संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|प्रपञ्चसारतन्त्रम्| एकत्रिंशः पटलः प्रपञ्चसारतन्त्रम् विशेष माहिती प्रथमः पटलः द्वितीयः पटलः तृतीयः पटलः चतुर्थः पटलः पञ्चमः पटलः षष्ठः पटलः सप्तमः पटलः अष्टमः पटलः नवमः पटलः दशमः पटलः एकादशः पटलः द्वादशः पटलः त्रयोदशः पटलः चतुर्दशः पटलः पञ्चदशः पटलः षोडशः पटलः सप्तदशः पटलः अष्टादशः पटलः एकोनविंशः पटलः विंशः पटलः एकविंशः पटलः द्वाविंशः पटलः त्रयोविंशः पटलः चतुर्विंशः पटलः पञ्चविंशः पटलः षड्विंशः पटलः सप्तविंशः पटलः अष्टाविंशः पटलः एकोनत्रिंशः पटलः त्रिंशः पटलः एकत्रिंशः पटलः द्वात्रिंशः पटलः त्रयस्त्रिंशः पटलः एकत्रिंशः पटलः प्रपञ्चसारतन्त्रम् (Prapancasaratantra), ज्याचा अर्थ 'ब्रह्मांडाचे सार' असा आहे. Tags : prapanchasarshankaracharyaप्रपञ्चसारतन्त्रशंकराचार्य एकत्रिंशः पटलः Translation - भाषांतर प्राणप्रतिष्ठानमनोर्विधानं प्रवक्ष्यते सम्प्रति सर्वसिद्ध्यै ।यस्मादृतेऽमी कथिताः प्रयोगाः व्यर्था भवेयुर्गतजीवकल्पाः ॥१॥प्रोक्त्वा पूर्वममुष्यशब्दमथ च प्राणा इह प्राणका-स्तद्वज्जीव इह स्थितेति च तथा सर्वेन्द्रियाणीति च ।भूयो वाङ्मनसावुदीर्य तदनु प्राणा इहायान्त्वितिस्वाहान्तं प्रजपेन्मनुं निशितधीः प्राणान्प्रतिष्ठापयेत् ॥२॥सृष्टिः सा जगतामनादिनिधना विश्वस्य चेष्टाकरीप्राणाख्या प्रकृतिः क्रियामयवपुर्देवी परा देवता ।प्रत्येकं कादिवर्गैः प्रतिगतलिपिवैरीबन्दुयुक्तैर्धराद्यैःशब्दाद्यैः श्रोत्रमुख्यैर्वदनकरमुखैस्तत्क्रियाभिः क्रमेण ।बुद्ध्याद्यैश्चात्मनेऽन्तैरुपरि च विलसज्जातिभिः षड्भिरेवंकुर्यादङ्गानि सम्यग्वरविशदमतिर्विश्वरूपत्वसिद्ध्यै ॥३॥नाभेर्देशादापदं पाशबीजं हृद्देशादानाभिदेशं च शक्तिम् ।आहृद्देशं मस्तकादज्रुशाख्यं न्यस्त्वा यादीन्धातुभिन्र्यस्य सप्त ॥४॥प्राणे जीवे चैव हंसश्च यार्णन्यस्येन्मूलं व्यापकं मस्तकादिम् ।एवं न्यस्य प्राणशक्तिस्वरूपं विद्यां ध्यायेदात्मरूपां च देवीम् ॥५॥रक्ताम्बोधिस्थपोतोल्लसदरुणसरोजाधिरूढा कराब्जैःपाशं कोदण्डमिक्षूद्भवमथ गुणमप्यज्रुशं पञ्चबाणान् ।बिभ्राणा स्रक्कपालं त्रिणयनलसिता पीनवक्षोरुहाढ्यादेवी बालार्कवर्णा भवतु सुखकरी प्राणशक्तिः स्वरूपा ॥६॥ध्यात्वा देवीं प्रजपेदेवं लक्षं मनुं समाहितधीः ।आज्येनान्ते जुहुयाच्चरणा वा तद्दशांशतो मन्त्री ॥७॥शाक्ते पीठे देवीं षट्कोणस्थैः प्रजेशहरिरुद्रैः ।वाणीलक्ष्मीगिरिजासहितैरङ्गैश्च मातृलोकेशैः ॥८॥प्रयजेच्चतुर्भिरेवं परिवारैर्नित्यमेव निशितमनाः ।एवं संसिद्धमनुर्वश्याद्यान्यारभेत कर्माणि ॥९॥पाशाज्रुशान्तरितशक्तिमनोः परस्ता-दुच्चार्य यादिवसुवर्णगणं सहंसम् ।पश्चादमुष्यपदमुच्चरतु प्रयोग-मन्त्रोऽयमित्थमुदितो ग्रहसङ्ख्यया वा ॥१०॥मृता वैवस्वता चैव जीवहा प्राणहा तथा ।आकृष्या ग्रथना चैव उन्मादा विष्फुलिङ्गिनी ।क्षेत्रज्ञा प्रतिहारी च प्राणमूत्र्यः सयादिकाः ॥११॥बद्ध्वा साध्या पाशबीजेन शक्त्यागृह्णनाकृष्याज्रुशेनाथ यादीन् ।दूतीश्चोक्त्वा साध्यनाम्नाथ धातू-नेवं मन्त्रो यावदात्मा सवीर्यः ॥१२॥सुप्ताशेषजने निशीथसमये साध्ये स्वपित्यादरा-दारुह्य स्ववशं विधाय हृदये साध्याकृतेः कीलकम् ।बद्ध्वा तं च निपीडमेव सहसा कालस्य यष्ट्या शिर-स्याघातात्क्षुभिताखिलेन्द्रियगणं साध्यं स्मरेत्साधकः ॥१३॥वायव्याग्नेयैन्द्रवारीण्महेशक्रव्यात्सोमप्रेतराण्मध्यकेषु ।स्थानेष्वेतेष्वष्ट यादीन्सहंसान्भृङ्गान्ध्यायेद्वीजबिन्दुप्रबद्धान् ॥१४॥स्वीये चैवं संस्मरेद्धृत्सरोजेभृङ्गीरूपान्निर्गतान्श्वासमार्गैः ।साध्याब्जस्थांश्चञ्चरीकान्गृहीत्वास्वीयं स्थानं पूर्ववत्सम्प्रविष्टान् ॥१५॥बीजानि रक्तानि तु वश्यकर्मण्यम्भोधराभान्यभिचारकाले ।धूम्राणि विद्वेषविधौ समोहे पीतानि संस्तम्भविधौ स्मरेच्च ॥१६॥अथ वा साध्यप्राणान्मण्डूकाकारधारिणो ध्यायेत् ।स्वीयान्भुजगाकारानमिचारादौ नृशंसकर्मविधौ ॥१७॥प्राणप्रतिष्ठाकर्मैवं विधायैकादशापरम् ।पुत्तल्यादौ खचित्ते वा तांस्तु संस्तम्भयेद्भुवा ॥१८॥आकृष्टानां साध्यदेहादसूनांपुत्तल्यादावप्ययं स्यात्प्रकारः ।किं तु स्वीये हृत्सरोजे प्रवेशोवश्याकृष्ट्योरेव नात्राभिचारे ॥१९॥पाशाद्यत्रिकयुक्तमूलहृदयभ्रूमध्यसूत्रायितासाग्निः साध्यललाटरन्ध्रवगतोऽप्यामूलमाजग्मुषि ।योन्यां त्वात्महृदब्जमेवमनिशं भ्राम्यत्यसौ चिन्त्य तंशक्तिर्जन्मशतान्यपीह वशयेत्साध्यं समाकर्षयेत् ॥२०॥प्राणप्रतिष्ठाविधिरेवमुक्तः साङ्गः सयोगो विनियोगयुक्तः ।अस्मिन्प्रवीणो गिरिकाननादीन्प्रचालयेत्प्राणवतो विधाय ॥२१॥इति श्रीमत्परमहंसपरिव्राजकाचार्यस्यश्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतःकृतौ प्रपञ्चसारे एकत्रिंशः पटलः ॥ N/A References : N/A Last Updated : January 21, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP