संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|प्रपञ्चसारतन्त्रम्| पञ्चमः पटलः प्रपञ्चसारतन्त्रम् विशेष माहिती प्रथमः पटलः द्वितीयः पटलः तृतीयः पटलः चतुर्थः पटलः पञ्चमः पटलः षष्ठः पटलः सप्तमः पटलः अष्टमः पटलः नवमः पटलः दशमः पटलः एकादशः पटलः द्वादशः पटलः त्रयोदशः पटलः चतुर्दशः पटलः पञ्चदशः पटलः षोडशः पटलः सप्तदशः पटलः अष्टादशः पटलः एकोनविंशः पटलः विंशः पटलः एकविंशः पटलः द्वाविंशः पटलः त्रयोविंशः पटलः चतुर्विंशः पटलः पञ्चविंशः पटलः षड्विंशः पटलः सप्तविंशः पटलः अष्टाविंशः पटलः एकोनत्रिंशः पटलः त्रिंशः पटलः एकत्रिंशः पटलः द्वात्रिंशः पटलः त्रयस्त्रिंशः पटलः पञ्चमः पटलः प्रपञ्चसारतन्त्रम् (Prapancasaratantra), ज्याचा अर्थ 'ब्रह्मांडाचे सार' असा आहे. Tags : prapanchasarshankaracharyaप्रपञ्चसारतन्त्रशंकराचार्य पञ्चमः पटलः Translation - भाषांतर अथ प्रवक्ष्ये विधिवन्मनूनां दीक्षाविधानं जगतो हिताय ।येनोपलब्धेन समाप्नुवन्ति सिद्धिं परत्रेह च साधकेशाः ॥१॥दद्याच्च दिव्यभावं क्षिणुयाद्दुरितान्यतो भवेद्दीक्षा ।मननात्तत्त्वपदस्य त्रायत इति मन्त्र उच्यते भयतः ॥२॥दैवादिकस्याप्यथ मानुषादेः पैत्रादिकस्याप्यथ वत्सरस्य ।आदिं समारभ्य समग्रसम्पद्यतेन दीक्षाविधिमारभेत ॥३॥शुभकर्मणि दीक्षायां मण्टपकरणे गृहादिविधिषु तथा ।विहितो वास्तुबलिः स्याद्रक्षाविघ्नोपशान्तिसम्पद्भ्यः ॥४॥अभवत्पुराथ किलवास्तुपुमानिति विश्रुतो जगदुपद्रवकृत् ।चतुरश्रसंस्थितिरसौ निहितो निहतः क्षितौ सुरगणैर्दितिजः ॥५॥तद्देहसंस्थिता ये देवास्ते विश्रुतास्त्रिपञ्चाशत् ।मण्डलमध्याद्यच्र्या यथा तथोक्तक्रमेण कथ्यन्ते ॥६॥कृत्वावनिं समतलां चतुरश्रसंस्था-मष्टाष्टकोद्यतपदां च सकोणसूत्राम् ।तस्या चतुष्पदसमन्वितमध्यकोष्ठेब्रह्मातु साधकवरेण समर्चनीयः ॥७॥प्राग्याम्यवारुणोदग्दिक्कोष्ठचतुष्पदेषु समभियजेत् ।आर्याख्यं सविवस्वत्संज्ञं मित्रं महीधरं क्रमशः ॥८॥कोणद्वयार्धकोष्ठेष्वच्र्याः सावित्रसवितृशक्राह्वाः ।सेन्द्रजयरुद्रतज्जयसापश्च तथापवत्सकोऽग्न्याद्याः ॥९॥अश्रेः पाश्र्वोत्थपदद्वन्द्वे शर्वं गुहार्यमणौ च तथा ।जम्भकपिलिपिञ्छाख्यौ चरकिविदार्यौ च पूतनाः प्रोक्ताः ॥१०॥अर्घपदाद्यन्तासु च चतसृषु दिक्षु क्रमेण बहिरच्र्याः ।वासवयमजलशशिनामष्टावष्टौ च मन्त्रिणा विधिना ॥११॥ईशानाख्यः स पर्जन्यो जयन्तः शक्रभास्करौ ।सत्यो वृषान्तरिक्षौ च देवताः प्रागुदीरिताः ॥१२॥अग्निः पूषा च वितथो यमश्च ग्रहरक्षकः ।गन्धर्वो भृङ्गराजश्च मृगो दक्षदिगाश्रिताः ॥१३॥नित्र्र+तिदौवारिकश्चैव सुग्रीवो वरुणस्तथा ।पुष्पदन्तासुरौ शोषरोगौ प्रत्यग्दिगाश्रिताः ॥१४॥वायुर्नागश्च मुख्यश्च सोमो भल्लाट एव च ।अर्गलाख्योऽदितिस्तद्वद्दितिः सौम्यदिगाश्रिताः ॥१५॥इतीरितानामपि देवतानां चित्राणि कृत्वा रजसा पदानि ।पयोऽन्धसा साधुबलिर्विधेयो द्रव्यैश्च वा तन्त्रविशेषसिद्धैः ॥१६॥भूयो भूमितले समे विरहिते लोमास्थिलोष्टादिभिःकर्तव्यं नवसप्तपञ्चकमितैर्हस्तैः परीणाहतः ।युक्तं द्वारचतुष्ककल्पितपयोभूरुट् चतुस्तोरणंदर्भस्रक्परिवीतमुज्ज्वलतलं स्यात्संवृतं मण्डपम् ॥१७॥सप्ताहतो वा नवरात्रतो वा प्रागेव दीक्षादिवसाद्यथावत् ।सपालिकापञ्चमुखीशरावचतुष्टये बीजनिवापमुक्तम् ॥१८॥अन्यस्मिन्भवने सुसंवृततरे शुद्धे स्थले मण्डलंकुर्यात्प्राग्वरुणायतं पदचतुष्कोपेतभानूदरम् ।पीतारक्तसितासितं प्रतिपदं वह्व्यादिशर्वान्तिकंयाम्योदीच्यसमायतं प्रणिगदन्त्यन्ये च तन्मन्त्रिणः ॥१९॥वैष्णव्यस्त्वथ पालिका अपि चतुर्विंशाङ्गुलोच्छ्रायकाःवैरिञ्च्यो घटिकास्तु पञ्चवदना द्व्यष्टाङ्गुलोच्छ्रायकाः ।शैवाः स्युर्द्विषडङ्गुला अपि शरावाह्वा जलक्षालिताःसूत्रैश्च प्रकलय्य पङ्क्तिषु च ताः प्रोक्तक्रमाद्विन्यसेत् ॥२०॥पृथगपि शालीतण्डुलपूर्णासु सदभबद्धकूर्चासु ।मृद्वालुकाकरीषैः क्रमेण पूर्णानि तानि पात्राणि ॥२१॥शालीकङ्गुश्यामातिलसर्षपमुद्गमाषनिष्पावाः ।खल्वाढकीसमेता बीजानि विदुः प्ररोहयोग्यानि ॥२२॥प्रक्षाल्य तानि निवपेदभिमन्त्र्य मूल-बीजेन साधकवरस्त्वपि पात्रकेषु ।विप्राशिषा च विधिवत्प्रतिपाद्यमान-शङ्खादिमुख्यतरपञ्चमहास्वनैश्च ॥२३॥हारिद्राद्भिः सम्यगभ्युक्ष्य वस्त्रै-राच्छाद्याद्भिः सिञ्चतां पञ्चघोषैः ।सायम्प्रातः शर्वरीषु प्रदद्या-दुक्तौद्र्रव्यैस्तद्बलिं साधकेशः ॥२४॥भूतपितृयक्षनागब्रह्मशिवा देवताश्च विष्ण्वन्ताः ।ताभ्यः क्रमेण रात्रिषु सप्तसु वा नवसु बलिर्देयः ॥२५॥लाजतिलनक्तरजो दधिसक्त्वन्नानि भूतकूराख्यम् ।पित्र्यं तिलतण्डुलकं सोडुम्बिकधानलाजकं याक्षम् ॥२६॥केरोदसक्तुपिष्टं नागं पद्माक्षतं च वैरिञ्च्यम् ।अन्नापूपं शैवं गुलोदनं वैष्णवं च दुग्धान्नम् ॥२७॥कृसरं च वैष्णवेयं यदि नवरात्रं क्रमेण बलिरुक्तः ।तारादिकैर्नमोऽन्तैः स्वैः स्वैरपिनामभिश्च बलिमन्त्रः ॥२८॥पात्राणि त्रिविधान्यपि परितः पुनरष्टादिक्षु बलिकॢप्तिः ।बीजारोपणकर्म प्रथितमिदं सार्वकामिकं भवति ॥२९॥प्रागेव लक्षणयुतानि च मण्टपेऽस्मि-न्कुण्डानि कारयतु सम्यगथो दिशासु ।आखण्डलार्कभववारिपभाधिपानांदोर्मात्रकाणि विलसद्गुणमेखलानि ॥३०॥चतुरश्रमर्धशशिबिम्बविलसितमथ त्रिकोणम् ।पद्मदलरुचिरवृत्तमिति ब्रुवते सुधाविधिषु कुण्डलक्षणम् ॥३१॥विंशद्भिश्चतुरधिकाभिरङ्गुलीभिःसूत्रेणाप्यथ परिसूत्र्य भूमिभागम् ।ताभिश्च प्रखनतु तावतीभिरेकांत्यक्त्वा चाङ्गुलिमपि मेखलाश्च कार्याः ॥३२॥सत्त्वपूर्विकगुणान्विताः क्रमाद्-द्वादशाष्टाचतुरङ्गुलोच्छ्रिताः ।सर्वतोऽङ्गुलिचतुष्कविस्तृतामेखलाः सकलसिद्धिदा मताः ॥३३॥योनिस्तत्पश्चिमस्यामथ दिशि चतुरश्रस्थलारब्धनाळातन्मध्योल्लासि रन्ध्रोपरिपरि वितताश्वत्थपत्रानुकारा ।उत्सेधायामकाभ्यां प्रकृतिविकृतिसंज्ञाङ्गुलाष्टाङ्गुला स्या-द्विस्तृत्या द्वादशार्धाङ्गुलमितनमिताग्रा निविष्टेव कुण्डे ॥३४॥अथवा दिशि कुण्डमुत्तरस्यां प्रविदध्याच्चतुरश्रमेकमेव ।गदितैरपि लक्षणैः समेतापघनं दृष्टिमनोहरं च कान्त्या ॥३५॥ततो मण्टपमध्ये तु स्थण्डिलं गोमयाम्बुना ।उपलिप्य यथान्यायं तस्य मध्ये निधापयेत् ॥३६॥सूत्रं प्राक् प्रत्यगात्ताग्रं विप्राशीर्वचनैः सह ।गुणितेनाभितो मत्स्यौ मध्यादारभ्य विन्यसेत् ॥३७॥तन्मध्यस्थितयाम्योदगग्रं सूत्रं निधापयेत् ।ततो मध्यात्सपद्धस्तमानेन च दिशं प्रति ॥३८॥सूत्रेषु मकरान्न्यस्येत्स्पष्टानन्योन्यतः समात् ।सूत्राग्रमकरेभ्यस्तु न्यसेत्कोणेषु मत्स्यकान् ॥३९॥कोणमत्स्यस्थिताग्राणि दिक्षु सूत्राणि पातयेत् ।ततो भवेच्चतुष्कोष्ठं चतुरश्रं च मण्डलम् ॥४०॥तत्राग्निमारुतं सूत्रं नैत्र्र+तेशं निपातयेत् ।प्राग्याम्यवारुणोदीच्यसूत्राग्रमकरेषु च ॥४१॥निहिताग्रयुगं सूत्रं चतुष्कं प्रतिपातयेत् ।कृत एवं भवेयुस्ते कोणकोष्ठेषु मत्स्यकाः ॥४२॥एषु प्राग्वारुणात्सूत्रान्याम्योदीच्यां निपातयेत् ।षट्पञ्चाशत्पदानि स्युरधिकानि शतद्वयात् ॥४३॥यदा तदाजो विभजेत्पदानि क्रमशः सुधीः ।पदैः षोडशभिर्मध्ये पद्मं वृत्तत्रयान्वितम् ॥४४॥तैरष्टचत्वारिंशद्भी राशिः स्याद्वीथ्यशीतिभिः ।सद्वादशैः शतपदैः शोभायुग्द्वारकोणकम् ॥४५॥द्वाराणि पदषट्काणि शोभाख्याः स्युश्चतुष्पदाः ।चतुष्पदाश्चोपशोभाः षट्पदं कोणकं भवेत् ॥४६॥वृत्तवीथ्योरारचयेन्मध्ये सूत्रचतुष्टयम् ।प्राग्याम्यवारुणोदीच्यसूत्राग्रमकरेषु च ॥४७॥निहिताग्रयुगं सूत्रं तद्भवेद्राशिमण्डलम् ।र्किणकायाः केसराणां दलसन्धेर्दलस्य च ॥४८॥दलाग्रवृत्तिराशीनां वीथ्याः शोभोपशोभयोः ।वृत्तानि चतुरश्राणि व्यक्तास्थानानि कल्पयेत् ॥४९॥भवेन्मण्डलमध्यार्धे र्किणका चतुरङ्गुला ।त्र्यङ्गुलाः केसराश्च स्युः सन्धिश्च चतुरङ्गुला ॥५०॥तथा दलानां मानं तदग्रद्व्यङ्गुलकं भवेत् ।अन्तरालं पृथग्वृत्तत्रयस्य द्व्यङ्गुलं भवेत् ॥५१॥ततश्च राशिचक्रं स्यात्स्वं स्वं वर्णविभूषितम् ।राशिमङ्गुलकैः कुर्यात्षड्भिर्नवभिरेव वा ॥५२॥द्वात्रिंशदङ्गुलं ह्येतत्परस्तात्तावदिष्यते ।वृत्तचक्रमुशन्त्येके चतुरश्रं च तद्विदः ॥५३॥यदि वा वर्तुलमराः स्युश्च द्वादशराशयः ।ते स्युः पिपीलिकामध्या मातुलङ्गनिभा अपि ॥५४॥चक्रं च चतुरश्रं च त्र्यश्रा द्वादशराशयः ।भवेयुः पज्र्जदलनिभा वा कथिता बुधैः ॥५५॥तद्वही रुचिरान्कुर्याच्चतुरान्कल्पशाखिनः ।ललितान्रूढकुसुमान्फलपल्लवशोभितान् ॥५६॥जलजैः स्थलजैर्वापि सुमनोभिः समन्वितान् ।हंससारसकारण्डशुकभ्रमरकोकिलैः ॥५७॥मयूरचक्रवाकाद्यैरारूढविटपानतान् ।सर्वर्तुनिष्कृतिकरान्विलोचनमनोहरान् ॥५८॥तद्बहिः पार्थिवं कुर्यान्मण्डलं कृष्णकोणकम् ।मण्डलानि तु तत्त्वज्ञो राश्यन्तान्येव कारयेत् ॥५९॥राशेरन्यत्र रचयेत्प्रमोहादन्यमण्डलम् ।आवाह्य देवतामन्यामर्चयेदन्यदेवताम् ॥६०॥उभाभ्यां लभते शापं मन्त्री तरलदुर्मतिः ।कालात्मकस्य देवस्य राशिव्याप्तिमजानता ॥६१॥कृतं समस्तं व्यर्थं स्यादज्ञेन ज्ञानमानिना ।तस्मात्सर्वप्रयत्नेन राशीन्साधिपतीन्क्रमात् ॥६२॥अवगम्यानुरूपाणि मण्डलानि च मान्यधीः ।उपक्रमेदर्चयितुं होतुं वा सर्वदेवताः ॥६३॥रजांसि पञ्चवर्णानि पञ्चद्रव्यात्मकानि च ।पीतशुक्लारुणशितिश्यामान्येतानि भूतशः ॥६४॥हारिद्रं स्याद्रजः पीतं तण्डुलं च सितं भवेत् ।तथा दोषा रजःक्षारसंयुक्तं रक्तमुच्यते ॥६५॥कृष्णं दग्धपुलाकोत्थं श्यामं बिल्वदलादिजम् ।सितेन रजसा कार्याः सीमा रेखा विपश्चिता ॥६६॥अङ्गुलोत्सेधविस्ताराः सर्वमण्डलकर्मसु ।पीताः स्यात्र्किणका रक्तशुक्लपीताश्च केसराः ॥६७॥दलान्यच्छान्यन्तरालं श्यामचूर्णेन पूरयेत् ।सितरक्तासितैर्वर्णैर्वृत्तत्रयमुदीरितम् ॥६८॥नानावर्णविचित्रा स्युश्चित्राकाराश्च वीथयः ।द्वारशोभोपशोभाश्राः सितरक्तनिशासिताः ॥६९॥राशिचक्रावशिष्टानि कोणानि शृणु यानि वै ।पीठपादानि तानि स्युररुणान्यपि तानि वा ।तत्तत्पादोक्तवर्णानि तत्तदाकारवन्ति वा ॥७०॥अथवारुणानि च दलानि तथा दलसन्धिरप्यसितरुग्भवति ।असितारुणाच्छरजसा विहितान्यपि वर्तुलानि कथयन्त्यपरे ॥७१॥इति श्रीमत्परमहंसपरिव्राजकाचार्यस्यश्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतःकृतौ प्रपञ्चसारे पञ्चमः पटलः ॥ N/A References : N/A Last Updated : January 21, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP