संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|प्रपञ्चसारतन्त्रम्| अष्टादशः पटलः प्रपञ्चसारतन्त्रम् विशेष माहिती प्रथमः पटलः द्वितीयः पटलः तृतीयः पटलः चतुर्थः पटलः पञ्चमः पटलः षष्ठः पटलः सप्तमः पटलः अष्टमः पटलः नवमः पटलः दशमः पटलः एकादशः पटलः द्वादशः पटलः त्रयोदशः पटलः चतुर्दशः पटलः पञ्चदशः पटलः षोडशः पटलः सप्तदशः पटलः अष्टादशः पटलः एकोनविंशः पटलः विंशः पटलः एकविंशः पटलः द्वाविंशः पटलः त्रयोविंशः पटलः चतुर्विंशः पटलः पञ्चविंशः पटलः षड्विंशः पटलः सप्तविंशः पटलः अष्टाविंशः पटलः एकोनत्रिंशः पटलः त्रिंशः पटलः एकत्रिंशः पटलः द्वात्रिंशः पटलः त्रयस्त्रिंशः पटलः अष्टादशः पटलः प्रपञ्चसारतन्त्रम् (Prapancasaratantra), ज्याचा अर्थ 'ब्रह्मांडाचे सार' असा आहे. Tags : prapanchasarshankaracharyaप्रपञ्चसारतन्त्रशंकराचार्य अष्टादशः पटलः Translation - भाषांतर अथ प्रणवसंज्ञकं प्रतिवदामि मन्त्रं परंसजापमपि सार्चनं सहुतकॢप्ति सोपासनम् ।अशेषदुरितापहं विविधकामकल्पद्रुमंविमुक्तिफलसिद्धिदं विमलयोगिसंसेवितम् ॥१॥आद्यस्वरः समेतोऽमरेण सधसप्तमश्च बिन्दुयुतः ।प्रोक्तः स्यात्प्रणवमनुस्त्रिमात्रिकः सर्वमन्त्रसमवायी ॥२॥मन्त्रस्यास्य मुनिः प्रजापतिरथ च्छन्दश्च देव्यादिकागायत्री गदिता जगत्सु परमात्माख्यस्तथा देवता ।अक्लीबैर्युगमध्यगध्रुवयुतैरङ्गानि कुर्यात्स्वरै-र्मन्त्री जातियुतैश्च सत्यरहितैर्वा व्याहृतीभिः क्रमात् ॥३॥विष्णुं भास्वत्किरीटाङ्गदवलयुगाकल्पहारोदराङ्घ्रि-श्रोणीरूपं सवक्षोमणिमकरमहाकुण्डलामण्डिताङ्गम् ।हस्तोद्यच्चक्रशङ्खाम्बुजगदममलं पीतकौशेयमाशा-विद्योतद्भासमुद्यद्दिनकरसदृशं पद्मसंस्थं नमामि ॥४॥दीक्षितो मनुमिमं शतलक्षं सञ्जपेत्प्रतिहुनेच्च दशांशम् ।पायसैर्घृतयुतैश्च तदन्ते विप्रभूरुहभवाः समिधो वा ॥५॥र्सिपःपायसशालीतिलसमिदाद्यैरनेन यो जुहुयात् ।ऐहिकपारत्रिकमपि स तु लभते वाञ्छितं फलं नचिरात् ॥६॥अभ्यच्र्य वैष्णवमथो विधिनैव पीठ-मावाह्य तत्र सकलार्थकरं मुकुन्दम् ।अङ्गैः समूर्तियुगशक्तियुगैः सुरेन्द्र-वङ्कादिकैर्यजतु मन्त्रिवरः क्रमेण ॥७॥वासुदेवः सङ्कर्षणः प्रद्युम्नश्चानिरुद्धकः ।स्फटिकस्वर्णदूर्वेन्द्रनीलाभा वर्णतो मताः ॥८॥चतुर्भुजाश्चक्रशङ्खगदापज्र्जधारिणः ।किरीटकेयूरिणश्च पीताम्बरधरा अपि ॥९॥सशान्तिश्रीसरस्वत्यौ रतिश्चाश्रिदलाश्रिताः ।अच्छपद्मरजोदुग्धदूर्वावर्णाः स्वलङ्कृताः ॥१०॥आत्मान्तरात्मपरमज्ञानात्मानस्तु मूर्तयः ।निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिश्च शक्तयः ॥११॥ज्वलज्ज्वालासमाभाः स्युरात्माद्या मूर्तिशक्तयः ।इति पञ्चावरणकं विधानं प्रणवोद्भवम् ॥१२॥इत्थं मन्त्री तारममुं जापहुतार्चा-भेदैरङ्गीकृत्य च योगानपि युञ्ज्यात् ।यैः संलब्ध्वा चेह समग्रां श्रियमन्तेशुद्धं विष्णोर्धाम परं प्राप्स्यति योगी ॥१३॥करपादमुखादिविहीनमनारतदृश्यमनन्यगमात्मपदम् ।यमिहात्मनि पश्यति तत्त्वविदस्तमिमं किल योगमिति ब्रुवते ॥१४॥योगाप्तिदूषणपरं त्वथ कामकोप-लोभप्रमोहमदमत्सरतेति षट्कम् ।वैरं जयेत्सपदि योगविदेनमङ्गै-र्योगस्य धीरमतिरष्टभिरिष्टदैश्च ॥१५॥यमनियमासनपवनायामाः प्रत्याहृतिश्च धारणया ।ध्यानं चापि समाधिः प्रोक्तान्यङ्गानि योगयोग्यानि ॥१६॥सत्यमहिंसा समता धृतिरस्तेयं क्षमार्जवं च तथा ।वैराग्यमिति यमः स्यात्स्वाध्यायतपोऽर्चनाव्रतानि तथा ॥१७॥सन्तोषश्च सशौचो नियमः स्यादासनं च पञ्चविधम् ।पद्मस्वस्तिकभद्रकवङ्काकवीराह्वयं क्रमात्तदपि ॥१८॥रेचकपूरककुम्भकभेदात्त्रिविधः प्रभञ्जनायामः ।मुञ्चेद्दक्षिणयानिलमथानयेद्वामया च मध्यमया ॥१९॥संस्थापयेच्च नाड्येत्येवं प्रोक्तानि रेचकादीनि ।षोडशतद्विगुणचतुःषष्टिकमात्राणि तानि च क्रमशः ॥२०॥चित्तात्मैक्यधृतस्य प्राणस्य स्थानसंहृतिः स्थानात् ।प्रत्याहारो ज्ञेयश्चैतन्ययुतस्य सम्यगनिलस्य ॥२१॥स्थानस्थापनकर्म प्रोक्ता स्याद्धारणेति तत्त्वज्ञैः ।यो मनसि देवताया भावः स्यात्तस्य मन्त्रिणः सम्यक् ॥२२॥संस्थापयेच्च तत्रेत्येवं ध्यानं वदन्ति तत्त्वविदः ।सत्तामात्रं नित्यं शुद्धमपि निरञ्जनं च यत्प्रोक्तम् ॥२३॥तत्प्रविचिन्त्य स तिंस्मश्चित्तलयः स्यात्समाधिरुद्दिष्टः ।अष्टाङ्गैरिति कथितैः पुनराशु निगृह्यतेऽरिरात्मविदा ॥२४॥अथ वा शोषणदहनप्लावनभेदेन शोधिते देहे ।पञ्चाशद्भिर्मात्राभेदैर्विधिवत्समायमेत्प्राणान् ॥२५॥पञ्चाशदात्मकोऽपि च कलाप्रभेदेन तार उद्दिष्टः ।तावन्मात्रायमनात्कलाश्च विधृता भवन्ति तत्त्वविदा ॥२६॥पूर्वमिडाया वदने विचिन्तयेद्धूम्रमानिलां बीजम् ।तेनागतेन देहं प्रशोषयेत्सान्तराधिकरचरणम् ॥२७॥पिङ्गलया प्रतिमुञ्चेत्तथैव कार्शानवेन रक्तरुचा ।प्रतिदह्य पूर्वविधिना मुञ्चेन्नैशाकरेण सुसितेन ॥२८॥सम्पूरयेत्सुधामयजलशीकरर्विषणा तनुं सकलाम् ।निर्माय मानसेन च परिपूर्णमनाश्चिरं भूयात् ॥२९॥सुजीर्णमितभोजनः सुखसमात्तनिद्रादिकःसुशुद्धतलसद्गृहे विरहिते च शीतादिभिः ।पटाजिनकुशोत्तरे सुविशदे च मृद्वासनेनिमीलितविलोचनः प्रतिविशेत्सुखं प्राङ्मुखः ॥३०॥प्रसारितं वामकरं निजाज्रे निधाय तस्योपरि दक्षिणं च ।ऋजुः प्रसन्नो विजितेन्द्रियः सन्नाधारमत्यन्तसमं स्मरेत्स्वम् ॥३१॥तन्मध्यगतं प्रणवं प्रणवस्थं बिन्दुमपि च बिन्दुगतम् ।नादं विचिन्त्य तारं यथावदुच्चारयेत्सुषुम्नान्तम् ॥३२॥तन्मध्यगतं शुद्धं शब्दब्रह्मातिसूक्ष्मतन्तुनिभम् ।तेजः स्मरेच्च तारात्मकमपि मूलं चराचरस्य सदा ॥३३॥ओज्ररो गुणबीजं प्रणवस्तारो ध्रुवश्च वेदादिः ।आदिरुमध्यो मपरो नामन्यस्य त्रिमात्रिकश्च तथा ॥३४॥अस्य तु वेदादित्वात्सर्वमनूनां प्रयुज्यतेऽथादौ ।योनिश्च सर्वदेहे भवति च स ब्रह्म सर्वसंवादे ॥३५॥ऋक् च तदाद्यादिः स्यात्तन्मध्यान्तं यजुश्च मान्तादिः ।सामापि तस्य भेदा बहवः प्रोक्ता हि लोकवेदेषु ॥३६॥उच्चार्योच्चार्य च तं क्रमान्नयेदुपरि षड्द्वयान्तान्तम् ।मनसा स्मृते यदास्मिन्मनो लयं याति तावदभ्यस्येत् ॥३७॥अथ वा बिन्दुं वर्तुलमावर्तैस्त्रिभिरुपेतमेवमिव ।प्रोतं रविबिम्बेन च समभ्यसेत्स्रुतसुधामयं तेजः ॥३८॥अपमृत्युरोगपापजिदचिरेण सुसिद्धिदो नृणां योगः ।अथवा मूलाधारोत्थिता प्रभा बिसविभेदतन्तुनिभा ॥३९॥वदनामृतकरबिम्बस्यूता ध्यातामृताम्बुलवलुलिता ।स्थावरजङ्गमविषहृद्योगोऽयं नात्र सन्देहः ॥४०॥अथ वा त्रिवलयबिन्दुगधाम प्रणवेन सन्नयेदूध्र्वम् ।पीतोर्णातन्तुनिभं सौषुम्नेनैव वत्र्मना योगी ॥४१॥तस्मिन्निधाय चित्तं विलयं गमयेद्दिनेशसङ्ख्यान्ते ।पुनरावृत्तिविहीनं निर्वाणपदं व्रजेत्तदभ्यासात् ॥४२॥अथ वादिबीजमौ पुनरुमपि विषे तमपि संहरेद्बिन्दौ ।बिन्दुं नादे तमपि च शक्तौ शक्तिं तथैव शान्ताख्ये ॥४३॥तेजस्यनन्यगे चिति निर्द्वन्द्वे निष्कले सदानन्दे ।सूक्ष्मे च सर्वतो मुखकरपदनयनादिलक्षणालक्ष्ये ॥४४॥स्वात्मनि संहृत्यैवं करणेन्द्रियवर्गनिर्गमापेतः ।निर्लीनपुण्यपापे निरुच्छ्वसन्ब्रह्मभूत एव स्यात् ॥४५॥अथ वा योगोपेताः पञ्चावस्था क्रमेण विज्ञाय ।ताभिर्युञ्जीत सदा योगी सद्यः प्रसिद्धये मुक्तेः ॥४६॥जाग्रत्स्वप्नसुषुप्ती तुरीयतदतीतकौ पुनस्तासु ।स्वैरिन्द्रियैर्यदात्मा भुङ्क्ते भोगान्स जागरो भवति ॥४७॥संज्ञारहितैरपि तैस्तस्यानुभवो भवेत्पुनः स्वप्नः ।आत्मनिरुद्युक्ततया नैराकुल्यं भवेत्सुषुप्तिरपि ॥४८॥पश्यति परं यदात्मा निस्तमसा तेजसा तुरीयं तत् ।आत्मपरमात्मपदयोरभेदतो व्याप्नुयाद्यदा योगी ॥४९॥तच्च तुरीयातीतं तस्यापि भवेन्न दूरतो मुक्तिः ।अथ वा सूक्ष्माख्यायां पश्यन्त्यां मध्यमाख्यवैखर्योः ॥५०॥ससुषुम्नाग्रकयोरपि युञ्जीयाज्जाग्रदादिभिः पवनम् ।बीजोच्चारो जाग्रद्बिन्दुः स्वप्नः सुषुप्तिरपि नादः ॥५१॥शक्त्यात्मना तुरीयः शान्ते लय आत्मनस्तुरीयान्तम् ।अङ्गुष्ठगुल्फजङ्घाजानुद्वितयं च सीवनी मेढ्रम् ॥५२॥नाभिर्हृदयं ग्रीवा सलम्बिकाग्रं तथैव नासाग्रम् ।भूरमध्यललाटाग्रसुषुम्नाग्रं द्वादशान्तमित्येवम् ॥५३॥उत्क्रान्तौ परकायप्रवेशने चागतौ पुनः स्वतनौ ।स्थानानि धारणायाः प्रोक्तानि मरुत्प्रयोगविधिनिपुणैः ॥५४॥स्थानेष्वेष्वात्ममनःसमीरसंयोगकर्मणोऽभ्यासात् ।अचिरेणोत्क्रान्त्याद्या भवन्ति संसिद्धयः प्रसिद्धतराः ॥५५॥कण्ठे भ्रूमध्ये हृदि नाभौ सर्वाङ्गके स्मरेत्क्रमशः ।लवरसमीरखवर्णैरनिलमहाकालवञ्चनेयं स्यात् ॥५६॥अवनिजलानलमारुतविहायसां शक्तिभिश्च तद्बिम्बैः ।मारूप्यमात्मनश्च प्रतिनीत्वा तत्तदाशु जयति सुधीः ॥५७॥एवं प्रोक्तैर्योगैरायोजयतोऽन्वहं तथात्मानम् ।अचिरेण भवति सिद्धिः समस्तसंसारमोचनी नित्या ॥५८॥इति योगमार्गभेदैः प्रतिदिनमारूढयोगयुक्तधियः ।सिद्धय उपलक्ष्यन्ते मोक्षपुरीसम्प्रवेशनद्वाराः ॥५९॥कम्पः पुलकानन्दौ वैमल्यस्थैर्यलाघवानि तथा ।सकलप्रकाशवित्तेत्यष्टावस्थाः प्रसूचकाः सिद्धेः ॥६०॥त्रैकाल्यज्ञानोहौ मनोज्ञता च्छन्दतो मरुद्रोधः ।नाडीसङ्क्रमणविधिर्वाक्सिद्धिर्देहतश्च देहाप्तिः ॥६१॥ज्योतिःप्रकाशनं चेत्यष्टौ स्युः प्रत्ययायुजः सिद्धेः ।अणिमा महिमा च तथा लघिमा गरिमेशिता वशित्वं च ॥६२॥प्राप्तिः प्राकाम्यं चेत्यष्टैश्वर्याणि योगयुक्तस्य ।अष्टैश्वर्यसमेतो जीवन्मुक्तः प्रवक्ष्यते योगी ।योगानुभवमहामृतरसपानानन्दनिर्भरः सततम् ॥६३॥इत्येवं प्रणवविधिः समीरितोऽयंभक्त्या तं प्रभजति यो जपादिभेदैः ।सम्प्राप्नोत्यनुततनित्यशुद्धबुद्धंतद्विष्णोः परमतरं पदं नराग्र्यः ॥६४॥इति श्रीमत्परमहंसपरिव्राजकाचार्यस्यश्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतःकृतौ प्रपञ्चसारे अष्टादशः पटलः ॥ N/A References : N/A Last Updated : January 21, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP