संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|प्रपञ्चसारतन्त्रम्| षड्विंशः पटलः प्रपञ्चसारतन्त्रम् विशेष माहिती प्रथमः पटलः द्वितीयः पटलः तृतीयः पटलः चतुर्थः पटलः पञ्चमः पटलः षष्ठः पटलः सप्तमः पटलः अष्टमः पटलः नवमः पटलः दशमः पटलः एकादशः पटलः द्वादशः पटलः त्रयोदशः पटलः चतुर्दशः पटलः पञ्चदशः पटलः षोडशः पटलः सप्तदशः पटलः अष्टादशः पटलः एकोनविंशः पटलः विंशः पटलः एकविंशः पटलः द्वाविंशः पटलः त्रयोविंशः पटलः चतुर्विंशः पटलः पञ्चविंशः पटलः षड्विंशः पटलः सप्तविंशः पटलः अष्टाविंशः पटलः एकोनत्रिंशः पटलः त्रिंशः पटलः एकत्रिंशः पटलः द्वात्रिंशः पटलः त्रयस्त्रिंशः पटलः षड्विंशः पटलः प्रपञ्चसारतन्त्रम् (Prapancasaratantra), ज्याचा अर्थ 'ब्रह्मांडाचे सार' असा आहे. Tags : prapanchasarshankaracharyaप्रपञ्चसारतन्त्रशंकराचार्य षड्विंशः पटलः Translation - भाषांतर अथ प्रवक्ष्यते मन्त्रो दक्षिणामूर्तिसंज्ञकः ।जपतामिष्टसंसिद्धिविधानसुरपादपः ॥१॥अत्रिः क्षिणा कालकर्णकामिकायुग्र्येक्षराः ।तुध्यामध्यगताः स्युभ्र्यं वटमूलनिवासिने ॥२॥नैधातृनिरताङ्गाय नमो रुद्राय शम्भवे ।तारशक्तिनिरुद्धोऽयं मन्त्रः षट्त्रिंशदक्षरः ॥३॥शुकः प्रोक्तो मुनिश्छन्दोऽनुष्टुप्च समुदाहृतम् ।दक्षिणामूर्तिरुद्रोऽस्य देवता समुदीरिता ॥४॥तारशक्त्यादिकैर्हाङाद्यन्तैर्मन्त्राक्षरैः क्रमात् ।ऋत्वक्षिवसुवस्वग्निगुणवर्णैर्विभागशः ॥५॥मन्त्री कुर्यात्षडङ्गानि जातियुञ्जि समाहितः ।कालिकश्रुतिदृग्गण्डद्वयनासास्यके दश ॥६॥दोः सन्धिकण्ठस्तनहृन्नाभिकट्यन्धुषु क्रमात् ।पत्सन्धिषु पुनर्द्वाभ्यां मन्त्रविद्व्यापकं न्यसेत् ।एवं न्यस्तशरीरोऽथ चिन्तयेन्मन्त्रदेवताम् ॥७॥मुद्रां भद्रार्थदात्रीं सपरशुहरिणां बाहुभिर्बाहुमेकंजान्वासक्तं दधानो भुजगवरसमाबद्धकक्ष्यो वटाधः ।आसीनश्चन्द्रखण्डप्रतिघटितजटः क्षीरगौरस्त्रिणेत्रोदद्यादाद्यैः शुकाद्यैर्मुनिभिरभिनुतो भावशुद्धिं भवो वः ॥८॥प्राक्प्रोक्तविधानेन च सम्यक्सम्पूज्य साधु कलशाद्यैः ।कृतसन्दीक्षो मन्त्री जप्यादेनं मनुं समाहितधीः ॥९॥द्वात्रिंशदयुतमानं जप्याच्च जुहोतु तद्दशांशमितैः ।दुग्धाप्लुतैस्तिलैर्वा साज्येन पयोन्धसा द्वयेनापि ॥१०॥जप्त्वैवं मन्त्रमेनं दिनमनु गिरिशं पूजयित्वा च हुत्वानत्वा स्तुत्वा मनोवाक्तनुभिरवहितः प्राप्य कामानशेषान् ।व्याख्याता चागमानां भुवि कविषु वरः साधु वेदान्तवेदीवादीट् सोऽद्वैतविद्याविमलतरमतिर्याति शैवं पदं तत् ॥११॥जीवशिखिकर्णरेफान्प्रतिवीप्स्य प्रादिकांश्च पुनरपि तान् ।मेधाप्यायिनियान्तांस्तानेव तरान्तिकान्सतनुरूपान् ॥१२॥आभाष्य चटप्रचटौ सकहवमौ बन्धघातयौ वीप्स्य ।प्रोक्त्वा वर्मास्त्रावधि समुद्धरेच्छक्तिपूर्वकं मन्त्रम् ॥१३॥ऋषिरस्याघोराख्यः सम्प्रोक्तस्त्रिष्टुबुच्यते च्छन्दः ।रुद्रोऽप्यघोरपूर्वः समीरितो देवता तथास्य मनोः ॥१४॥हृत्पञ्चभिस्तदर्णैः शिरो हि षड्भिः शिखा तथा दशभिः ।तावद्भिरेव कवचं दृगष्टभिर्द्वादशभिरपि चास्त्रम् ॥१५॥कदृगास्यकण्ठहृन्नाभ्यन्धूरुषु जानुजङ्घयोः पदयोः ।एकादशधा भिन्नैर्मन्त्रार्णैन्र्यसतु विग्रहे मन्त्री ॥१६॥पञ्चभिरथो सषड्भिर्द्वाभ्यामप्यष्टभिश्चतुर्भिश्च ।षड्भिश्चतुस्त्रयेण च षड्भिद्यर्द्वाभ्यां च भेदितैः क्रमशः ॥१७॥कालाभ्राभः कराग्रैः परशुडमरुकौ खड्गखेटौ च बाणे-ष्वासौ शूलं कपालं दधदतिभयदो भीषणास्यस्त्रिणेत्रः ।रक्ताकाराम्बरो हि प्रवरघटितगात्रोऽरिनागग्रहादी-न्खादन्निष्टार्थदायी भवदनभिमतच्छित्तये स्यादघोरः ॥१८॥स्वच्छो मुमुक्षोस्तु भवेदघोरःकाम्यक्रियायामपि रक्तवर्णः ।कृष्णोऽभिचारे ग्रहवैकृते चप्रोक्तो जपः स्यादपि लक्षमानम् ॥१९॥घृतावसिक्तैस्तिलतण्डुलैश्च जयावसाने जुहुयाद्दशांशम् ।घृतप्लुतैर्वाथ हविर्भिरेवं तावत्प्रजुह्वन्समुपैति कामान् ॥२०॥हृल्लेखास्थितसाध्याक्षरविलसत्र्किणकं कलावीतम् ।वर्गाष्टकात्तकेसरमन्त्ये सहळक्षयाक्षरोल्लसितम् ॥२१॥मन्त्राक्षरत्रयोद्यद्दलमध्यदलाग्रकं च तद्बाह्ये ।वह्निपुटाश्रिसामाश्रितकवचास्त्रं प्रतिविलिख्य यन्त्रमिदम् ॥२२॥कृत्वा समाप्य मण्डलमत्र विनिक्षिप्य पूरयेत्कलशम् ।पीठे पिनाकपाणेर्गव्यैर्वा क्वाथकॢप्ततोयैर्वा ॥२३॥अङ्गावृतेरनु च हेतिभिरीरिताभिःपश्चाच्च मातृभिरथापि दिशाधिनाथैः ।सम्पूजयीत विधिनेति षडक्षरोक्त-मार्गेण वा मनुपरिस्फुरणाय मन्त्री ॥२४॥आज्यापामार्गसमित्तिलसर्षपपायसाज्यकैश्च पृथक् ।रात्रौ सहस्रहोमाद्भूतद्रोहादिशान्तिरुद्दिष्टा।२५॥सितकिंशुकनिर्गुण्डीकनकापामार्गजन्मनां समिधाम् ।पृथगपि सहस्रहोमान्निग्रहमोक्षोऽचिराद्ग्रहाणां स्यात् ॥२६॥गव्याक्तैर्जुहुयात्पृथग्दशशतं मन्त्री मयूरेध्मकै-र्भूयस्तैश्चतुरङ्गुलैश्च शिवपञ्चम्यां निशायां हुनेत् ।र्सिपर्मार्गसपञ्चगव्यचरुर्सिपः ससम्पातकंहुत्वा तत्प्रतिभोजयेत्प्रतिशमं यान्त्येव सर्वे ग्रहाः ॥२७॥षट्कोणे र्किणकायां स्फुरयुगलवृतां साध्यगर्भां च शक्तिंकोणाग्रे प्रस्फुरद्वन्द्वकमथ विलिखेन्मन्त्रवर्णान्दलेषु ।षड्वेदद्वन्द्वषड्वेदकचतुर्युगपट्सङ्ख्यकान्बाह्यषट्केवर्मास्त्रार्णां तदेतद्ग्रहगदभयहृद्यन्त्रमाघोरमाहुः ॥२८॥न च रिपवो न च रोगा न ग्रहपीडा न शस्त्रबाधा च ।न क्ष्वेलरुजा मत्र्यान्स्पृशन्त्यघोरास्त्रमन्त्रजापपरान् ॥२९॥तस्मादघोरास्त्रमनुं प्रजप्यात्समर्चयेत्तद्विहितं यथावत् ।हुनेच्च तेनैव समस्तवाञ्छासंसिद्धये चाथ विमुक्तये च ॥३०॥खसप्तमः कर्णयुतोऽर्धचन्द्रवा-ल्ँलपञ्चमो द्वीन्दुयुतो ध्रुवादिकः ।मनुः स्वयं मृत्युजयात्मकः स्फुटंसमीरितः साधकरक्षणक्षमः ॥३१॥ऋषिरस्य कहोलाख्यश्छन्दो देव्यादिका च गायत्री ।स्याद्देवता च मृत्युञ्जयरुद्रोऽङ्गान्यथाचरेद्भृगुणा ॥३२॥स्फुटितनलिनसंस्थं मौलिबद्धेन्दुरेखा-गलदमृतजलाद्र्रं चन्द्रवह्न्यर्कनेत्रम् ।स्वकरकलितमुद्रापाशवेदाक्षमालंस्फटिकरजतमुक्तागौरमीशं नमामि ॥३३॥जप्तव्योऽयं मन्त्रवर्यस्त्रिलक्षं दीक्षापूर्वं होमकृत्स्याद्दशांशैः ।दुग्धाज्याक्तैः शुद्धखण्डैर्गलूच्या गुर्वादेशात्साधको हव्यवाहे ॥३४॥अर्चा कार्या नित्यशः शैवपीठेस्यादप्यङ्गैर्लोकपालैस्तदस्त्रैः ।सम्यक्पूजावस्तुभिर्मन्त्रजापैःप्रोक्तं ह्येतन्मृत्युभेत्तुर्विधानम् ॥३५॥इति जपहुतार्चनाद्यैः सिद्धो मन्त्रोक्तमूर्तिविहितमनुः ।सम्भावयेन्निजान्तर्योगं कृत्यापमृत्युनाशकरम् ॥३६॥तारनालमथ मध्यपत्रकं हाद्यर्किणकयुतं क्रमोत्क्रमात् ।चिन्तयेन्नियतमन्तरा शिवं नीरुजे च नियतायुषेऽब्जयोः ॥३७॥ऊध्र्वाधःप्रोतपद्मद्वयदलनिचितैरक्षराद्यैर्ध्रवाद्यै-राद्यन्तैर्मन्दमन्दप्रतिगलितसुधापूरसंसिच्यमानम् ।ईशानं सूक्ष्मरूपं विमलतरसुषुम्नान्तरा सन्निषण्णंध्यायन्नाप्नोति रोगैर्नियतपरिहृतः सञ्जपाद्दीर्घमायुः ॥३८॥आदौ तारं विलिखतु ससाध्याह्वयं र्किणकायांदिक्पत्रेष्वप्यपरमपरं चापि तत्कोणकेषु ।भूयो भूमेः पुरमनु मृगाज्र्ं तदश्रेषु टान्तंजप्त्वा बन्धं ग्रहगदविषध्वंसि यन्त्रं तदेतत् ॥३९॥इति कृतयन्त्रविभूषितमण्डलमध्ये निधाय कलशमपि ।आपूर्य चाभिषिञ्चेच्छ्रीवश्यकरं ग्रहाभिचारहरम् ॥४०॥ततश्छिन्नोद्भवानां तु समिद्भिश्चतुरङ्गुलैः ।दुग्धसिक्तैः समिद्धेऽग्नौ षट्सहस्रद्वयं हुनेत् ॥४१॥यस्तु वह्नौ जुहोत्येवं यावत्सङ्ख्येन साधकः ।तावत्सङ्ख्यैः सुधाकुम्भैरग्निः प्रीणाति शङ्करम् ॥४२॥आप्यायितोऽग्निना शर्वः साधकस्येप्सितान्वरान् ।प्रदद्यादायुराद्यांश्च दुरन्तान्प्रलयान्तिकान् ॥४३॥मन्त्रान्ते साध्याख्यां पालययुगलं प्रतीपमपि मन्त्रम् ।प्रोक्त्वा समापयेन्मनुमयमपि मृत्युञ्जयाह्वयो मन्त्रः ॥४४॥अथ वामलकमलपुटान्तरितं शिशुवेषभूषणं रुद्रम् ।ध्यात्वा जपेद्यथावद्धुतकॢप्त्या मृत्युनाशनं दृष्टम् ॥४५॥चतुरङ्गुलपरिमाणैरमृताखण्डैरथार्कसाहस्रम् ।जुहुयाच्च दुग्धसिक्तैरारोग्यायायुषे च लक्ष्म्यै च ॥४६॥अमृतावटतिलदूर्वाः पयो घृतं पायसं क्रमेणेति ।सप्तद्रव्याण्युक्तान्येतैर्जुहुयात्पृथक्सहस्रतयम् ॥४७॥तीवेर ज्वरे घोरतरेऽभिचारेसोन्मादके दाहगदे च मोहे ।तनोति शान्तिं नचिरेण होमःसञ्जीवनं चाब्दशतप्रमाणम् ॥४८॥सम्भोजयेद्धोमदिने च विप्रा-न्सप्ताधिकान्स्वादुभिरन्नजातैः ।सतर्णका गाश्च हुतावसानेदद्याद्विजेभ्यो हुतकर्मकृभ्द्यः ॥४९॥निजजन्मदिने शतं शतं योजुहुयाद्द्रव्यवरैः ससप्तसङ्ख्यैः ।मधुरैरपि भोजयेच्च विप्रा-नभिवाञ्छन्नियमेन दीर्घमायुः ॥५०॥अथ वा सप्तभिरैतैद्र्रव्यैरेकेन वा सहस्रतयम् ।जन्मक्र्षे होममात्रान्निरुपद्रवमुत्तमं व्रजेदायुः ॥५१॥दूर्वात्रितयैर्जुहुयान्मन्त्रविदेकादशाहुतीर्दिनशः ।जित्वापमृत्युरोगान्प्रयात्यसावायुषश्च दैघ्र्यमपि ॥५२॥जन्मक्र्षाणां त्रितये च्छिन्नाकाष्मर्यवकुलकैरिध्मैः ।क्रमशो हुनेत्सहस्रं नश्यन्त्यपमृत्युरोगदुरितानि ॥५३॥सितसिद्धार्थसहस्राहुत्या नश्यन्त्युपद्रवा ज्वरजाः ।तद्वदपामार्गहुता मृत्युञ्जयमप्यरोगतां लभते ॥५४॥प्रोक्तैध्र्यानजपार्चनाहुतविधानाद्यैश्च मृत्युञ्जयंयो मन्त्री प्रभजन्मनुं प्रतिदिनं प्रातः प्रसन्नाशयः ।तस्येष्टानि भवन्ति संसृतिरपि स्फीता च पुत्रादयःसम्पन्नः सुसुखी च जीवति चिरं देहापदि स्याच्छिवः ॥५५॥इति श्रीमत्परमहंसपरिव्राजकाचार्यस्यश्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतःकृतौ प्रपञ्चसारे षड्विंशः पटलः ॥ N/A References : N/A Last Updated : January 21, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP