तृतीयः पटलः
प्रपञ्चसारतन्त्रम् (Prapancasaratantra), ज्याचा अर्थ 'ब्रह्मांडाचे सार' असा आहे.
अथोभयात्मका वर्णाः स्युरग्नीर्षोमात्मभेदतः ।
त एव स्युस्त्रिधा भूयः सोमेनाग्निविभागशः ॥१॥
स्वराख्याः षोडश प्रोक्ताः स्पर्शाह्वाः पञ्चविंशतिः ।
व्यापकाश्च दशैते स्युः सोमेनाग्न्यात्मकाः क्रमात् ॥२॥
एषु स्वरा ह्रस्वदीर्घभेदेन द्विविधा मताः ।
पूर्वो ह्रस्वः परो दीर्घो बिन्दुसर्गान्तिकौ च तौ ॥३॥
आद्यन्तस्वरषट्कस्य मध्यगं यच्चतुष्टयम् ।
वर्णानामागमधनैस्तन्नपुंसकमीरितम् ॥४॥
तच्चतुष्कं सुषुम्नास्थे कुर्यात्प्राणेऽयनस्थितिम् ।
दक्षोत्तरस्थे प्राणाख्ये स्यातां दक्षोत्तरायणे ॥५॥
दक्षः सुव्यवस्थिते ह्रस्वदीर्घाः पञ्चोदयन्ति च ।
भूतभूतकलाभिस्तदुदयः प्रागुदीरितः ॥६॥
बिन्दुसर्गौ तु यौ प्रोक्तौ तौ सूर्यशशिनौ क्रमात् ।
तयोर्विकारविस्तारः परस्तात्सम्प्रवक्ष्यते ॥७॥
स्पर्शाख्या अपि ये वर्णाः पञ्चपञ्चविभेदतः ।
भवन्ति पञ्चवर्गास्तदन्त्य आत्मा रविः स्मृतः ॥८॥
चतुर्विंशतितत्त्वस्थास्तस्माद्वर्णाः परे क्रमात् ।
तेन स्पर्शाह्वयाः सौराः प्राणाग्नीळाम्बुखात्मकाः ॥९॥
व्यापकाश्च द्विवर्गाः स्युस्तथा पञ्चविभेदतः ।
शशीनाग्न्युत्थिता यस्मात्स्वरस्पृग्व्यापकाक्षराः ॥१०॥
तत्त्रिभेदसमुद्भूता अष्टत्रिंशत्कलाः स्मृताः ।
स्वरैः सौम्याः स्पर्शयुग्मैः सौरा याद्यैश्च वह्निजाः ॥११॥
षोडशद्वादशदशसङ्ख्याः स्युः क्रमशः कलाः ।
वर्णेभ्य एव तारस्य पञ्चभेदैस्तु भूतगैः ॥१२॥
सर्वगाश्च समुत्पन्नाः पञ्चाशत्सङ्ख्यकाः कलाः ।
ताभ्य एव तु तावत्यः शक्तिभिर्विष्णुमूर्तयः ॥१३॥
तावत्यो मातृभिः सार्धं तेभ्यः स्यू रुद्रमूर्तयः ।
तेभ्य एव तु पञ्चाशत्स्युरोषधय ईरिताः ॥१४॥
याभिस्तु मन्त्रिणः सिद्धिं प्राप्नुयुर्वाञ्छितार्थदाम् ।
अमृता मानदा पूषा तुष्टिः पुष्टी रतिर्धृतिः ॥१५॥
शशिनी चन्द्रिका कान्तिज्र्योत्स्ना श्रीः प्रीतिरङ्गना ।
पूर्णापूर्णामृताकामदायिन्यः सस्वराः कलाः ॥१६॥
तपिनी तापिनी धूम्रा मरीची ज्वालिनी रुचिः ।
सुषुम्नाभोगदाविश्वाबोधिनीधारिणीक्षमाः ॥१७॥
कामाद्या वसुदाः सौराः षडान्ता द्वादशेरिताः ।
धूम्रार्चिरूष्मा ज्वलिनी ज्वालिनी विष्फुलिङ्गिनी ॥१८॥
सुश्रीः सुरूपा कपिला हव्यकव्यवहे अपि ।
याद्यर्णयुक्ता वह्न्युत्था दश धर्मप्रदाः कलाः ॥१९॥
सृष्टि ऋद्धिः स्मृतिर्मेधा कान्तिर्लक्ष्मीद्र्युतिः स्थिरा ।
स्थितिः सिद्धिरकारोत्थाः कला दश समीरिताः ॥२०॥
अकारप्रभवा ब्रह्मजाताः स्युः सृष्टये कलाः ।
जरा च पालिनी शान्तिरैश्वरी रतिकामिके ॥२१॥
वरदा ह्लादिनी प्रीतिर्दीर्घा चोकारजाः कलाः ।
उकारप्रभवा विष्णुजाताः स्युः स्थितये कलाः ॥२२॥
तीक्ष्णा रौद्री भया निद्रा तन्द्री क्षुत्क्रोधिनी क्रिया ।
उत्कारी चैव मृत्युश्च मकाराक्षरजाः कलाः ॥२३॥
मकारप्रभवा रुद्रजाताः संहृतये कलाः ।
बिन्दोरपि चतस्रः स्युः पीतश्वेतारुणाऽसिता ॥२४॥
निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्तथैव च ।
इन्धिका दीपिका चैव रेचिका गोचिका परा ॥२५॥
सूक्ष्मा सूक्ष्मामृता ज्ञानामृता चाप्यायिनी तथा ।
व्यापिनी व्योमरूपा चेत्यनन्ता नादसम्भवाः ॥२६॥
नादजाः षोडश प्रोक्ता भुक्तिमुक्तिप्रदायकाः ।
केशवनारायणमाधवगोविन्दविष्णवः ॥२७॥
मधुसूदनसंज्ञश्च सप्तमः स्यात्त्रिविक्रमः ।
वामनः श्रीधरश्चैव हृषीकेशस्त्वनन्तरः ॥२८॥
पद्मनाभस्तथा दामोदराह्वो वासुदेवयुक् ।
सङ्कर्षणश्च प्रद्युम्नः सानिरुद्धः स्वरोद्भवाः ॥२९॥
ततश्चक्री गदी शाङ्र्गी खड्गी शङ्खी हली तथा ।
मुसली शूलिसंज्ञश्च भूयः पाशी च साज्रुशी ॥३०॥
मुकुन्दो नन्दजो नन्दी नरो नरकजिद्धरिः ।
कृष्णः सत्यः सात्वतश्च शौरिः शूरो जनार्दनः ॥३१॥
भूधरो विश्वमूर्तिश्च वैकुण्ठः पुरुषोत्तमः ।
बली बलानुजो बालो वृषघ्नश्च वृषस्तथा ॥३२॥
हंसो वराहो विमलो नृसिंहो मूर्तयो हलाम् ।
कीर्तिः कान्तिस्तुष्टिपुष्टी धृतिः क्षान्तिः क्रिया दया ॥३३॥
मेधा च हर्षा श्रद्धाह्वा लज्जा लक्ष्मीः सरस्वती ।
प्रीती रतिश्च सम्प्रोक्ताः क्रमेण स्वरशक्तयः ॥३४॥
जया दुर्गा प्रभा सत्या चण्डा वाणी विलासिनी ।
विजया विरजा विश्वा विनदा सुनदा स्मृतिः ॥३५॥
ऋद्धिः समृद्धिः शुद्धिश्च बुद्धिर्भक्तिर्मतिः क्षमा ।
रमोमा क्लेदिनी क्लिन्ना वसुदा वसुधापरा ॥३६॥
परा परायणा सूक्ष्मा सन्ध्या प्रज्ञा प्रभा निशा ।
अमोघा विद्युता चेति मूत्र्याद्याः सर्वकामदाः ॥३७॥
एकपञ्चाशदुद्दिष्टा नमोऽन्ता वर्णपूर्विकाः ।
सधातुप्राणशक्त्यात्मयुक्ता यादिषु मूर्तयः ॥३८॥
श्रीकण्ठोऽनन्तसूक्ष्मौ च त्रिमूर्तिरमरेश्वरः ।
अर्घीशो भारभूतिश्च स्थितीशः स्थाणुको हरः ॥३९॥
झण्डीशो भौतिकः सद्योजातश्चानुग्रहेश्वरः ।
अक्रूरश्च महासेनः स्युरेताः स्वरमूर्तयः ॥४०॥
ततः क्रोधीशचण्डीशपञ्चान्तकशिवोत्तमाः ।
तथैकरुद्रकूर्मैकनेत्राह्वचतुराननाः ॥४१॥
अजेशशर्वसोमेशास्तथा लाङ्गलिदारुकौ ।
अर्धनारीश्वरश्चोमाकान्तश्चाषाढिदण्डिनौ ॥४२॥
अत्रिर्मीनश्च मेषश्च लोहितश्च शिखी तथा ।
छगलण्डद्विरण्डौ च समहाकालचालिनौ ॥४३॥
भुजङ्गेशः पिनाकी च खड्गीशश्च बकस्तथा ।
श्वेतो भृगुश्च लकुलिः शिवः संवर्तकः स्मृतः ॥४४॥
पूर्णोदरी च विरजा तृतीया शाल्मली तथा ।
लोलाक्षी वर्तुलाक्षी च दीर्घघोणा तथैव च ॥४५॥
सुदीर्घमुखिगोमुख्यौ नवमी दीर्घजिह्विका ।
कुण्डोदर्यूध्र्वकेशी च मुखी विकृतपूर्विका ॥४६॥
सज्वालोल्कश्रियाविद्यामुख्यः स्युः स्वरशक्तयः ।
महाकालीसरस्वत्यौ सर्वसिद्धिसमन्विता ॥४७॥
गौरी त्रैलोक्यविद्या च तथा मन्त्रार्णशक्तिका ।
भूतमाता लम्बोदरी द्राविणी नागरी तथा।४८॥
खेचरी मञ्जरी चैव रूपिणी वीरिणी तथा ।
कोदरी पूतना भद्रकालीयोगिन्य एव च ॥४९॥
शङ्खिनी र्गिजनी कालरात्री कुर्दिन्य एव च ।
कर्पिदनी तथा वङ्का जया च सुमुखेश्वरी ॥५०॥
रेवती माधवी चैव वारुणी वायवी तथा ।
रक्षोऽवधारिणी चान्या तथैव सहजाह्वया ॥५१॥
लक्ष्मीश्च व्यापिनी मायेत्याख्याता वर्णशक्तयः ।
इत्युक्तस्त्रिविधो न्यासः क्रमात्सर्वसमृद्धिदः ॥५२॥
चन्दनकुचन्दनागरुकर्पूरोशीररोगजलघुसृणाः ।
तक्कोलजातिमांसीमुरचोरग्रन्धिरोचनापत्राः ॥५३॥
पिप्पलबिल्वगुहारुणतृणकलवज्रह्वकुम्भिवन्दिन्यः ।
सौदुम्बरीकाष्मरिकास्थिराब्जदरपुष्पिकामयूरशिखाः ॥५४॥
प्लक्षाग्निमन्थसिह्मीकुशाह्वदर्भाश्च कृष्णदरपुष्पी ।
रोहिणडुण्डुमबृहतीपाटलचित्रातुलस्यपामार्गाः ॥५५॥
शतमखलताद्विरेफो विष्णुक्रान्ती मुसल्यथाञ्जलिनी ।
दूर्वा श्रीदेविसहे तथैव लक्ष्मी सदाभद्रे ॥५६॥
आदीनामिति कथिता वर्णानां क्रमवशादथौषधयः ।
गुलिकाकषायभस्मप्रभेदतो निखिलसिद्धिदायिन्यः ॥५७॥
यथा भवन्ति देहान्तरमी पञ्चाशदक्षराः ।
येन येन प्रकारेण तथा वक्ष्यामि तत्त्वतः ॥५८॥
समीरितः समीरेण सुषुम्नारन्ध्रनिर्गताः ।
व्यक्तिं प्रयान्ति वदने कण्ठादिस्थानघट्टिताः ॥५९॥
उच्चैरुन्मार्गगो वायुरुदात्तं कुरुते स्वरम् ।
नीचैर्गतोऽनुदात्तं च तिर्यक् स्वरितविस्तृतिः ॥६०॥
अर्धैकद्वित्रिसङ्ख्याभिर्मात्राभिर्लिपयः क्रमात् ।
सव्यञ्जना ह्रस्वदीर्घप्लुतसंज्ञा भवन्ति ताः ॥६१॥
अकारेकारयोर्योगादेकारो वर्ण इष्यते ।
तस्यैवैकारयोगेन स्यादैकाराक्षरस्तथा ॥६२॥
उकारयोगात्तस्यैव स्यादोकाराह्वयोऽक्षरः ।
तस्यैवौकारयोगेन स्यादौकाराक्षरस्तथा ॥६३॥
सन्ध्यक्षराः स्युश्चत्वारो मन्त्राः सर्वार्थसाधकाः ।
ऌवर्णर्वर्णयोव्र्यक्तिर्लरोः सम्यक् प्रदृश्यते ॥६४॥
बिन्दुसर्गात्मनोव्र्यक्तिममसोरजपा वदेत् ।
कण्ठात्तु निःसरन्सर्गः प्रायोऽचामेकतः परः ॥६५॥
नश्वरः सर्ग एव स्यात्सोष्मा सप्राणकस्तु हः ।
स सर्गः श्लेषितः कण्ठे वायुनाकादिमीरयेत् ॥६६॥
सर्गस्पर्शनमात्रेण कं खरस्पर्शनात्तु खम् ।
स्तोकगम्भीरसंस्पर्शाद्गघौ ङश्च बहिर्गतः ॥६७॥
ससर्गस्तालुगः सौष्म्यः श च वर्गं च यं तथा ।
ऋटुरेफषकारांश्च मूर्धगो दन्तगस्तथा ॥६८॥
ऌतवर्गलसानोष्ठादुपूपध्मानसंज्ञकान् ।
दन्तोष्ठाभ्यां च वं तत्तत्स्थानगोऽर्णान्समीरयेत् ॥६९॥
ह्रस्वाः पञ्च परे सन्धिविकृताः पञ्चाथ बिन्द्वन्तिकाः
काद्याः प्राणहुताशभूकखमया याद्याश्च शार्णान्तिकाः ।
हान्ताः षक्षळसाः क्रमेण कथिता भूतात्मकास्ते पृथ-
क्तैस्तैः पञ्चभिरेव वर्णदशकैः स्युः स्तम्भनाद्याः क्रिया ॥७०॥
ऊदद्गादिलळाः कोर्णसौ चतुर्थार्णकावसौवारः ।
दृष्ट्यैव द्वितीयरक्षा वह्नेरद्वन्द्वयोनिकादिवर्षाः ॥७१॥
मरुतः कपोलबिन्दुकपञ्चमवर्णाः शहौ तथा व्योम्नः ।
मनुषु परेष्वपि मन्त्री करोतु कर्माणि तस्य संसिध्यै ॥७२॥
स्तम्भनाद्यमथ पार्थिवैरपामक्षरैश्च परिवर्षणादिकम् ।
दाहशोषणसशून्यतादिकान्वह्निवायुवियदुत्थितैश्चरेत् ॥७३॥
दशभिर्दशभिरमीभिर्नमोऽन्तिकैर्द्वन्द्वशश्च बिन्दुयुतैः ।
योनेर्मध्ये कोणत्रितये मध्ये च संयजेन्मन्त्री ॥७४॥
पूर्वोक्ताद्विन्दुमात्रात्स्वयमथ रवतन्मात्रतामभ्युपैता-
कारादीन्द्व्यष्टकादीनपि तदनुगतान्पञ्चविंशत्तथैव ।
यादीन्संयुक्तधातूनपि गुणसहितैः पञ्चभूतैश्च ताभि-
स्तन्मात्राभिव्र्यतीत्य प्रकृतिरथ हसंज्ञा भवेद्व्याप्य विश्वम् ॥७५॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः
कृतौ प्रपञ्चसारे तृतीयः पटलः ॥
N/A
References : N/A
Last Updated : January 21, 2026

TOP