द्वाविंशः पटलः
प्रपञ्चसारतन्त्रम् (Prapancasaratantra), ज्याचा अर्थ 'ब्रह्मांडाचे सार' असा आहे.
अथोच्यते श्रीकरनामधेयमष्टाक्षरं लोकहिताय तावत् ।
येन प्रजप्तेन सर्मिचतेन हुतेन सिद्धिं समुपैति मन्त्री ॥१॥
सर्गादर्कः क्षतो विंशतियुगमयुतं शान्तगं चन्द्रबिम्बं
श्रीबाहुः शुक्लमेदोहरिशयनहकारा मनुः श्रीकराख्यः ।
ऋष्याद्या वामपङ्क्तीरहिरपि पुनरङ्गानि यान्तैर्हुमन्तै-
र्भीषत्रासप्रमर्दप्रसहितगदितध्वंसरक्षैर्द्विरुक्तैः ॥२॥
मूर्धाक्षिकण्ठहृदयोदरसोरुजानु-
पादद्वयेषु लिपिशो न्यसतु स्वदेहे ।
विप्रादिकान्मुखकरोरुपदेष वर्णां-
श्चक्रादिकानपि करेषु ततस्तदस्त्रान् ॥३॥
दुग्धाब्धिद्वीपवर्यप्रविलसितसुरोद्यानकल्पद्रुमाधो
भद्राम्भोजन्मपीठोपरिगतविनतानन्दनस्कन्धसंस्थः ।
दोर्भिर्बिभ्रद्रथाङ्गं सदरमथ गदापज्र्जे स्वर्णवर्णो
भास्वन्मौलिर्विचित्राभरणपरिगतः स्याच्छ्रिये वो मुकुन्दः ॥४॥
दिक्पत्रेषु श्रीरतिधृतिकान्तीः कोणकेषु मूर्तीश्च ।
इष्ट्वाभितो निधीशौ विष्वक्सेनं च दिक्पतीन्प्रयजेत् ॥५॥
आराध्य चैवं विधिना च विष्णुं
मन्त्री पुनर्होमविधिं करोतु ।
श्रीदुग्धवृक्षोत्थसमिद्भिरब्जैः
साज्येन दौग्धेन च र्सिपषा च ॥६॥
पृथगष्टशतं क्रमेण हुत्वा कनकाद्यैरपि र्तिपते गुरौ च ।
अभिषिच्य तथाभिपूज्य विप्रान्मनुमेनं प्रजपेदथाष्टलक्षम् ॥७॥
द्रव्यैस्तैः प्रतिजुहुयाद्दशांशमानै-
राचार्यं पुनरपि पूजयेज्जपान्ते ।
सम्प्राप्नोत्यपरिमितां श्रियं च कीर्तित
कान्तिं वा चिरमनुरज्यते च लोकैः ॥८॥
दूर्वां घृतप्रसिक्तां जुहुयादयुतं नरस्तु हुतशिष्टैः ।
आज्यैश्चरुमुपयुञ्ज्याद्दद्याद्गुरवे च दक्षिणां शक्त्या ॥९॥
परिपूजयेच्च विप्रांस्तेषु दिनेषु स्वशक्तितो भक्त्या ।
अपमृत्युरोगपापान्विजित्य स तु दीर्घमायुराप्नोति ॥१०॥
अनुदिनमादित्यमुखः प्रजपेदूध्र्वी कृतस्वबाहुयुगः ।
तस्य गृहेऽन्नसमृद्धिश्चिराय सञ्जायते सुपुष्टतरा ॥११॥
एवं प्रोक्तैः प्रतिजपहुतार्चादिभिर्मन्त्रमेनं
भक्त्या यो वा भजति मनुजो नित्यशः सोऽचिरेण ।
इष्टैः पुत्रैर्धरणिधनधान्यादिभिर्हृष्टचेताः
स्यादप्यन्ते परमपरिशुद्धं परं धाम विष्णोः ॥१२॥
अथ कथयामि विधानं महावराहाभिधानमन्त्रस्य ।
साङ्गं सजपं सहुताराधनमपि मन्त्रिणामभीष्टाप्त्यै ॥१३॥
वाक्यं प्रोक्त्वा हृदाख्यं तदनु भगवतेयुग्वराहं च रूपा-
येत्युक्त्वा व्याहृतीनामुपरि च पतये भूपतित्वं च मेऽन्ते ।
देहीत्याभाष्य दान्तः सुमतिरथ पनर्दापयस्वेति हान्तं
प्रोक्त्वा तारादिकं प्रोद्धरतु मनुवरं तत्र यिंस्त्रशदर्णम् ॥१४॥
ऋषिस्तु भार्गवः प्रोक्तोऽथानुष्टुप्छन्द ईरितम् ।
वराहो देवता चास्य कथ्यन्तेऽङ्गान्यतः परम् ॥१५॥
अस्यैकशृङ्गो हृदयं शिरश्च
व्योमोल्कतेजोऽधिपतिः शिखा च ।
स्याद्विश्वरूपं कवचं महाद्यो
दंष्ट्रोस्त्रमुक्तं स्वयमेव चाङ्गम् ॥१६॥
सप्तभिश्च पुनः षड्भिः सप्तभिश्चाथ पञ्चभिः ।
अष्टभिर्मूलमन्त्रार्णैर्विदध्यादङ्गकल्पनाम् ॥१७॥
जान्वोरापादमुद्यत्कनकमिव हिमप्रख्यमाजानु नाभेः
कण्ठादानाभि वह्निप्रभमथ शिरसश्चार्गलं नीलवर्णम् ।
मौलेव्र्योमाभमाकं करलसदरिशङ्खासिखेटं गदा श-
क्त्याख्येष्टाभीतियुक्तं प्रणमत वसुधोल्लासिदंष्ट्रं वराहम् ॥१८॥
सजलाम्बुवाहनिभमुद्धतदोःपरिघं धराधरसमानतनुम् ।
सितदंष्ट्रिकाधृतभवं त्वथ वा प्रविचिन्तयेत्सपदि कोलमुखम् ॥१९॥
हेमप्रख्यं पार्थिवे मण्डले वा
नीहाराभं नीरजेऽग्नेस्तदाभम् ।
वायोः कृष्णं द्युप्रभं वा दिविस्थं
क्रोडं व्याप्तं सत्यसंस्थं यजेद्वा ॥२०॥
अष्टपत्रमथ पद्ममुल्लसत्र्किणकं विधिवदारचय्य च ।
मण्डले रविसहस्रसन्निभं सूकरं यजतु तत्र सिद्धये ॥२१॥
प्राग्दक्षिणप्रत्यगुदग्दिशासु चत्वारि चाङ्गानि यजेत्क्रमेण ।
अस्त्रं विदिक्षूध्र्वमधश्च चक्राद्यस्त्राणि पूज्यानि वराहमूर्तेः ॥२२॥
अरिशङ्खकृपाणखेटसंज्ञान्सगदाशक्तिवराभयाह्वयांश्च ।
अभिपूज्य दिशाधिपान्यथावद्वरगन्धाक्षतपुष्पधूपदीपैः ॥२३॥
दंष्ट्रायां वसुधां सशैलनगरारण्यापगां हुङ्कृतौ
वागीशीं श्वसितेऽनिलं रविशशी वाह्वोश्च दक्षान्ययोः ।
कुक्षौ स्युर्वसवो दिशः श्रुतिपथे दस्रौ दृशोः पादयोः
पद्मोत्थो हृदये हरिः पृथगमी पूज्या मुखे शङ्करः ॥२४॥
एवं काले कोलमभ्यर्चयित्वा
जप्यो मन्त्रोऽसौ पुनर्लक्षसङ्ख्यम् ।
होमं कृत्वा तद्दशांशैश्च पद्मै-
स्त्रिस्वाद्वक्तैः प्राप्नुयाद्भूसमृद्धिम् ॥२५॥
ध्यानादपि धनसिद्धिर्मन्त्रजपाच्चाधरो भवेत्सधरः ।
जपपूजाहुतविधिभिर्मङ्क्षु नरो धनधरेन्दिरावान्स्यात् ॥२६॥
ध्यातः सन्भूगृहेऽसौ भुवमतुलतरां वारुणे शान्तिमुच्चै-
राग्नेये वश्यकीत्त्र्यादिकमनिलपुरस्थोऽयमुच्चाटनादीन् ।
रक्षां व्योम्नोऽरिभूतग्रहविषदुरितेभ्योऽनिलाग्न्योश्च पीडां
युद्धे वह्नीरयोर्वै जयमपि नितरां सन्निधत्ते वराहः ॥२७॥
हरिस्थेऽर्केऽष्टम्यामथ सितरुचौ कोलवपुषा
सितां गव्यैः सर्वैर्युतमयुतजप्तामपि शिलाम् ।
उदग्वक्त्रो मन्त्री मनुजपरतः स्थापयतु ता-
मयत्नं क्षेत्रेषु द्रुतमरिनिरोधं शमयति ॥२८॥
भौमे वारेऽथ भानूदयमनु जपवान्सङ्गृहीत्वा मृदंशं
कोलात्मा वैरिरुद्धादपि च कुतलतस्तं च कृत्वा गुणांशम् ।
एकं जातौ विलिप्यात्पुनरपरतरं पाकपाके तथान्यं
तोये तस्मिन्सदुग्धे प्रतिपचतु हविः संस्कृते हव्यवाहे ॥२९॥
आराध्य चाष्टोध्र्वशतप्रमाणं साज्येन मन्त्री हविषाथ तेन ।
सप्तारवारं जुहुयाद्यथावत्क्षेत्रोत्थितापत्प्रशमं प्रयाति ॥३०॥
भृगुवारे च मुखेऽह्नः सङ्गृह्य मृदं हविः समापाद्य ।
जुहुयादीरितविधिना बलिमपि दद्यान्महाविरोधेषु ॥३१॥
हुतक्रियैवं दिवसैश्च सप्तभि-
रिवनाशयेद्भूमिविवादसङ्कटम् ।
परेतवेतालपिशाचडाकिनी-
समुत्थितां वा विकृतिं विधिस्त्वयम् ॥३२॥
विलोड्य तामेव मृदं च दुग्धे
हुनेद्धृते वाष्टयुतं सहस्रकम् ।
द्विमण्डलादेव मही महाघ्र्या
स्यान्मन्त्रिणोऽस्यैव तु निःसपत्ना ॥३३॥
नृपतरुसमिधामयुतं मन्त्रेणानेन यो हुनेन्मन्त्री ।
गृहयात्रास्य न सीदेत्क्षेत्रादिकमपि च वर्धते क्रमशः ॥३४॥
अष्टोध्र्वशतं मन्त्री दिनशो यो वा जुहोति शालीभिः ।
स तु वत्सरेण मन्त्री विराजते व्रीहिपुनञ्जपूर्णगृहः ॥३५॥
मन्त्रेणानेन र्सिपर्जुहुत दशशतं मण्डलात्स्वर्णसिद्धिः
स्वाद्वक्तेनाञ्जलिन्या अपि कुसुमसहस्रेण वा वाससां च ।
लाजानां कन्यकाया अपि च मधुमतां होमतो वाञ्छितायाः
सिद्धी रक्तोत्पलानामपि मधुरयुजां स्याद्धुताच्छ्रीः समग्रा ॥३६॥
दण्ड्यर्धीशो व्योमासनस्तु वाराहमुच्यते बीजम् ।
अमुना तु साधितेन प्राप्स्यन्ति नराः समृद्धिमतुलतराम् ॥३७॥
तारेऽमुमपि लिखित्वा तद्बाह्येऽनलपुरं समापुटितम् ।
तद्बाह्ये च चतुर्दलमब्जं स्यात्तद्बहिस्तथाष्टदलम् ॥३८॥
बाह्ये षोडशपत्रं मण्डलमाखण्डलीयमपि बाह्ये ।
मध्ये सूकरबीजे साध्यक्षेत्राख्यमन्त्रमश्रिषु च ॥३९॥
रन्ध्रेष्वङ्गमनूनपि दलमूलेऽष्टार्णकेसराणि लिखेत् ।
अष्टावष्टौ दलमनु सूकरमन्त्रस्य चाक्षरान्क्रमशः ॥४०॥
अन्त्येऽवशिष्टमक्षरमथाष्टपत्रे स्वराख्यकिञ्जल्के ।
वर्णांश्चतुश्चतुरपि तथाष्टमे पञ्च चालिखेत्पत्रे ॥४१॥
व्यञ्जनकिञ्जल्केऽन्त्ये द्वौ द्वौ त्रयमन्त्यके दले विलिखेत् ।
तारमहीकोलार्णैः प्रवेष्टयेत्साध्यवर्णपरिपुटितैः ॥४२॥
तद्बाह्ये मनुवर्णैर्विर्दिभताभिश्चसाध्यपदलिपिभिः ।
क्ष्माबिम्बचतुष्कोणे गर्भगसाध्याक्षरं चतुर्बीजम् ॥४३॥
अष्टसु शूलेषु तथा वाराहं वासुसेनसंवृत्तम् ।
लाक्षाकुज्रुमचन्दनलघुकर्पूरैः सरोचनैर्विलिखेत् ।
गोशकृदम्भोयुक्तैर्लेखिन्या हैमया दिने प्रवरे ॥४४॥
सौवर्णे राज्यसिद्धिं रजतकफलके ग्रामसिद्धिं च ताम्रे
साहस्रस्वर्णसिद्धिं भुजदललिखितं चाशु संसारयात्राम् ।
क्षौमे लाभं धरायाः पिचुतरुफलके कार्यसिद्धिं निजेष्टां
यन्त्रं सञ्जप्तकॢप्तं घृतहुतकृतसम्पातपातं करोति ॥४५॥
मन्त्री समास्थाय वराहरूपं साध्यप्रदेशे निखनेच्च यन्त्रम् ।
स्थिराख्यराशावभिवाह्य कोलमङ्गानि दिक्षु क्षिपतां यथावत् ॥४६॥
यन्त्रमिदं रक्षायै रोगग्रहवैकृतेषु जन्तूनाम् ।
सञ्जप्य शिरसि बन्ध्यात्स तु नीरोगस्त्वयत्नतो भवति ॥४७॥
इत्येवं प्रणिगदितो वराहमन्त्रो
यस्त्वेनं प्रभजति नित्यशो जपाद्यैः ।
स प्राप्नोत्यखिलमहीसमृद्धिमस्मि-
न्देहान्ते व्रजति हरेः परं पदं तत् ॥४८॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः
कृतौ प्रपञ्चसारे द्वाविंशः पटलः ॥
N/A
References : N/A
Last Updated : January 21, 2026

TOP