायन्वेतससमिधा गोमूत्रयुजा हुनेत्तदपहत्यै ॥६७॥दौग्धान्नैर्भृगुवारे घृतसंसिक्तैः कृतश्च हवनविधिः ।ऋणमोक्षदश्च विविधोपद्रवशमकृद्रमाकरः प्रोक्तः ॥६८॥पश्चिमसन्ध्यासमये पश्चिमवदनोऽनलं समाराध्य ।ऋचमेनामभिजप्याच्चतुःशतं सकलदुःखनाशाय ॥६९॥शालीघृतसंसिक्ताः सरिदन्तरतो जुहोतु परसेनाम् ।संस्तम्भयितुं त्रिदिनं सुमना मन्त्री चतुःशतावृत्त्या ॥७०॥प्रत्यङ्मुखोऽथ मन्त्री प्रतर्पयेद्वा जलैः सुशुद्धतरैः ।यः सोऽप्युपद्रवाणां रुन्धेरन्निवहं श्रियं समृच्छति च ॥७१॥बहुना किमनेन मन्त्रिमुख्यो मनुनाशु प्रतिसाधयेदभीष्टम् ।हवनक्रिययाथ तर्पणैर्वा सजपैः पाशभृतो महामहिम्नः ॥७२॥अथ लवणमनुं वदामि साङ्गंसजपं सप्रतिपत्तिकं सहोमम् ।विधिवद्विहितेन येन सर्वांजगतीमात्मवशे करोति मन्त्री ॥७३॥लवणाम्भसि चेत्याद्या द्वितीया लवणे इति ।देहेति च तृतीया स्यात्सदग्ध्वेति चतुथ्र्यपि ॥७४॥ऋक्पञ्चमी तु या ते स्याद्यथा प्रोक्तमथर्वणि ।ऋग्भिराभिस्तु पञ्चाङ्गं पञ्चभिर्वा समीरितम् ॥७५॥चिट्यक्षरैः षडङ्गं वा प्रणवाद्यैर्निगद्यते ।पञ्चभिश्च त्रिभिरपि पञ्चभिः पञ्च चाक्षरैः ॥७६॥सपञ्चभिर्युगार्णेण जातियुक्तैः समाहितः ।अङ्गिराः स्यादृषिश्छन्दोऽनुष्टुबत्रैव देवता ।अग्निरात्री तथा दुर्गा भद्रकाली समीरिता ॥७७॥अरुणोऽरुणपज्र्जसन्निहितः स्रुवशक्तिवराभययुक्तकरः ।अमितार्चिरजात्तगतिर्विलसन्नयनत्रितयोऽवतु वो दहनः ॥७८॥नीलवरांशुककेशकलापा नीलतनुर्निबिडस्तनभारा ।साज्रुशपाशसशूलकपाला यामवती भवतोऽवतु नित्यम् ॥७९॥करकमलविराजच्चक्रशङ्खातिशूलापरिलसितकिरीटा पातितानेकदैत्या ।त्रिणयनलसिताङ्गी तिग्मरश्मिप्रकाशापवनसखनिभाङ्गी पातु कात्यायनी वः ॥८०॥सुरौद्रसितदंष्ट्रिका त्रिणयनोध्र्वकेशोल्बणाकपालपरशूल्लसड्डमरुका त्रिशूलाकुला ।घनाघननिभा रणद्रुचिरकिज्र्णिईमालिकाभवद्विभवसिद्धये भवतु भद्रकाली चिरम् ॥८१॥खेटासिमुसलतोमरकपालशक्तीः सपाशसृणि दधती ।दंष्ट्रोग्रा सिंहस्था रात्रिकालिका ध्येया ॥८२॥अयुतं नियतो मत्रमृक्पञ्चकसमन्वितम् ।प्रजपेत्त्रिसहस्रं वा सम्यगेनं समाहितः ॥८३॥दशांशेन हुनेत्सिद्ध्यै हविषा घृतसंयुजा ।एवं कृते प्रयोगार्हो मन्त्री भूयान्न चान्यथा ॥८४॥वह्निरात्री वरे स्यातां वश्याकर्षणकर्मणोः ।दुर्गाकाल्यौ तथा देव्यौ शस्ते मारणकर्मणि ॥८५॥आरभ्य कर्मकृन्मन्त्री तृतीयां कृष्णपक्षजाम् ।सन्दीक्षितो भवेत्पूते मन्दिरे मन्त्रजापवान् ॥८६॥निखन्यात्तत्र कुण्डं च दोर्मात्रं त्र्यश्रमेखलम् ।चतुष्कं सुन्दराकारं पुत्तलीनां च कारयेत् ॥८७॥एतां साध्यक्र्षवृक्षेण शालिपिष्टेन चापराम् ।चक्रीकरमृदा चान्यां मधूच्छिष्टेन चेतराम् ॥८८॥तासु हृद्देशलिखितसाध्याख्यासु समाहितः ।सम्यक्संस्थापयेत्प्राणान्साध्यादानीय साधकः ॥८९॥उक्तानां दारवीं कुण्डे खनेन्मन्त्राभिमन्त्रिताम् ।विष्टरां विष्टरस्याधः पादस्थाने च मृन्मयीम् ॥९०॥लम्बयेदम्बरे सिद्धमयीमूध्र्वमधोमुखीम् ।पुनः कृष्णाष्टमीरात्रौ पूर्वयामे गते सति ॥९१॥रक्तमाल्याम्बरो मन्त्री कृतरक्तानुलेपनः ।सम्यक्कृतलिपिन्यासप्राणायामादिकः शुचिः ॥९२॥कुडुवं पोतलवणं सुश्लक्ष्णं परिचूर्णितम् ।दधिक्षौद्रघृतक्षीरैः प्रोक्षयित्वा सुशोधितम् ॥९३॥आलोड्य गुडमध्वाज्यैर्विस्पष्टावयवामथ ।तेन पुत्तलिकां मन्त्री चार्वङ्गीं कारयेत्सुधीः ॥९४॥तस्यां च स्थापयेत्प्राणान्गुर्वादेशविधानतः ।अष्टोध्र्वशतसङ्ख्यं वा तथाष्टोध्र्वसहस्रकम् ॥९५॥ऋक्पञ्चकं पञ्चविंशत्सङ्ख्यं प्रतिकृतिं स्पृशन् ।जपित्वाङ्गीनि विन्यस्येत्स्वाङ्गप्रतिकृतावपि ॥९६॥सतारैश्चिटिमन्त्रार्णैश्चतुर्विंशतिसङ्ख्यकैः ।शिरोललाटदृक्कर्णनासास्यचिबुकेष्वपि ॥९७॥सकण्ठहृदयोरोजकुक्षिनाभिकटीषु च ।मेढ्रपायूरुजान्वाख्यजङ्घाङ्घ्रिषु च विन्यसेत् ॥९८॥अधो गुह्यादभेदः स्यादूध्र्वं भेदेऽन्विते सति ।आत्मन्येवं प्रविन्यस्य पुनः प्रतिकृतौ न्यसेत् ॥९९॥अङ्गुष्ठसन्धिप्रदजङ्घाजानूरुपायुषु ।सलिङ्गनाभिजठरहृदयेषु स्तनद्वये ॥१००॥कन्धराचिबुकास्येषु घ्राणदृक्कर्णयुग्मके ।ललाटशिरसोन्र्यस्येत्प्रतिमायां च संहरेत् ॥१०१॥उपलिप्याथ कुण्डं तद्बहिर्गोमयवारिणा ।साध्यसम्मुख आसीन आदध्याद्धव्यवाहनम् ॥१०२॥प्रज्वाल्य साध्योडुतरुकाष्टैरभ्यच्र्य दीप्तिमान् ।राजीकुशीतपुष्पाद्भिश्चषके रजतादिके ॥१०३॥देवतां प्रतिपाद्याघ्र्यं दत्त्वा कार्यार्थसिद्धये ।उपतिष्ठेद्धुतस्यादावन्ते मन्त्रैरितीरितैः।१०४॥त्वमाननममित्रघ्न निशायां हव्यवाहन ।हविषा मन्त्रदत्तेन तृप्तो भव मया सह ॥१०५॥जातवेदो महादेव तप्तजाम्बूनदप्रभ ।स्वाहपते विश्वमक्ष लवणं दह शत्रुहन् ॥१०६॥ईशे ईश्वरि शर्वाणि ग्रस्तं मुक्तं त्वया जगत् ।महादेवि नमस्तुभ्यं वरदे कामदा भव ॥१०७॥तमोमयि महादेवि महादेवस्य सुव्रते ।स्त्रिया मे पुरुषं गत्वा वशमानय देहि मे ॥१०८॥दुर्गे दुर्गादिरहिते दुर्गसंशोधनार्गले ।चक्रशङ्खधरे देवि दुष्टशत्रुभयङ्करि ॥१०९॥नमस्ते दह शत्रुं मे वशमानय चण्डिके ।शाकम्भरि महादेवि शरणं मे भवानघे ॥११०॥भद्रकालि भवाभीष्टे भद्रसिद्धिप्रदायिनि ।सपत्नान्मे दह दह पच शोषय तापय ॥१११॥शूलादिशक्तिवङ्काद्यैरुत्कृत्योत्कृत्य मारय ।महादेवि महाकालि रक्षात्मानं कुमारिके ॥११२॥पुनः प्रतिकृतेरङ्गसप्तकं निशितायसा ।दक्षपादादिकं छित्वा पञ्चर्चं प्रजपेन्मनुम् ॥११३॥साध्यं संस्मृत्य शितधीर्जुहुयात्सप्तसङ्ख्यया ।दक्षिणं चरणं पूर्वं ततो दक्षार्धकं पुनः ॥११४॥दक्षहस्तं तृतीयं स्याद्गलादूध्र्वं चतुर्थकम् ।पञ्चमं वामहस्तं स्यात्षष्ठं वामार्धमेव च ॥११५॥सप्तमं वामपादं स्यादन्यापि स्याद्धुतक्रिया ।सप्त सप्त विभागो वा क्रमादङ्गेषु सप्तसु ॥११६।एकादशांशभिन्नैर्वा तदङ्गैः सप्तभिर्हुनेत् ।होमोऽन्यथा वा पूर्वं तु दक्षिणश्चरणो भवेत् ॥११७॥द्वितीयो दक्षिणकरस्तृतीयः शिर उच्यते ।वामबाहुश्चतुर्थस्तु मध्यादूध्र्वं तु पञ्चकम् ॥११८॥अधोभागस्तु षष्ठः स्याद्वामभागस्तु सप्तकः ।हुत्वैवं पूर्वसम्प्रोक्तैरुपस्थापकमन्त्रकैः ॥११९॥अर्चयित्वा दण्डदीर्घं प्रणमेद्धव्यवाहनम् ।सकर्षस्वर्णयुक्ताङ्गां शोणां दद्यात्सतर्णकाम् ॥१२०॥दक्षिणां सप्तकर्षां तु दद्यान्मारणकर्मणि ।अंशुकं रुचकं धान्यं दत्त्वा सम्प्रीणयेद्गुरुम् ॥१२१॥एवं कृतेन मन्त्रीष्टं लभते होमकर्मणा ।अथ वा मारणाकाङ्क्षी साध्यवामाङ्घ्रिपांसुभिः ॥१२२॥सनिम्बतिलसिद्धार्थव्रणकृत्तैलसंयुतैः ।हिङ्गुत्रिकटुकोपेतैर्महिषीमूत्रपेषितैः ॥१२३॥वराहपारावतयोः पुरीषेण समन्वितैः ।एतैश्च सम्मिश्रयतु लोणं पूर्वोक्तसङ्ख्यकम् ॥१२४॥पूर्ववत्पुत्तलीं तेन लोणचूर्णेन कारयेत् ।प्राणान्प्रतिष्ठापयेच्च तत्र पूर्वोक्तसङ्ख्यकम् ॥१२५॥पूर्वोक्ताभिः पुत्तलीभिः कुण्डे दक्षिणदिङ्मुखे ।दुर्गां वा भद्रकालीं वा प्रतिपद्य यथेरिताम् ॥१२६॥उपस्थिते त्वर्धरात्रे सव्यपाणिस्थशस्त्रकः ।वामपादं समारभ्य जुहुयात्पूर्वसङ्ख्यया ॥१२७॥समापयेद्दक्षपादं विकारेणायसो वशी ।त्रिसप्ताहप्रयोगेण मारयेद्रिपुमात्मनः ॥१२८॥तस्यां रात्र्यामुपोष्याथ परेऽहनि च साधकः ।प्राणायामादिभिरपि गायत्रीजपहोमकैः ॥१२९॥विमुक्तपापो भूत्वा तु स पुर्निवहरेत्सुखम् ।यां कल्पयन्त्यपामार्गराजीघृतहवींषि च ॥१३०॥पृथगष्टोत्तरशतावृत्त्या हुत्वा बलिं हरेत् ।यो मे पुरस्तादित्यादिदशमन्त्रैर्बलिं हरेत् ॥१३१॥इति लवणमनोर्विधानमेवंप्रणिगदितं विधिवत्प्रयोगभिन्नम् ।विधिममुमथ साधु सम्प्रयुञ्ज्या-द्व्रजति फलं निजवाञ्छितं चिराय ॥१३२॥अथ वा लवणैः परागभूतै-र्मधुराक्तैः पुनरष्टमीनिशाद्यम् ।जुहुयात्तु चतुर्दशीनिशान्तंकुडुबोन्मानितमेभिरेव मन्त्रैः ॥१३३॥नारीनरान्वा नगरं नृपान्वाग्रामं जनान्वा मनसोऽनुकूलान् ।वशीकरोत्येव हुतक्रियेयंचिराय नैवात्र विचारणीयम् ॥१३४॥वस्तुनोक्तेन क्रियतां साङ्गोपाङ्गेन पुत्तली ।तस्यां तु साध्यलिङ्गायां प्राणाद्यर्पणमाचरेत् ॥१३५॥निक्षिप्य हृदये किञ्चित्कीटान्तां संस्पृशन्पुनः ।प्राणार्पणेन यत्कार्यं क्षिप्रं कुयाद्विचक्षणः ॥१३६॥अथास्य हृदये स्मृत्वा वर्तुलं वायुमण्डलम् ।कृष्णषड्बिन्दुगं वायुं वायुगर्भं विचिन्तयेत् ॥१३७॥तत्र भूतास्तु तन्मात्राशब्दाद्यं श्रवणादिकम् ।धातून्मनश्च बुद्धिं च सङ्क्षिपेदप्यहङ्क्रियाम् ॥१३८॥तत्सर्वं तेन चण्डेन समीरेण समीरितम् ।अवामनासारन्धेरण स्वसमीपमुपानयेत् ॥१३९॥प्रवेशयेच्च पुत्तल्यां पुनस्तेनैव वत्र्मना ।प्राणप्रतिष्ठामन्त्रेण लब्धप्राणादिकां तथा ॥१४०॥याद्यष्टकान्भ्रमरवद्धृदयाम्बुजस्थांतत्केसरार्प्तिपरागपरिष्कृताङ्गान् ।सञ्चिन्त्य साध्यहृदयेऽपि तथैव भूयःसाध्याम्बुजस्थानलिपिस्वकीयैः ॥१४१॥हृत्पद्ममध्यस्थिततन्तुजालैरेकैकमेकोत्पतितैः क्रमेण ।निश्वासमात्रेण सुखं प्रविष्टास्तत्प्राणमार्गेण हरेद्विरेफान् ॥१४२॥वायव्याग्नेयैन्द्रवारीण्महेशक्रव्यात्सोमप्रेतनाथाश्रितेषु ।किञ्जल्केषु प्राणभूतद्विरेफांस्तत्सम्बन्धांस्तन्तुभिर्बिन्दुभूतैः ॥१४३॥अवामनासामार्गेणैवाकृष्याकृष्य पुत्तलीम् ।प्रवेशयेत्सुधीः प्राणान्प्राणाद्यर्पणयोगतः ॥१४४॥इति श्रीमत्परमहंसपरिव्राजकाचार्यस्यश्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतःकृतौ प्रपञ्चसारे त्रिंशः पटलः ॥ N/A References : N/A Last Updated : January 21, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP