संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|प्रपञ्चसारतन्त्रम्| एकविंशः पटलः प्रपञ्चसारतन्त्रम् विशेष माहिती प्रथमः पटलः द्वितीयः पटलः तृतीयः पटलः चतुर्थः पटलः पञ्चमः पटलः षष्ठः पटलः सप्तमः पटलः अष्टमः पटलः नवमः पटलः दशमः पटलः एकादशः पटलः द्वादशः पटलः त्रयोदशः पटलः चतुर्दशः पटलः पञ्चदशः पटलः षोडशः पटलः सप्तदशः पटलः अष्टादशः पटलः एकोनविंशः पटलः विंशः पटलः एकविंशः पटलः द्वाविंशः पटलः त्रयोविंशः पटलः चतुर्विंशः पटलः पञ्चविंशः पटलः षड्विंशः पटलः सप्तविंशः पटलः अष्टाविंशः पटलः एकोनत्रिंशः पटलः त्रिंशः पटलः एकत्रिंशः पटलः द्वात्रिंशः पटलः त्रयस्त्रिंशः पटलः एकविंशः पटलः प्रपञ्चसारतन्त्रम् (Prapancasaratantra), ज्याचा अर्थ 'ब्रह्मांडाचे सार' असा आहे. Tags : prapanchasarshankaracharyaप्रपञ्चसारतन्त्रशंकराचार्य एकविंशः पटलः Translation - भाषांतर अथोच्यते द्वादशवर्णसंज्ञो मन्त्रस्तु साङ्गः सजपः सहोमः ।विधानतो यं प्रतिजप्य भक्ता भुक्तेश्च मुक्तेश्च पदं भवेयुः ॥१॥तारं सहृदयं मध्ये गवते स्युर्भवार्णयोः ।सुययोश्च तथा देवा मन्त्रोऽयं द्वादशाक्षरः ॥२॥ऋषिः प्रजापतिश्छन्दो गायत्रं विष्णुरुच्यते ।देवता हृद्ध्रुवेण स्यान्नमसा शिर उच्यते ॥३॥चतुर्भिश्च शिखावर्णैः पञ्चभिः कवचं भवेत् ।प्रोक्तमस्त्रं समस्तेन पञ्चाङ्गविधिरीदृशः ॥४॥सपादजानुयुगललिङ्गनाभ्युदरेषु च ।हृद्दोर्गलास्यदृङ्मस्तशिखास्वक्षरतो न्यसेत् ॥५॥शिखाललाटनेत्रास्यगलदोर्हृदयेषु च ।स्कुक्षिनाभिलिङ्गाख्यजानुपादेषु विन्यसेत् ॥६॥हृत्कुक्षिनाभिषु तथा गुह्यजानुपदेष्वधः ।करकण्ठास्यदृङ्मस्तशिखासूध्र्वं च विन्यसेत् ॥७॥संहृतेर्दोषसंहारः सृष्टेश्च शुभपुष्टयः ।स्थितेश्च शान्तिविन्यासस्तस्मात्कार्यस्त्रिधा मतः ॥८॥हरिमुज्ज्वलचक्रदराब्जगदाकुलदोः परिघं सितपद्मगतम् ।वलयाङ्गदहारकिरीटधरं नवकुन्दरुचं प्रणमामि सदा ॥९॥विधिवदथ विहितदीक्षो जपेन्मनुं वर्णलक्षमानममुम् ।शुद्धैश्च तिलैर्जुहुयाद्वादशसाहस्रकं तथा मन्त्री ॥१०॥पीठे हरेरथाङ्गैः सशक्तिभिर्मूर्तिभिस्तदनु यजेत् ।केशवसुरनाथाद्यैरपि देवं भक्तिपूर्वतो विद्वान् ॥११॥समिधामथ दुग्धवृक्षजानां जुहुयादर्कसहस्रकं सदुग्धम् ।मनसः परिशुद्धये मनस्वी सघृतेनापि पयोन्धसा सितेन ॥१२॥द्वादशाक्षरजपं तु सार्चनं यो भजेत्सुनियतो दिने दिने ।ऐहिकं समुपलभ्य वाञ्छितं प्रेत्य याति पदमक्षयं हरेः ॥१३॥अथ प्रवक्ष्यामि सुदर्शनस्य विधिं मनोज्ञं ग्रहतेजपादैः ।यत्सिद्धितः सिद्धिमवाप्य रम्यां सिद्धामुनीन्द्रा अपि सद्य एव ॥१४॥अन्त्यतुरीयतदादिकभृगुदहनानन्तवह्निवर्मास्त्रैः ।तारादिर्मनुरुक्तः स्यादभिमतसिद्धिदो रथाङ्गाख्यः ॥१५॥ऋषिरस्याहिर्बुध्न्यश्छन्दोऽनुष्टुपं देवता विष्णुः ।चक्रपदैराविसुधी सज्वालाद्यैः शिरोन्वितैरङ्गम् ॥१६॥ऐन्द्रीं समारभ्य दिशं त्वधस्ता-दन्तं समुक्त्वा क्रमशो दशानाम् ।चक्रेण बध्नामि नमस्तथोक्त्वाचक्राय शीर्षं च दिशां प्रबन्धः ॥१७॥त्रैलोक्यं रक्ष रक्षेति हुम्फट्स्वाहेति चोदितः ।तारादिकोऽयं मन्त्रः स्यादग्निप्राकारसंज्ञकः ॥१८॥तारं तु मूध्न्र्यथ सितारुणकृष्णवर्णंमध्ये भ्रुवोश्च समथो वदने हकारम् ।हृद्गुह्यजानुपदसन्धिषु चावशिष्टा-न्वर्णान्न्यसेदिति तनौ पुनरग्निवर्णान् ॥१९॥अव्याद्भास्करसप्रभाभिरखिला भाभिर्दिशो भासय-न्भीमाक्षः क्षरदट्टहासविकसद्दंष्ट्राग्रदीप्ताननः ।दोर्भिश्चक्रदरौ गदाब्जमुसलास्त्रासींश्च पाशाज्रुशौबिभ्रत्पिङ्गशिरोरुहोऽथ भवतश्श्चक्राभिधानो हरिः ॥२०॥प्रोक्त्वा सुदर्शनायेति विद्महेऽन्ते महापदम् ।ज्वालाय धीमहे चोक्त्वा तन्नश्चक्रः प्रचोदयात् ॥२१॥सौदर्शनीयं गायत्री जप्तव्या जप्तुमिच्छता ।सान्निध्यकारिणीं मुद्रां दर्शयेदनया सुधीः ॥२२॥नमो भगवते प्रोक्त्वा महासुदर्शनाय च ।महाचक्राय च तथा महाज्वालाय चेत्यथ ॥२३॥दीप्तिरूपाय चेत्युक्त्वा सर्वतो रक्ष रक्ष माम् ।महाबलाय स्वाहेति प्रोक्तस्तारादिको मनुः ।रक्षाकरः प्रसिद्धोऽयं क्रियमाणेषु कर्मसु ॥२४॥षट्कोणान्तःस्थतारं विवरलिखितमन्त्राक्षरं सिद्धिराज-त्स्वाङ्गं बाह्ये कलाकेसरमुदरगताष्टाक्षरं चाष्टपत्रम् ।पद्मं वर्णैर्विराजद्विकृतिदललसत्षोडशार्णं त्रिवीतंव्योमान्त्यार्णं स्वनाम्ना विरचितगुणपाशाज्रुशं चक्रयन्त्रम् ॥२५॥प्रणवहृद्भगवद्युतङे महादिकरथाङ्गचतुर्थिहुमस्त्रकैः ।निगदितस्त्विह षोडशवर्णको मनुवरो मुनिभिर्विहितादरः ॥२६॥क्वाथैः पयोभूरुहचर्मसिद्धैर्दुग्धेन गव्यैरपि पञ्चभिर्वा ।मूत्रैः पशोर्वा प्रतिपूर्य कुम्भं समर्चयेच्चक्रहिंर यथावत् ॥२७॥अङ्गैः प्रथमावृतिरपि पूज्या चक्रादिभिर्द्वितीया च ।लक्ष्म्यादिभिस्तृतीया क्रमात्तथेन्द्रादिभिश्चतुर्थी स्यात् ॥२८॥चक्रशङ्खगदापद्ममुसला धनुरेव च ।पाशाज्रुशौ पीतरक्तसितश्यामा द्विजस्त्विमाः ॥२९॥लक्ष्मीः सरस्वती चाथ रतिः प्रीत्याह्वया तथा ।कीर्त्तिः कान्तिस्तुष्टिपुष्टी क्रमेणैव तु शक्तयः ॥३०॥सम्पूज्य चैवं विधिना हिंर तुशिष्यं गुरुः प्रीततमोऽभिषिञ्चेत् ।भक्त्या स्वशक्त्या विभवैर्द्विजाती-न्सन्तप्र्य भूयो गुरुणानुशिष्टः ॥३१॥एकाग्रचित्तो रविलक्षसङ्ख्यंजपेन्मनुं नित्यकृताभिपूजः ।तावत्सहस्रं किल सर्षपाश्चबिल्वाज्यदौग्धानि जुहोतु सम्यक् ॥३२॥समुद्रतीरेऽप्यथ वाद्रिशृङ्गे समुद्रगानां सरितां च तीरे ।जपेद्विविक्ते निज एव गेहे विष्णोगृहे वा पुरुषो मनस्वी ॥३३॥यथोक्तसङ्ख्यं विधिवत्प्रजप्तेमन्त्रं यथोक्तैश्च हुते हुताशे ।द्रव्यैरथ स्वार्थपरार्थहेतोःकुर्यात्प्रयोगान्विधिना यथावत् ॥३४॥पीताभा र्किणका स्यादरुणतरमरं श्यामलं चान्तरालंनेमि श्वेतं च बाह्ये विरचितशितिरेखाकुलं पार्थिवान्तम् ।चक्रद्वन्द्वं लिखित्वा विशदमतिरथो सौम्ययाम्यं च मन्त्रीकुम्भं सम्पूर्य सौम्ये प्ररचयतु तथा दक्षिणे होमकर्म ॥३५॥षड्विंशच्छतसम्मितैरथ घृतापामार्गजेध्माक्षतैःसद्राजीतिलपायसैश्च सकलैद्र्रव्यैर्घृतान्तैः क्रमात् ।हुत्वा तद्धुतशिष्टमत्र विधिवत्क्षिप्त्वा प्रतिद्रव्यकंप्रस्थार्धान्नकृतं च पिण्डममलं कुम्भोदके मन्त्रवित् ॥३६॥संस्थाप्य दक्षिणस्यां साध्यं कुम्भेन तेन नीराज्य ।तमथ घटं सद्रव्यं बहिरारादष्टमे क्षिपेद्राशौ ॥३७॥अग्न्यादिकमपि सर्वं क्षिपेदथ घटस्य दक्षिणे भागे ।हुतशिष्टान्नेन बलिं मन्त्रेणानेन मन्त्रवित्कुर्यात् ॥३८॥हृदयान्ते विष्णुपदं प्रोक्त्वाथ गणेभ्य उच्चरेत्सर्वम् ।शान्तिकरेभ्यश्च बलिं गृह्ण्न्त्विति शान्तये नमोन्तं स्यात् ॥३९॥ज्वारादिकां रोगपरम्परां वा विस्मृत्यपस्मारभवां रुजं वा ।रक्षःपिशाचग्रहवैकृतं वा विधिस्त्वयं मुङ्क्षु हरेद्विकारम् ॥४०॥पालाशैर्वा स्तनजद्रुमजैर्वा पञ्जरे कृते फलकैः ।सम्पूर्य पञ्चगव्यैस्तत्र तु संस्थाप्य शुद्धमपि गदिनम् ॥४१॥पूर्वोद्दिष्टैर्दिक्ष्वपि सजपं जुहुयुः पृथग्द्विजा वशिनः ।द्रव्यैः स दक्षिणान्तानभ्यच्र्य विमुच्यते रुजो जन्तुः ॥४२॥विप्रक्षीरद्रुमत्वङ्गलयजपुरकाश्मीरकुष्ठत्रियामाबिल्वापामागराजीतिलतुलसियुगक्रान्तिदूर्वायवार्कैः ।लक्ष्मीदेवीकुशागोमयकमलवचारोचनापञ्चगव्यैःसिद्धेऽग्नौ कुम्भसिद्धं मनुजपमहितं भस्म सर्वार्थदायि ॥४३॥लक्ष्म्यायुष्करमतुलं पिशाचभूता-पस्मारादिकमचिरेण नाशयेच्च ।क्षुद्रादीनपि विविधांस्तथापसर्गा-नेतस्मान्न परतरा समस्ति रक्षा ॥४४॥जुहुयाद्गुग्गुलुगुळिकासहस्रकं साष्टकं च मन्त्रितमः ।त्रिदिनं चतुर्दिनं वा सर्वोपद्रवनिवारणं भवति ॥४५॥स्वरमञ्जर्याः समिधामयुतं वा मन्त्रवित्तमो जुहुयात् ।ज्वरभूतामयविस्मृत्यपस्मृतीः शमयितुं नियतचित्तः ॥४६॥आज्याक्तैजुहुयाच्छ्रिये सरसिजैर्दूर्वाभिरप्यायुषेमेधायै द्विजभूरुहैश्च कुमुदैः श्वेतैस्तथा वाससे ।शुद्धाज्यैः पशवेऽप्युदुम्बरभवैः पुत्राय चाश्वत्थजै-रेकाब्दं विधिवत्सहस्रसमितैरष्टोत्तरं मुक्तये ॥४७॥चक्रस्य नाभिसंस्थं कृत्वात्मानं मनुं जपेन्मन्त्री ।स्वयमेकोऽपि न युद्धे मत्र्यो बहुभिः पराजितो भवति ॥४८॥मन्त्री सुनियतचित्तश्चक्रस्थं भ्रामयेद्धिया ग्रस्तम् ।आविश्य सकलमुक्त्वा मुञ्चति दग्धोऽग्निना शुनाभिभुवा ॥४९॥दीप्तं करालदहनप्रतिमं च चक्रंयस्य स्मरेच्छिरसि कस्यचिदप्रियस्य ।सप्ताहतोऽस्य दहनप्रतिमो ज्वरः स्या-त्त्रिंशद्दिनैश्च स परेतपुरं प्रयाति ॥५०॥कलावृतं चाहिपदाभिवेष्टितंसमक्षरं यच्छिरसि स्मरेत्सदा ।दशाहतोऽसौ प्रति चाट्यते रिपु-र्मृतिं तथा मण्डलतः प्रयाति ॥५१॥सान्तं वायसवर्णं शत्रोः शिरसि स्मरेच्च सप्ताहम् ।उच्चाटयति क्षिप्रं मारयतोवाधिवोऽस्य नैशित्यात् ॥५२॥स्रवत्सुधार्विषणमिन्दुसप्रभंसमुज्ज्वलं यच्छिरसि प्रचिन्तयेत् ।क्षणात्समाप्यायितसर्वविग्रहोभवेत्स मत्र्यः सुचिरं च जीवति ॥५३॥मध्ये तारं तदनु च मनुं वर्णशः कोण षट्केबाह्ये चाङ्गं लिखतु करके रूप्यके वापि ताम्रे ।पाषाणे वा विधिवदथ जप्याथ संस्थापितं त-च्चक्रं चोरग्रहरिपुभयध्वंसि रक्षाकरं च ॥५४॥स्थाने हृषीकेशविर्दिभतं च स्पष्टाक्षरं चाप्यभिजप्तमेतत् ।रक्षां ग्रहादेः सततं विधत्ते यन्त्रं सुकॢप्तं च मनुत्रयेण ॥५५॥अष्टाक्षरान्तरितपादचतुष्ककोष्ठंकोष्ठत्रयालिखितसाध्यसुदर्शनं च ।रेखाभिरप्युभयतः श्रुतिशः प्रबद्धंतत्सप्तकोष्ठमिति यन्त्रमिदं प्रशस्तम् ॥५६॥भूर्जे वा क्षौमपट्टे तनुमसृणतरे कर्पठे वास्य यन्त्रंमन्त्री सम्यग्लिखित्वा पुनरपि गुलिकीकृत्य लाक्षाभिवीतम् ।कृत्वा भस्मादिहोमप्रविहितघृतसम्पातपातात्तशक्तिंजप्तं सम्यङ्निदध्यात्प्रतिशममुपयान्त्येव सर्वे विकाराः ॥५७॥इति श्रीमत्परमहंसपरिव्राजकाचार्यस्यश्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतःकृतौ प्रपञ्चसारे एकविंशः पटलः ॥ N/A References : N/A Last Updated : January 21, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP