संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|प्रपञ्चसारतन्त्रम्| एकोनत्रिंशः पटलः प्रपञ्चसारतन्त्रम् विशेष माहिती प्रथमः पटलः द्वितीयः पटलः तृतीयः पटलः चतुर्थः पटलः पञ्चमः पटलः षष्ठः पटलः सप्तमः पटलः अष्टमः पटलः नवमः पटलः दशमः पटलः एकादशः पटलः द्वादशः पटलः त्रयोदशः पटलः चतुर्दशः पटलः पञ्चदशः पटलः षोडशः पटलः सप्तदशः पटलः अष्टादशः पटलः एकोनविंशः पटलः विंशः पटलः एकविंशः पटलः द्वाविंशः पटलः त्रयोविंशः पटलः चतुर्विंशः पटलः पञ्चविंशः पटलः षड्विंशः पटलः सप्तविंशः पटलः अष्टाविंशः पटलः एकोनत्रिंशः पटलः त्रिंशः पटलः एकत्रिंशः पटलः द्वात्रिंशः पटलः त्रयस्त्रिंशः पटलः एकोनत्रिंशः पटलः प्रपञ्चसारतन्त्रम् (Prapancasaratantra), ज्याचा अर्थ 'ब्रह्मांडाचे सार' असा आहे. Tags : prapanchasarshankaracharyaप्रपञ्चसारतन्त्रशंकराचार्य एकोनत्रिंशः पटलः Translation - भाषांतर अथ वक्ष्यामि विद्यायास्त्रिष्टुभः प्रवरं विधिम् ।ऋषिच्छन्दोदेवताभिरङ्गन्यासक्रमैः सह ॥१॥मारीचः काश्यपो ज्ञेय ऋषिश्छन्दः स्वयं स्मृतम् ।देवता जातवेदोऽग्निरुच्यन्तेऽङ्गान्यतः परम् ॥२॥नवभिः सप्तभिः षड्भिः सप्तभिश्च तथाष्टभिः ।सप्तभिर्मूलमन्त्रेण कुर्यादङ्गानि षट् क्रमात् ॥३॥अङ्गुष्ठगुल्फजङ्घासु जानूरुकटिगुह्यके ।सनाभिहृदयोरोजपाश्र्वयुक्पृष्ठकेषु च ॥४॥स्कन्धयोरुभयोर्मध्ये बाहुमूलोपबाहुषु ।प्रकूर्परप्रकोष्ठेषु मणिबन्धतलेषु च ॥५॥मुखनासाक्षिकर्णेषु मस्तमस्तिष्कमूर्धसु ।न्यसेन्मन्त्राक्षरान्मन्त्री क्रमाद्वा व्युत्क्रमात्तनौ ॥६॥शिखाललाटदृक्कर्णयुगोष्ठरसनासु च ।सकर्णबाहुहृत्कुक्षिकटिगुह्योरुजानुषु ।जङ्घाचरणयोन्र्यस्येत्पदानि त्रिष्टुभः क्रमात् ॥७॥भास्वद्विद्युत्करालाकुलहरिगलसंस्थारिशङ्खासिखेटे-ष्वस्त्रासाख्यत्रिशूलानरिगणभयदां तर्जनीं चादधाना ।चर्माण्युद्घूर्णदोर्भिः प्रहरणनिपुणाभिर्वृता कन्यकाभि-र्दद्यात्कार्शानवीष्टांस्त्रिणयनलसिता कापि कात्यायनी वः ॥८॥इति विन्यस्तदेहस्तु कुर्याज्जप्यादिकाः क्रियाः ।दीक्षा प्रवत्र्यते पूर्वं यथावद्देशिकोत्तमैः ॥९॥ततोऽस्त्रकॢप्तिः सम्प्रोक्ता स्यात्प्रयोगविधिस्ततः ।दीक्षकाख्याक्षराण्यादौ शक्त्यावेष्ट्य ततो बहिः ॥१०॥यन्त्रं षड्गुणितं कृत्वा दुर्वर्णलसिताश्रकम् ।बहिरष्टदलं पद्मं प्रोक्तलक्षणलक्षितम् ॥११॥अत्र पीठं यजेन्मन्त्री क्रमात्सनवशक्तिकम् ।जया च विजया भद्रा भद्रकाली सुदुर्मुखी ॥१२॥व्याघ्रसिंहमुखीदुर्गात्रिष्टुभो नव शक्तयः ।तत्रादाय घटं दिव्यक्वाथमूत्रपयोम्भसाम् ॥१३॥एकेन पूरयित्वास्मिन्नावाह्य च विभावसुम् ।अङ्गावृतेर्बहिग्न्र्यादिपादाष्टकविनिःसृताः ॥१४॥मूर्तीरभ्यर्चयेदग्नेर्जातवेदादिकाः क्रमात् ।पृथिव्यम्ब्वनलेरानप्यात्मनेपदसंयुतान् ॥१५॥अर्चयेद्दिक्षु कोणेषु निवृत्त्यादीर्यथाक्रमम् ।दिक्ष्वेकादशसङ्ख्याः स्युर्जागताद्यर्णशक्तयः ॥१६॥लोकपालांश्च तद्धेतोर्विधिनेति समर्चयेत् ।जागता तापिनी वेदगर्भा दाहनरूपिणी ॥१७॥सेन्दुखण्डा शुम्भहन्त्री सनभश्चारिणी तथा ।वागीश्वरी मदवहा सोमरूपा मनोजवा ॥१८॥मरुद्वेगा रात्रिसंज्ञा तीव्रकोपा यशोवती ।तोयात्मिका तथा नित्या दयावत्यपि हारिणी ॥१९॥तिरस्क्रिया वेदमाता तथान्या दमनप्रिया ।समाराध्या नन्दिनी च परा रिपुविर्मिदनी ॥२०॥षष्ठी च दण्डिनी तिग्मा दुर्गा गायत्रिसंज्ञका ।निरवद्या विशालाक्षी श्वासोद्वाहा च नादिनी ॥२१॥वेदना वह्निगर्भा च सिंहवाहाह्वया तथा ।धुर्या दुर्विषहा चैव रिरंसा तापहारिणी ॥२२॥त्यक्तदोषा निःसपत्ना चत्वारिंशच्चतुर्युताः ।अभिषिच्य पुनः शिष्यं कुम्भादीन्गुरुराहरेत् ॥२३॥ईदृशं यन्त्रमारुह्य जपेच्छिष्यः सुयन्त्रितः ।मन्त्राक्षरसहस्रं तु सिद्ध्यर्थं गुरुसन्निधौ ॥२४॥सर्वजापेषु संज्ञेया गायत्र्या द्विगुणो जपः ।कर्तव्यो वाञ्छितार्थाप्त्यै रक्षायै कार्यसिद्धये ॥२५॥तिलराज्यनलक्षीरवृक्षेध्महविराज्यकैः ।र्सिपःसिक्तैः क्रमाद्धोमः साधयेदीप्सितं नृणाम् ॥२६॥चत्वारि चत्वारिंशच्च चतुःशतसमन्वितम् ।चतुःसहस्रसंयुक्तं प्रोक्तैरेतैर्हुतक्रिया ॥२७॥एवं संसिद्धमन्त्रस्य स्युरस्त्राद्याः क्रिया मताः ।चत्वारि चत्वारिंशच्च वर्णानामस्त्रमिष्यते ॥२८॥विलोमपाठो वर्णानामस्त्रमाहुर्मनीषिणः ।पादाष्टकमिदं विद्यात्ततोऽष्टाङ्गो मनुः स्वयम् ॥२९॥जप्तुकामो मनुं त्वेनं पादांस्तु प्रतिलोमतः ।पठेत्तथा हि मन्त्रोऽयं क्षाल्यते दुष्टदूषितः ॥३०॥आद्याः पञ्चाक्षरपदास्त्रयः सप्ताक्षरः परः ।पञ्चमश्चाथ षष्ठश्च द्वौ तु पादौ षडक्षरौ ।पञ्चाक्षरौ तदन्त्यौ च तेषां भावो निगद्यते ॥३१॥ग्न्याद्यं ज्ञानेन्द्रियं कामं द्वितीयं पाञ्चभौतिकम् ।तृतीयं धातवः सप्त चतुर्थं वर्णसप्तकम् ॥३२॥षडूर्मयः पञ्चमं स्यात्षष्ठः षट्कौशिको मतः ।सप्तमश्चाष्टमः पादः शब्दाद्यं वचनादिकम् ॥३३॥साङ्गः सत्प्रतिपत्तिकः सगुरुपद्वन्द्वप्रमाणक्रमा-ज्जाप्येत्यादिषडन्तकोऽन्तविगतो वर्णप्रतीपस्तथा ।गुर्वादेशविधानतश्च विविधध्यानक्रियो मन्त्रिणातत्तत्कार्यसमाप्तयेऽखिलविपद्ध्वान्तौघभानूदयः ॥३४॥अनुलोमजपेऽङ्गानामपि पाठोऽनुलोमतः ।प्रतिलोमानि तानि स्युः प्रतिलोमविधौ तथा ॥३५॥अन्तः पादप्रतीपे हि तथा तानि भवन्ति हि ।वर्णप्रतीपे च तथा मात्राण्यप्रतिलोमके ॥३६॥प्रतिपत्तिविशेषांश्च तत्र तत्र विचक्षणः ।गुर्वादेशविधानेन प्रविदध्यान्न चान्यथा ॥३७॥जपः पुरोक्तसङ्ख्यः स्याद्धुतकॢप्तिस्तथा भवेत् ।क्षीरद्रुमसमिद्राजितिलहव्यघृतैः क्रमात् ॥३८॥अथ वा पञ्चगव्योत्थचरुणा हुतमुच्यते ।प्रत्यङ्मुखेन कर्तव्यं प्रायो जपहुतादिकम् ॥३९॥तत्र स्युर्मन्त्रवर्णेभ्यस्तावत्यो वह्निदेवताः ।प्रत्येकमावृतास्तास्तु पञ्चकेन नतभ्रुवाम् ॥४०॥तत्पञ्चकं च प्रत्येकमावृतं पञ्चभिः पृथक् ।प्रत्येकं पञ्चकानां तु षोडशावृतिरिष्यते ॥४१॥प्रत्येकं षोडशानां तु कोटयः परिचारिकाः ।इत्येकाक्षरजात्पूर्वमेकस्मात्षोडशात्मकात् ॥४२॥एतावत्यस्तु जातास्तद्विस्तरं पुनरूहयेत् ।तत्र त्विन्द्रियजाः प्रोक्ता देवतास्तूध्र्वदृष्टयः ॥४३॥तिर्यञ्चो भौतिकाः प्रोक्ता धातूत्थास्तूभया नराः ।उर्मिजास्तूध्र्ववदनास्तिर्यञ्चश्चाथ कोशजाः ॥४४॥क्लीबा मुखद्वयोपेता गोचरोत्थाः स्त्रियो मताः ।अधोमुखाश्च तिर्यञ्च इत्युक्तो मूर्तिसङ्ग्रहः ॥४५॥आभिः सर्वाभिरपि च शिखाभिर्जातवेदसः ।व्याप्यते परराष्ट्रेषु वृक्षगुल्मतृणादिकम् ॥४६॥आरम्भे मानुपाणि स्युर्नक्षत्राण्याभिचारके ।कर्माण्यासुरभानि स्युर्दैवानि स्युस्तथा हृतौ ॥४७॥अन्त्याश्वीन्द्वर्कादिति गुरुहरिमित्रानिलाह्वया देवाः ।पूर्वोत्तरत्रयी यमहरविधयो मानुषाः परेऽसुरभाः ॥४८॥नन्दास्वारभ्य रिक्तासु प्रयोज्यात्मनि संहरेत् ।भद्रासु सङ्ग्रहं कुर्याज्जयासु च विशेषतः ।आरेणारभ्य मन्देन प्रयोज्यादित्यवारके ॥४९॥संहरेत्सङ्ग्रहं कुर्याद्वारे त्वाचार्ययोः सुधीः ।चरोर्विसृज्योभयकैराहरेदभ्यसेत्स्थिरैः ॥५०॥दिनास्त्रं दिनकृद्युक्तं वारग्रहसमन्वितम् ।कृत्तिकादि च कृत्यान्तं कृत्यास्त्रं जातवेदसः ॥५१॥नक्षत्रात्मा हुताशः स्यात्तिथ्यात्मेन्दुरुदाहृतः ।ताभ्यां करोति दिनकृद्विसर्गादानकर्मणी ॥५२॥रक्षानिग्रहकर्मणोरनु पराग्वक्त्राः प्रधानाकृति-प्रख्या मन्त्रविधानविच्च दिशि दिश्येकादशैकादश ।संस्थाप्य क्रमशोऽक्षरोदितरुचीः शक्तीर्जपेद्वा मनुंसम्यग्वा जुहुयादनुप्रतिगतं सिद्ध्यै समाराधयेत् ॥५३॥पीतायोमुष्टिगदाहस्ता महिषाज्यसंयुतपुलाकैः ।वैभीतारिष्टसमित्कोद्रवकैः स्तम्भयेच्च हुतविधिना ॥५४॥सुसिता पाशाज्रुशयुग्विलद्वारिप्रवाहसम्भिन्ना ।वेतससमिदाहुत्या मधुरयुजा मङ्क्षु वर्षयेद्दुर्र्गा ॥५५॥रक्ता पाशाज्रुशिनी निशि फलिनीकेसरोद्भवैः कुसुमैः ।चन्दनरससंसिक्तैर्होमाद्दुर्गा वशीकरोति जगत् ॥५६॥लवणैस्त्रिमधुरसिक्तैस्तत्कृतया वा जुहोतु पुत्तल्या ।उडुतरुकाष्ठैर्नक्तं सप्ताहान्नृपतिमपि वशीकुरुते ॥५७॥सकपालशूलपाशाज्रुशहस्तारुणतरा तथा दुर्गा ।आकर्षयते लावणपुत्तल्या त्रिमधुराक्तया होमात् ॥५८॥ध्यात्वा धूम्रां मुसलत्रिशिखकरामस्थिभिश्च तीक्ष्णाक्तैः ।कार्पासानां निम्बच्छदमेषघृतैर्हुताच्च विद्वेषः ॥५९॥धूम्रा तर्जनिशूलाहितहस्ता विषदलैः समहिषाज्यैः ।होमाच्च मरिचसर्षपचरुभिरजारुधिरसेचितैरटयेत् ॥६०॥शिखिशूलकराग्निनिभा सर्षपतैलाक्तमत्तबीजैश्च ।मरिचैर्वा राजियुतैर्होमादहितान्विमोहयेद्दुर्गा ॥६१॥कृष्णा शूलासिकरा रिपुदिनवृक्षोद्भवैः समित्प्रवरैः ।व्रणकृद्धृतसंसिक्तैर्होमान्मासेन मारयेद्दुर्गा ॥६२॥नक्षत्रवृक्षसमिधो मरिचानि च तीक्ष्णहिङ्गुशकलानि ।मारणकर्मणि विहितान्यरुष्करस्नेहसिक्तानि ॥६३॥नक्षत्रवृक्षसमिधां विलिखितसाध्याभिधानकर्मवताम् ।सचतुश्चत्वारिंशत्तत्त्वयुजां होमकर्म मरणकरम् ॥६४॥मरिचं क्षौद्रसमेतं प्रत्यक्पुष्पीपरागसम्भिन्नम् ।उष्णाम्भःपरिलुलितं प्रसेचयेदृक्षवृक्षपुत्तल्याः ॥६५॥हृदये वदने च रिपोः सम्मुखतः सम्प्रतिष्ठितोरायाः ।जूत्येभिभूतोऽरिः स्यात्तत्क्वथनात्पक्षमात्रकान्म्रियते ॥६६॥सैव प्रतिकृतिरसकृत्प्रतिष्ठितसमीरणा च विशदधिया ।तीक्ष्णस्नेहालिप्ता विलोमजापेन तापनीयाग्नौ ॥६७॥विधिना ज्वरपीडा स्यादपघनहोमेन हानिरङ्गस्य ।सर्वाहुत्या मरणं प्राप्नोति रिपुर्न तत्र सन्देहः ॥६८॥प्राक्प्रोक्तान्भूतवर्णान्दश दश युगशो बिन्दुयुक्तान्नमोन्ता-न्योनेर्मध्याश्रमध्येष्वपि पुनरथ संस्थाप्य भूताभवर्णान् ।वर्णैस्तैः साकमग्नेर्मनुमपि कुलिशाद्यैः स्वचिह्नैः समेतंकुर्यात्कर्माणि सम्यक्पटुविशदमतिः स्तम्भनाद्यानि मन्त्री ॥६९॥ऊदोद्गादिलळाः कोर्नसौ चतुर्थार्णका वसौ वाराम् ।दृष्ट्यैद्वितीयरक्षा वह्नेद्वन्द्वयोनिकादियषाः ॥७०॥मरुतः कपोलबिन्दुकपञ्चमवर्णाः शहौ तथा व्योम्नः ।मनुषु परेष्वपि मन्त्री कर्माणि करोतु तत्र संसिद्ध्यै ॥७१॥उन्मत्तक्ष्वेलनेत्रद्रुमभवसमिधां सप्तसाहस्रिकान्तंप्रत्येकं राजितैलालुलितमथ हुनेन्माहिषाज्यप्लुतं वा ।कृष्णाष्टम्याद्यमेवं सुनियतचरितः सप्तरात्रं निशायांनिःसन्देहोऽस्य शत्रुस्त्यजति किल निजं देहमाविष्टमोहः ॥७२॥सामुद्रे च सहिङ्गुजीरकविषे साध्यक्र्षवृक्षाकृतिंकृत्वा यो वदनाञ्जले घटकटाहादिश्रिते क्वाथयेत् ।सप्ताहं ज्वलनं जपन्विषतरोर्यष्ट्या शिरस्ताडनंकुर्वन्सप्तदिनान्तरैर्यमपुरक्रीडापरः स्यादरिः ॥७३॥अर्कस्यन्दनबद्धपन्नगमुखग्रस्ताङ्घ्रिमाशाम्बरंन्यग्वक्त्रं तिलजाप्लुतं विषहरं दीप्तं करैर्भास्वतः ।वायुप्रेरितवह्निमण्डलमहाज्वालाकुलास्यादिकंध्यायन्वैरिणमुत्क्षिपेज्जलममुं मन्त्रं जपेन्मृत्यवे ॥७४॥आद्र्रांशुकोऽग्निमनुना त्वथ सप्तरात्रंसिद्धार्थतैललुलितैर्मरिचैर्जुहोतु ।आरभ्य विष्टिदिवसेऽरिनरः प्रलाप-मूर्छान्वितेन विषयीक्रियते ज्वरेण ॥७५॥तालस्य पत्रे भुजपत्रके वा मध्ये लिखेत्साध्यनराभिधानम् ।अथाभितो मन्त्रमिमं विलोमं विलिख्य भूमौ विनिखन्य तत्र ॥७६॥आधाय वैश्वानरमादरेणसमच्र्य सम्यङ्मरिचैर्जुहोतु ।तीव्रो ज्वरस्तस्य भवेत्पुनस्त-त्तोये क्षिपेद्वश्यतमः स भूयात् ॥७७॥सिंहस्थाशरनिकरैः कृशानुवक्त्रै-र्धावन्तं रिपुमनुधावमानमेनाम् ।सञ्चिन्त्य क्षिपतु जलं दिनेशबिम्बेजप्त्वामुं मनुमपि चाटनाय शीघ्रम् ॥७८॥कृत्वा स्थण्डिलमङ्गणे भगवतीं न्यासक्रमैरर्चये-द्गन्धाद्यैः पुनरन्धसा च विकिरेन्मन्त्री निशायां बलिम् ।जप्त्वा मन्त्रममुं च रोगसहिताः कृत्यानिकृत्या कृतां-स्तांस्तान्भूतपिशाचवैरिविहितान्दुःखानसौ नाशयेत् ॥७९।विधिवदभिज्वाल्यानलमन्वहमाराध्य गन्धपुष्पाद्यैः ।सन्ध्याजपाच्च मनुरयमाकाङ्क्षितसकलसिद्धिकल्पतरुः ॥८०॥कुसुमरसलुलितलोणैर्वारुणवदनो जुहोतु सन्ध्यासु ।मन्त्रार्णसङ्ख्यमग्नेरैक्येन द्रावयेदरीनचिरात् ॥८१॥शुद्धैश्च तण्डुलैरपि हविर्विनिष्पाद्य पञ्चगव्यमपि ।सघृतेन तेन जुहुयादष्टसहस्रं समेतसम्पातम् ॥८२॥प्राशितसम्पातस्य स्याद्रक्षा सर्वथैव साध्यस्य ।प्राङ्गणमन्दिरयोरपि निखनेद्वारे च शिष्टसम्पतम् ॥८३॥कृत्या नश्यति तिंस्मन्वीक्षन्ते न ग्रहादयो भीत्या ।कर्तारमेव कुपिता कृत्या सर्वात्मना च नाशयति ॥८४॥ब्रह्मद्रुमफलकान्ते मन्त्रितमः सप्तसप्तकोष्ठयुते ।कोणोदराणि हित्वा मायाबीजं सकर्ममध्यगते ॥८५॥विलिखेत्क्रमेण मन्त्राक्षरांश्च शिष्टेषु तेषु कोष्ठेषु ।तत्र मरुतः प्रतिष्ठां विधाय विनिधाय वह्निमपि जुहुयात् ॥८६॥आज्येनाष्टसहस्रं फलकोपरि सम्यगात्तसम्पातम् ।विप्रतिपत्तिधरायां निखनेन्नश्यन्त्युपद्रवाः सद्यः ॥८७॥सिकताचरुगव्याश्मकमृदां प्रतिष्ठा विधीयते सिद्ध्यै ।प्रस्थाढकघटमाना ग्रहपुरविषयाभिगुप्तये सिकताः ॥८८॥मध्याष्टाशान्तसु च कुण्डानामारचय्य नवकमपि ।विधिना निवपेत्क्रमशः सिंहधनुश्छागयायिनि दिनेशे ॥८९॥तिथिषु तु कालाष्टम्यां तेषु विशाखाग्निमूलभागेषु ।वारेषु मन्दवाक्पतिवर्जं सर्वे तथा प्रशस्यन्ते ॥९०॥हस्तश्रवणमखासु प्राजापत्येषु कर्म कुर्वीत ।द्वादशसहस्रसङ्ख्यं प्रजपेद्गायत्रमपि यथाप्रोक्तम् ॥९१॥मध्ये च मूलमनुना तदायुधैरष्टदिक्षु चक्राद्यैः ।सकपालान्तैः पृथगपि संस्थापनकर्म निगदितं विधिवत् ॥९२॥तास्ताश्च देवता अपि परिपूज्य यथाक्रमेण मन्त्रितमः ।कुर्याद्बलिं दिनग्रहकरणेभ्यो लोकपालराशिभ्यः ॥९३॥सिकताः षोडशकुडुवं ब्रह्मद्रुमभाजने तु गव्याक्तम् ।निवपति यदि विधिना तं देशं ग्रामं करोति चतुरब्दात् ॥९४॥अर्केऽजस्थेऽब्धिगायामपरिमितजलायां समादाय शुद्धाःसम्म्यक्संशोषयित्वातपमनु सिकताः शूर्पकोणैर्विशोध्य ।संसिद्धे पञ्चगव्ये सुमतिरथ विनिक्षिप्य ताः कुम्भसंस्थामन्त्राग्नौ मन्त्रजापी द्विजतरुसमिधा भर्जयेत्कार्यहेतोः ॥९५॥एवं मृदुपलचरवः संस्थाप्यन्ते सपञ्चगव्यास्ते ।वसुधाविप्रतिपत्तिक्षयं च पुष्टिं च कुर्वते क्रमशः ॥९६॥व्रीहिभिरन्नैः क्षीरैः समिद्भिरथ दुग्धवीरुधामाज्यैः ।मधुरत्रयमधुरतरैर्महतीमृद्धिं करोति हुतविधिना ॥९७॥यद्यद्वाञ्छति पुरुषस्तत्तदमुष्य प्रभावतः साध्यम् ।सग्रहनक्षत्राद्यां सगिरिपुरग्रामकाननां वसुधाम् ॥९८॥साहिझषोपलमुदधिं दहति ह मतिमानयत्नमेतेन ।एवं प्रोत्थापयति च मन्त्रेणानेन निशितधीर्मन्त्री ।पुंसा केन कियद्वा मन्त्रस्याचक्षतेऽस्य सामथ्र्यम् ॥९९॥तस्मादेनं मनुवरमभीष्टाप्तये संयतात्माजप्यान्नित्यं सहुतविधिरप्यादरादर्चयीत ।भक्त्या कुर्यात्सुमतिरभिषेकादिकं कर्मजातंकर्तुं वान्यत्प्रवणमतिरत्रैव भक्तः सदा स्यात् ॥१००॥इति श्रीमत्परमहंसपरिव्राजकाचार्यस्यश्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतःकृतौ प्रपञ्चसारे एकोनत्रिंशः पटलः ॥ N/A References : N/A Last Updated : January 21, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP