संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|प्रपञ्चसारतन्त्रम्| पञ्चविंशः पटलः प्रपञ्चसारतन्त्रम् विशेष माहिती प्रथमः पटलः द्वितीयः पटलः तृतीयः पटलः चतुर्थः पटलः पञ्चमः पटलः षष्ठः पटलः सप्तमः पटलः अष्टमः पटलः नवमः पटलः दशमः पटलः एकादशः पटलः द्वादशः पटलः त्रयोदशः पटलः चतुर्दशः पटलः पञ्चदशः पटलः षोडशः पटलः सप्तदशः पटलः अष्टादशः पटलः एकोनविंशः पटलः विंशः पटलः एकविंशः पटलः द्वाविंशः पटलः त्रयोविंशः पटलः चतुर्विंशः पटलः पञ्चविंशः पटलः षड्विंशः पटलः सप्तविंशः पटलः अष्टाविंशः पटलः एकोनत्रिंशः पटलः त्रिंशः पटलः एकत्रिंशः पटलः द्वात्रिंशः पटलः त्रयस्त्रिंशः पटलः पञ्चविंशः पटलः प्रपञ्चसारतन्त्रम् (Prapancasaratantra), ज्याचा अर्थ 'ब्रह्मांडाचे सार' असा आहे. Tags : prapanchasarshankaracharyaप्रपञ्चसारतन्त्रशंकराचार्य पञ्चविंशः पटलः Translation - भाषांतर अथाभिधास्यामि मनुं समासा-त्प्रासादसंज्ञं जगतो हिताय ।ये न प्रजप्तेन तथार्चितेनहुतेन सिद्धिं लभते यथेष्टम् ॥१॥प्रसादनत्वान्मनसो यथावत्प्रासादसंज्ञास्य मनोः प्रदिष्टा ।अन्त्यात्तृतीयः प्रतिलोमतः स्यादनुग्रहार्धेन्दुयुतश्च मन्त्रः ॥२॥ऋषिरस्य वामदेवः पङ्क्तिश्छन्दोऽस्य देवतेशः स्यात् ।तेनैवाक्लीबकलादीर्घयुजाङ्गानि तस्य बीजेन ॥३॥शूलाही टज्र्घण्टासिसृणिकुलिशपाशाग्न्यभीतीर्दधानंदोर्भिः शीतांशुखण्डप्रतिघटितजटाभारमौलिं त्रिणेत्रम् ।नानाकल्पाभिरामापघनमभिमतार्थप्रदं सुप्रसन्नंपद्मस्थं पञ्चवक्त्रं स्फटिकमणिनिभं पार्वतीशं नमामि ॥४॥ईशानादीन्मन्त्रवित्पञ्च मन्त्रानङ्गुष्ठादिष्वङ्गुलीषु क्रमेण ।न्यस्येदज्भिव्र्युत्क्रमाद्व्योमगाभिह्र्रस्वख्याभिस्ताभिरेवाङ्गुलीभिः ॥५॥ईशानस्तत्पुरुषोऽघोराख्यो वामदेवसंज्ञश्च ।सद्योजाताह्वय इति मन्त्राणां देवताः क्रमात्पञ्च ॥६॥मूर्धाननत्दृद्गुह्यकपादेषु च नामभिः स्वबीजाद्यैः ।ऊध्र्वप्राग्दक्षोदक्पश्चिमगेष्वाननेषु विन्यस्येत् ॥७॥प्रतिपाद्य निजं शरीरमेवं प्रजपेदिन्द्रियलक्षकं शिवात्मा ।जुहुयाच्च दशांशतस्तदन्ते मधुराक्तैः करवीरजप्रसूनैः ॥८॥अथ वा कुसुमैर्जपासमुत्थैः कमलैर्वा विमलेन पायसेन ।नृपवृक्षभवैः समिद्वरैर्वा जुहुयात्साधकसत्तमः समृद्ध्यै ॥९॥अष्टपत्रगुणवृत्तराशिभिर्वीथिकल्पतरुभिः समावृतम् ।मण्डलं प्रतिविधाय शूलिनः पीठमत्र नवशक्तिभिर्यजेत् ॥१०॥वामा ज्येष्ठा रौद्री काल्या कलबलाद्यविकलिन्यौ ।सबलप्रमथिनिसर्वभूतदमन्यौ मनोन्मनीं च यजेत् ॥११॥तारादिकं नतिमपि प्रोक्त्वा भगवत्पदं चतुथ्र्यन्तम् ।सकलगुणात्मपदान्ते शक्तिं युक्ताय चेति सम्भाष्य ॥१२॥भूयोऽनन्तायेति च योगान्ते पीठमात्मने चेति ।नमसा युक्तं ब्रूयात्पीठाख्योऽयं मनुः समुद्दिष्टः ॥१३॥न्यासक्रमेण देहे मन्त्री गन्धादिकमपि पूज्य ।पूर्वोक्तदिक्षु मूर्तीर्विदिक्षु सनिवृत्तिपूर्विकाश्च यजेत् ॥१४॥सद्यो वेदाक्षमालाभयवरदकरः कुन्दमन्दारगौरोवामः काश्मीरवर्णोऽभयवरदपरश्चाक्षमालाविलासी ।अक्षस्रग्वेदपाशाज्रुशडमरुकखट्वाङ्गशूलान्कपालंबिभ्राणो भीमदंष्ट्रोऽञ्जनरुचिरतनुर्भीतिदश्चाप्यघोरः ॥१५॥विद्युद्वर्णोऽथ वेदाभयवरदकुठारान्दधत्पूरुषाख्यःप्रोक्ताः सर्वे त्रिणेत्रा विधृतमुखचतुष्काश्चतुर्बाहवश्च ।मुक्तागौरोऽभयेष्टाधिककरकमलोऽघोरतः पञ्चवक्त्र-स्त्वीशो ध्येयोऽम्बुजन्मोद्भवमुररिपुरुद्रेश्वराः स्युः शिवान्ताः ॥१६॥भूतानां शक्तित्वाद्व्याप्तित्वाज्जगति वा निवृत्त्याद्याः ।तेजोरूपाः करपदवर्णविहीना मनीषिभिः प्रोक्ताः ॥१७॥अनन्तसूक्ष्मौ च शिवोत्तमश्च तथैकपूर्वावपि नेत्ररुद्रौ ।त्रिमूर्तिश्रीकण्ठशिखण्डिनश्च प्रागादिपत्रेषु समर्चनीयाः ॥१८॥शूलाशनिशरचापोल्लासितदोर्दण्डभीषणाः सर्वे ।पद्मासनाश्च नानाविधभूषणभूषितास्त्रिणेत्राः स्युः ॥१९॥पाटलपीतसितारुणशितिरक्तशशिप्रभाश्च धूम्रान्ताः ।कोटीरघटितविलसच्छशिशकलयुताश्च मूर्तयः क्रमशः ॥२०॥उमा चण्डेश्वरो नन्दी महाकालो गणेश्वरः ।वृषो भृङ्गिरिटः स्कन्दः सम्पूज्याश्चोत्तरादितः ॥२१॥कनकविडूरजविद्रुममरकतमुक्तासिताच्छरक्ताभाः ।पद्मासनसंस्थाश्च क्रमादुमाद्या गुणान्तिकाः प्रोक्ताः ॥२२॥पुनराशेशास्तदनु च कुलिशाद्यादिक्रमेण सम्पूज्याः ।प्रासादविधानमिदं निगदितमिति सकलवर्गसिद्धिकरम् ॥२३॥अमुना विधिना महेशपूजां दिनशो यः कुरुते समाहितात्मा ।स तु सम्यगवाप्य दृष्टभोगान्परमन्ते परिपूर्णमेति धाम ॥२४॥वक्ष्यामि शैवागमसारमष्टत्रिंशत्कलान्यासविधिं यथावत् ।सपञ्चभिब्र्रह्महरीशपूर्वैः सष्र्यादिकैः साङ्गविशेषकैश्च ॥२५॥ईशोऽनुष्टुब्भूरीश्वराः स तत्पुरुषसंज्ञगायत्र्यापः ।पुनरग्न्यनुष्टुबापो वामदेवः कतिभर्गहरस्त्वनुष्टुब्भगयुक् ॥२६॥इन्द्रियतारसमेतं सर्वज्ञायेति हृच्छिरस्त्वमृते ।तेजोमालिनिपूर्वं तृप्ताय ब्रह्मशिरस इति कथितम् ॥२७॥ज्वलितशिखिशिखेत्यनादिबोधाय चान्वितेति शिखा ।वङ्किआणे वङ्काधराय स्वाहास्वतन्त्राय वर्म नेत्रं च ।सौ सौ हौ बिन्दुयुतं सम्प्रोक्त्वा लुप्तशक्तये च तथा ॥२८॥सश्रीपशुहुम्फडनन्तशक्तये तथास्त्रं स्यात् ।समुनिच्छन्दोदैवतयुक्तं तदङ्गषट्कमिति कथितम् ॥२९॥करदेहमुखन्यासं मन्त्रैः पूर्ववदाचरेत् ।कलाः प्रविन्यसेद्देहे वक्ष्यमाणक्रमेण तु ॥३०॥ताः स्युः पञ्च चतस्रोऽष्टौ त्रयोदश चतुर्द्वयम् ।अष्टत्रिंशत्कलाः सम्यङ् न्यस्तव्या मन्त्रवित्तमैः ॥३१॥दिक्षु प्राग्याम्यवारीवसुपनिजभुवामैन्द्रवार्रिकराज्ञांहृद्ग्रीवांसद्वयीनाभ्युदरचरमवक्षःसु गुह्याज्र्योश्च ।सोर्वोर्जान्वोः सजङ्घास्फिगुभयकटीपाश्र्वपद्दोस्तलेषुघ्राणे कं बाहुयुग्मेष्वतिविशदमतिर्विन्यसेदङ्गुलीभिः ॥३२॥विन्यासः प्रतिमाकृतौ च नितरां सान्निध्यकृत्स्यादयंदेहे चापि शरीरिणां निगदितः सामथ्र्यकारीति च ।आस्ते यत्र तथामुनैव दिनशो विन्यस्तदेहः पुमा-न्क्षेत्रं देशममुं च योजनमितं शैवागमज्ञा विदुः ॥३३॥न्यस्यैवं पञ्चभिब्र्रह्मभिरथ शिवमाराधयेदृग्भिराभि-र्मध्यप्राग्याम्यसौम्यापरदिशि पुनरङ्गैरनन्तादिभिश्च ।अन्यो माद्यैर्दिशापैः पुनरपि कुलिशाद्यैर्यजेदेवमुक्तंपाञ्चब्रह्मं विधानं सकलसुखयशोभुक्तिमुक्तिप्रदं च ॥३४॥पञ्चाक्षरविहितविधिं वक्ष्ये जपतामभीष्टसिद्धिकरम् ।सिद्धेन येन देही प्रेत्येह च वाञ्छितं फलं लभते ॥३५॥मेषो विषो विसर्गी मृत्युः साक्षी सवाक्षरः पवनः ।ताराद्भवति यदस्मात्तदादिरभिधीयते मनुप्रवरः ॥३६॥अस्याक्षराण्यमूनि चपञ्च स्युः पञ्चभूतगानि तथा ।जगदपि भूतारब्धंतेन हि जगदात्मतोदितास्य मनोः ॥३७॥प्रोक्तमृष्यादिकं पूर्वमङ्गवर्णैस्तु मन्त्रकैः ।अङ्गुलीदेहवक्त्रेषु मूलमन्त्राक्षरादिकान् ॥३८॥न्यसेत्तत्पुरषाघोरसद्योवामेशसंज्ञकान् ।सतर्जनीमध्यमान्त्यानामिकाङ्गुष्ठकेषु च ॥३९॥वक्त्रहृत्पादगुह्याख्यमूर्धस्वपि च नामभिः ।प्राग्याम्यवारुणोदीच्यवक्त्रेष्वपि च मूर्धसु ॥४०॥बिभ्रद्दोर्भिः कुठारं मृगमभयवरौ सुप्रसन्नो महेशःसर्वालङ्कारदीप्तः सरसिजनिलयो व्याघ्रचर्मात्तवासाः ।ध्येयो मुक्तापरागामृतरसकलिताद्रिप्रभः पञ्चवक्त्र-स्त्र्यक्षः कोटीरकोटीघटिततुहिनरोचिष्कलोत्तुङ्गमौलिः ॥४१॥अक्षरलक्षचतुष्कं जप्यात्तावत्सहस्रमपि जुहुयात् ।शुद्धैस्तिलैर्घृतैर्वा दुग्धान्नैर्दुग्धभूरुहेध्मैर्वा ॥४२॥तत्पुरुषाद्याः सर्वे प्रधानसम्प्रोक्तबाहुहेतियुताः ।उल्लासिमुखचतुष्कास्तेजोरूपो विलक्षणस्त्वीशः ॥४३॥आवृतिराद्या मूर्तिभिरङ्गैरन्या पराप्यनन्ताद्यैः ।अपरोमादिभिरपरेन्द्राद्यैरपरा तदायुधैः प्रोक्ता ॥४४॥कथयामि मनोविधानमन्य-न्मुनिपूज्यं प्रवरं पिनाकपाणेः ।स्वतनौ परिकल्प्य पीठमङ्गा-न्यपि विन्यस्य तथैव मन्त्रवर्णान् ॥४५॥हृन्मुखांसोरुयुग्मेषु षड्वर्णान्क्रमतो न्यसेत् ।कर्णमूले तथा नाभौ पाश्र्वयुक्पृष्ठहृत्सु च ॥४६॥मूर्धास्यनेत्रघ्राणेषु दोःपत्सन्ध्यग्रकेषु च ।सशिरोवक्त्रहृदयजठरोरुपदेष्वपि ॥४७॥हृदाननपरश्वेणाभीत्याख्यवरदेषु च ।मुखांसहृदयेषु त्रीन्पदान्पादोरुकुक्षिषु ॥४८॥ऊध्र्वाधःक्रमतो न्यस्येद्गोलकान्यासमुत्तमम् ।पुनस्तत्पुरुषाघोरसद्योवामेशसंज्ञकान् ॥४९॥ललाटद्व्यंसजठरहृदयेषु क्रमान्न्यसेत् ।पुनस्तत्प्रतिपत्त्यर्थं जपेन्मन्त्रमिमं सुधीः ॥५०॥नमोऽस्तु स्थाणुभूताय ज्योतिर्लिङ्गावृतात्मने ।चतुर्मूर्तिवपुश्छायाभासिताङ्गाय शम्भवे ॥५१॥कुर्यादनेन मन्त्रेण निजदेहे समाहितः ।मन्त्री पुष्पाञ्जलिं सम्यक्त्रिशः पञ्चश एव वा ॥५२॥पूर्वोक्त एव पीठे प्रागङ्गैर्मूर्तिशक्तिभिस्तदनु ।वृषपालचण्डदुर्गागुहनन्दिगणपसैन्यपाः पूज्याः ॥५३॥अन्या च वासवाद्यैः पुनरुपहारैः क्रमेण भक्तिमता ।अभ्र्यिचते हुते च स्तोतव्यः संस्तवेन पुनरीशः ॥५४॥(शिवस्तुतिः)नमो विरिञ्चविष्ण्वीशभेदेन परमात्मने ।सर्गसंस्थितिसंहारव्यावृत्तिव्यक्तवृत्तये ॥५५॥नमश्चतुर्धा प्रोद्भूतभूतभूतात्मने भुवः ।भूरिभारार्तिसंहत्र्रे भूतनाथाय शूलिने ॥५६॥विश्वग्रासाय विलसत्कालकूटविषाशिने ।तत्कलज्रज्र्तिग्रीवनीलकण्ठाय ते नमः ॥५७॥नमो ललाटनयनप्रोल्लसत्कृष्णवत्र्मने ।ध्वस्तस्मरनिरस्ताधियोगिध्याताय शम्भवे ॥५८॥नमो देहार्धकान्ताय दग्धदक्षाध्वराय च ।चतुर्वर्गेष्वभीष्टार्थदायिने मायिनेऽणवे ॥५९॥स्थूलाय मूलभूताय शूलदारितविद्विषे ।कालहन्त्रे नमश्चन्द्रखण्डमण्डितमौलये ॥६०॥विवाससे कपर्दान्तभ्र्रान्ताहिसरिदिन्दवे ।देवदैत्यासुरेन्द्राणां मौलिघृष्टाङ्घ्रये नमः ॥६१॥भस्माभ्यक्ताय भक्तानां भुक्तिमुक्तिप्रदायिने ।व्यक्ताव्यक्तस्वरूपाय शङ्कराय नमो नमः ॥६२॥नमोऽन्धकान्तकरिपवे पुरद्विषेनमोऽस्तु ते द्विरदवराहभेदिने ।विषोल्लसत्फणिकुलबद्धमूर्तयेनमः सदा वृषवरवाहनाय ते ॥६३॥वियन्मरुद्धुतवहवार्वसुन्धरा-मखेशरव्यमृतमयूखमूर्तये ।नमः सदा नरकभयावभेदिनेभवेह नो भवभयभङ्गकृद्विभो ॥६४॥(इति शिवस्तुतिः)स्तुत्वेन्दुखण्डपरिमण्डितमौलिमेव-मुद्वासयेत्पुनरमुं हृदयाम्बुजे स्वे ।अभ्यच्र्य देवमभिसंयतचित्तवृत्ति-र्भूत्वा शिवो जपतु मन्त्रमहेशमेनम् ॥६५॥सन्तप्र्य विप्रान्पुनरेवमेवसम्पूजयेदिन्दुकलावतंसम् ।जपेद्यथाशक्ति शिवस्वरूपीभूत्वा ततोऽन्ते च शिवः स भूयात् ॥६६॥अमुमेव मनुं लक्षं मन्त्री हृल्लेखयाभिसंरुद्धम् ।जप्त्वा नृपतरुसमिधां मधुरयुजा मनुसहस्रकं जुहुयात् ॥६७॥वन्दे हरं वरदशूलकपालहस्तंसाभीतिमद्रिसुतयोज्ज्वलदेहकान्तिम् ।वामोरुपीठगतया निजवामहस्त-न्यस्तारुणोत्पलरुचा परिरब्धदेहम् ॥६८॥आवृतिरङ्गैराद्या हृल्लेखाद्याभिरनु वृषाद्यैश्च ।मात्राशेशैरुक्तं पञ्चावरणं विधानमीशस्य ॥६९॥आप्यायिनी शशियुताप्यरुणाग्निमायाबिन्द्वन्तिका चलकुलीभुवनेन्दुयुक्ता ।दीर्घाकलायुतशिवश्च शिवायवर्णा-स्याच्छूलिनो मनुरयं वसुवर्णयोगी ॥७०॥वामाज्र्न्यस्तवामेतरकरकमलायास्तथा वामबाहु-व्यस्तारक्तोत्पलायाः स्तनविधृतिलसद्वामबाहुः प्रियायाः ।सर्वाकल्पाभिरामो धृतपरशुमृगेष्टः करैः काञ्चनाभोध्येयः पद्मासनस्थः स्मरललिततनुः सम्पदे पार्वतीशः ॥७१॥पञ्चार्णोक्ताङ्गाद्यः पञ्चब्रह्मप्रदिष्टपूजश्च ।वसुमितलक्षजपोऽयं मन्त्रस्तावत्सहस्रहोमश्च ॥७२॥इति जपहुतपूजाध्यानकैरीशयाजीप्रियतरचरितः स्यात्सर्वतो देहभाजाम् ।धनविभवयशःश्रीसम्पदा दीर्घजीवीतनुविपदि च शैवं तत्परं धाम भूयात् ॥७३॥इति श्रीमत्परमहंसपरिव्राजकाचार्यस्यश्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतःकृतौ प्रपञ्चसारे पञ्चविंशः पटलः ॥ N/A References : N/A Last Updated : January 21, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP