संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|प्रपञ्चसारतन्त्रम्| अष्टाविंशः पटलः प्रपञ्चसारतन्त्रम् विशेष माहिती प्रथमः पटलः द्वितीयः पटलः तृतीयः पटलः चतुर्थः पटलः पञ्चमः पटलः षष्ठः पटलः सप्तमः पटलः अष्टमः पटलः नवमः पटलः दशमः पटलः एकादशः पटलः द्वादशः पटलः त्रयोदशः पटलः चतुर्दशः पटलः पञ्चदशः पटलः षोडशः पटलः सप्तदशः पटलः अष्टादशः पटलः एकोनविंशः पटलः विंशः पटलः एकविंशः पटलः द्वाविंशः पटलः त्रयोविंशः पटलः चतुर्विंशः पटलः पञ्चविंशः पटलः षड्विंशः पटलः सप्तविंशः पटलः अष्टाविंशः पटलः एकोनत्रिंशः पटलः त्रिंशः पटलः एकत्रिंशः पटलः द्वात्रिंशः पटलः त्रयस्त्रिंशः पटलः अष्टाविंशः पटलः प्रपञ्चसारतन्त्रम् (Prapancasaratantra), ज्याचा अर्थ 'ब्रह्मांडाचे सार' असा आहे. Tags : prapanchasarshankaracharyaप्रपञ्चसारतन्त्रशंकराचार्य अष्टाविंशः पटलः Translation - भाषांतर अथाखिलार्थानुततैव शक्तिर्युक्ता चतुर्विंशतितत्त्वभेदैः ।गायत्रिसंज्ञापि च तद्विशेषानथ प्रयोगान्कथयामि साङ्गान् ॥१॥ताराह्वयो व्याहृतयश्च सप्त गायत्रिमन्त्रः शिरसा समेतः ।अन्वर्थकं मन्त्रमिमं तु वेदसारं पुनर्वेदविदो वदन्ति ॥२॥जप्यः स्यादिह परलोकसिद्धिकामै-र्मन्त्रोऽयं महिततरैर्द्विजैर्यथावत् ।भूदेवा नरपतयस्तृतीयवर्णाःसम्प्रोक्ता द्विजवचनेन तत्र भूयः ॥३॥तेषां शुद्धकुलद्वयोत्थमहसामारभ्य तन्तुक्रियांतारव्याहृतिसंयुता सहशिरा गायत्र्युपास्या परा ।सन्ध्योपासनया जपेन च तथा स्वाध्यायभेदैरपिप्राणायामविधानतः सुमतिभिध्र्यानेन नित्यं द्विजैः ॥४॥आदौ तारः प्रकृतिविकृतिप्रोत्थितोऽसौ च मूला-धारादारादलिविरुतिराविश्य सौषुम्नमार्गम् ।आद्यैः शान्तावधिभिरनुगो मात्रया सप्तभेदैःशुद्धो मूर्धावधि परिगतः शाश्वतोऽन्तर्बहिश्च ॥५॥प्रकाशितादौ प्रणवप्रपञ्चतानिगद्यते व्याहृतिसप्तकं पुनः ।सभूर्भुवः स्वश्च महर्जनस्तपः-समन्वितं सत्यमिति क्रमेण च ॥६॥भूःपदाद्या व्याहृतयो भूशब्दस्तदि वर्तते ।तत्पदं सदिति प्रोक्तं सन्मात्रत्वात्तु भूरतः ॥७॥भूतत्वात्कारणत्वाच्च भुवःशब्दस्य सङ्गतिः ।सर्वस्वीकरणात्स्वात्मतया च स्वरितीरितम् ॥८॥महस्त्वाच्च महत्त्वाच्च महःशब्दः समीरितः ।तदेव सर्वजनता तस्मात्तु व्याहृतिर्जनः ॥९॥तपो ज्ञानतया चैव तथा तापतया स्मृतम् ।सत्यं परत्वादात्मत्वादनन्तज्ञानतः स्मृतम् ॥१०॥प्रणवस्य व्याहृतीनामतः सम्बन्ध उच्यते ।अकारो भूरुकारस्तु भुवो मार्णः स्वरीरितः ॥११॥बिन्दुर्महस्तथा नादो जनः शक्तिस्तपः स्मृतम् ।शान्तं सत्यमिति प्रोक्तं यत्तत्परतरं पदम् ॥१२॥प्रणवस्य व्याहृतीनां गायत्र्यैक्यभथोच्यते ।अत्रापि तत्पदं पूर्वं प्रोक्तं तदनुवण्र्यते ॥१३॥तद् द्वितीयैकवचनमनेनाखिलवस्तुनः ।सृष्ट्यादिकारणं तेजोरूपमादित्यमण्डले ॥१४॥अभिध्येयं परानन्दं परं ब्रह्माभिधीयते ।यत्तत्सवितुरित्युक्तं षष्ठ्येकवचनात्मकम् ॥१५॥धातोरिह समुत्पन्नं प्राणिप्रसववाचकात् ।सर्वासां प्राणिजातीनामिति प्रसवितुः सदा ॥१६॥वरेण्यं वरणीयत्वात्सेवनीयतया तथा ।भजनीयतया सर्वैः प्रार्थनीयतया स्मृतम् ॥१७॥पूर्वस्याष्टाक्षरस्यैवं व्याहृतिर्भूरिति स्मृता ।पापस्य भञ्जनाद्भर्गो भक्तस्निग्धतया तथा ॥१८॥देवस्य वृष्टिदानादिगुणयुक्तस्य नित्यशः ।प्रभूतेन प्रकाशेन दीप्यमानस्य वै तथा ॥१९॥ध्यैचिन्तायामतो धातोर्निष्पन्नं धीमहीत्यदः ।निगमाद्येन दिव्येन विद्यारूपेण चक्षुषा ॥२०॥दृश्यो हिरण्मयो देव आदित्ये नित्यसंस्थितः ।हीनतारहितं तेजो यस्य स्यात्स हिरण्मयः ॥२१॥यः सूक्ष्मः सोऽहमित्येवं चिन्तयामः सदैव तु ।द्वितीयाष्टाक्षरस्यैवं व्याहृतिर्भुव ईरिता ॥२२॥धियो बुद्धीर्मनोरस्य च्छान्दसत्वाद्य ईरितः ।कृतश्च लिङ्गव्यत्यासः सूत्रात्सुप्तिङुपग्रहात् ॥२३॥यत्तु तेजो निरुपमं सर्वदेवमयात्मकम् ।भजतां पापनाशस्य हेतुभूतमिहोच्यते ॥२४॥न इति प्रोक्त आदेशः षष्ठ्यासौ युष्मदस्मदोः ।तस्मादस्माकमित्यर्थः प्रार्थनायां प्रचोदयात् ॥२५॥तृतीयाष्टाक्षरस्यापि व्याहृतिः स्वरितीरिता ।एवं दश पदान्यस्यास्त्रयश्चाष्टक्षराः स्मृताः ॥२६॥षडक्षराश्च चत्वारः स्युश्चतुर्विंशदक्षराः ।इत्थम्भूतं यदेतस्य देवस्य सवितुर्विभोः ॥२७॥वरेण्यं भजतां पापविनाशनकरं परम् ।भर्गोऽस्माभिरभिध्यातं धियस्तन्नः प्रचोदयात् ॥२८॥उक्तैवमत्र गायत्री पुनस्तच्छिर उच्यते ।आपो ज्योती रस इति सोमाग्न्योस्तेज उच्यते ॥२९॥तदात्मकं जगत्सर्वं रसस्तेजोद्वयं युतम् ।अमृतं तदनाशित्वाद्ब्रह्मत्वाद् ब्रह्म उच्यते ॥३०॥यदानन्दात्मकं ब्रह्म सत्त्यज्ञानादिलक्षणम् ।तद्भूर्भुवःस्वरित्युक्तं सोऽहमित्योमुदाहृतम् ॥३१॥एतत्तु वेदसारस्य शिरस्त्वाच्छिर उच्यते ।लक्षणैरिति निर्दिष्टो वेदसारेषु निष्ठितः ॥३२॥फलार्थीं तदवाप्नोति मुमुक्षुर्मोक्षमृच्छति ।उपव्युषस्येवोत्थाय कृतशौचविधिर्द्विजः ॥३३॥दन्तानां धावनं चैव जिह्वानिर्लेखनादिकम् ।कृत्वा स्नात्वा समाचम्य मन्त्रपूतेन वारिणा ॥३४॥आपो हिष्ठा मयेत्यादिऋग्भिस्तिसृभिरेव च ।अभ्युक्ष्य शुद्धदेहः सन्नपः पीत्वा समाहितः ॥३५॥सूर्यश्चेत्यनुवाकेन पुनराचम्य पूर्ववत् ।अभ्युक्ष्य शुद्धदेहः सन्गृहीत्वाञ्जलिना जलम् ॥३६॥आदित्याभिमुखो भूत्वा तद्गतात्मोध्र्वलोचनः ।वेदसारं परं ज्योतिर्मूलभूतं परात्परम् ॥३७॥हृत्स्थं सर्वस्य लोकस्य मण्डलान्तव्र्यवस्थितम् ।चिन्तयन्परमात्मानमप ऊध्र्वं विनिक्षिपेत् ॥३८॥एनस्ताः प्रतिनिघ्नन्ति जगदाप्याययन्ति च ।ततः प्रदक्षिणीकृत्य पुनराचम्य संयतः ॥३९॥क्रमात्तारादिमन्त्राणामृष्यादीन्विन्यसेत्सुधीः ।तत्र तु प्रणवस्यादावृषिरुक्तः प्रजापतिः ॥४०॥छन्दश्च देवी गायत्री परमात्मा च देवता ।जमदग्निभरद्वाजभृगुगौतमकाश्यपाः ॥४१॥विश्वामित्रवसिष्ठाख्यावृषयो व्याहृतीरिताः ।गायत्र्युष्णिगनुष्टुप्च बृहती पङ्क्तिरेव च ॥४२॥त्रिष्टुब्जगत्यौ च्छन्दांसि कथ्यन्ते देवता अपि ।सप्तार्चिरनिलः सूर्यो वाक्पतिर्वरुणो वृषा ॥४३॥विश्वेदेवा इति प्रोक्ताः सप्त व्याहृतिदेवताः ।हृन्मुखांसोरुयुग्मेषु सोदरेषु क्रमान्न्यसेत् ॥४४॥विश्वामित्रस्तु गायत्र्या ऋषिश्छन्दः स्वयं स्मृतम् ।सविता देवता चास्य ब्रह्मा शिर ऋषिः स्मृतः ॥४५॥छन्दश्च देवी गायत्री परमात्मा च देवता ।स्थानेषु पूर्वमुक्तेषु सताराव्याहृतीन्र्यसेत् ॥४६॥गायत्रीं शिरसा विद्वाञ्जपेत्त्रिः स्यादुपासना ।हृदयेऽधस्तथोध्र्वं च महादिक्ष्वपि संयतः ॥४७॥व्यापयेद्व्याहृतीः सम्यग्गायत्रीं च शिरोयुताम् ।सार्थसंस्मृति सञ्जप्यात्त्रिरिदं जपलक्षणम् ॥४८॥आत्मन्यधश्चोपरितो दिग्भ्यस्ताः समुपानयेत् ।गायत्रीं पूर्ववज्जप्यात्स्वाध्यायविधिरीदृशः ॥४९॥एतत्त्रयं त्रिशः कुर्यादृजुकायस्त्वनन्यधीः ।निरुच्छ्वासः स विज्ञेयः प्राणायामो मनीषिभिः ॥५०॥ध्यानस्य केवलस्यास्य व्याख्याने र्दिशतः क्रमः ।त्रिव्याहृत्यादिमभ्यस्येद्गायत्रीं सन्ध्ययोः सुधीः ॥५१॥शतं वाथ सहस्रं वा मन्त्रार्थगतमानसः ।पूर्वं प्रपञ्चयागोक्तान्गाणपत्यजपादिकान् ॥५२॥लिपिन्यासादिकान्साङ्गान्महन्न्यासादिसंयुतान् ।सनिजष्र्यादिकान्सर्वान्विदध्याद्विधिवद्बुधः ॥५३॥पादसन्धिचतुष्कान्धुनाभिहृद्गलदोर्द्वयी ।सन्ध्यास्यनासागण्डाक्षिकर्णभ्रूमस्तकेष्वपि ॥५४॥वारुणैन्दवयाम्यप्रागूध्र्वकेषु मुखेषु च ।क्रमेण वर्णान्विन्यस्येद्गायत्र्या मन्त्रवित्तमः ॥५५॥शिरोभ्रूमध्यनयनवक्त्रकण्ठेषु वै क्रमात् ।हृन्नाभिगुह्यजान्वाख्यपादेष्वपि पदान्न्यसेत् ॥५६॥स्त्रब्रह्मविष्णुरुद्रैश्च सेश्वरैः ससदाशिवैः ।ससर्वात्माह्वयैः कुर्यादङ्गन्यासं समाहितः ॥५७।एवं कृत्वा तु सिद्ध्यर्थं गायत्रीं दीक्षितो जपेत् ।अथ त्रिगुणिते प्रोक्ते विचित्रे मण्डलोत्तमे ॥५८॥शक्तिभिः प्राक्समुक्ताभिः सौरं पीठं समर्चयेत् ।तत्र निक्षिप्य कलशं यथापूर्वोपचारतः ॥५९॥गव्यैर्वा पञ्चभिः क्वाथजलैर्वा पूरयेत्ततः ।तस्मिन्नावाह्य कलशे शक्तिमित्थं विचिन्तयेत् ॥६०॥मन्दाराह्वयरोचनाञ्जनजपाख्याभैर्मुखैरिन्दुम-द्रत्नोद्यन्मकुटांशुभिस्ततचतुर्विंशार्णचित्रा तनुः ।अम्भोजारिदराह्वयौ गुणकपालाख्ये च पाशाज्रुशे-ष्टाभीतीर्दधती भवेद्भवदभीष्टोत्तारिणी तारिणी ॥६१॥सञ्चिन्त्य भर्तारमिति प्रभाणां त्रिशक्तिमूर्तीः प्रथमं समच्र्य ।आदित्यशक्त्याख्यचतुष्टयेन यजेद्वितीयावरणे दिनेशम् ॥६२॥प्रह्लादिनीं प्रभां नित्यां सविश्वम्भरसंज्ञकाम् ।विलासिनीप्रभावत्यौ जयां शान्तां क्रमाद्यजेत् ॥६३॥तमोपहारिणीं सूक्ष्मां विश्वयोनिं जयावहाम् ।पद्मालयां परां शोभां भद्ररूपां तथा यजेत् ॥६४॥मातृभिश्चारुणाभिश्च षष्ठ्यथो सप्तमीग्रहैः ।आदित्यपार्षदन्तैरप्यष्टमीन्द्रादिभिः सुरैः ॥६५॥आवृतिः कथिता चेति विधानं परमीदृशम् ।गन्धादिभिर्निवेद्यान्तैर्दिनेशं सम्यगर्चयेत् ॥६६॥अथ पुनरमुमभिषिञ्चे-त्संयतचित्तं च देशिकः शिष्यम् ।कृतहुतविधिमपि विधिव-द्विहितबलिं दत्तदक्षिणं गुरवे ॥६७॥भूयस्त्वक्षरलक्षं गायत्रीं संयतात्मको जप्त्वा ।जुहुयात्पायसतिलघृतदूर्वाभिर्दुग्धतरुसमिद्भिरपि ॥६८॥एकैकं त्रिसहस्रं मन्त्री समभीष्टसिद्धये मुक्त्यै ।अक्षरसहस्रसङ्ख्यं मुख्यतरैः केवलैस्तिलैर्जुहुयात् ॥६९॥दुरितोच्छेदनविधये मन्त्री दीर्घायुषे च विशदमतिः ।आयुष्कामो जुहुयात्पायसहविराज्यकेवलाज्यैश्च ॥७०॥दूर्वाभिः सतिलाभिः सर्वैस्त्रिसहस्रसङ्ख्यकं मन्त्री ।अथ तु त्रिमधुरसिक्तैररुणैर्जुहुयात्सरोरुहैरयुतम् ॥७१॥नष्टश्रीरपि भूयो भवति मनोज्ञश्च मन्दिरं लक्ष्म्याः ।अन्नाद्यथ्र्यन्नैरपि पालाशैब्र्रह्मवर्चसे जुहुयात् ।सर्वैरेतैर्जुहुयात्सर्वफलाप्त्यै द्विजेश्वरो मतिमान् ॥७२॥इति परमरहस्यं वेदसारस्य सारंगदितमजसुशुद्धैर्योगिभिध्र्यानगम्यम् ।अमुमथ जपहोमध्यानकाले य एवंभजति स तु विशुद्धः कर्मभिर्मुक्तिमेति ॥७३॥इति श्रीमत्परमहंसपरिव्राजकाचार्यस्यश्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतःकृतौ प्रपञ्चसारे अष्टविंशः पटलः ॥ N/A References : N/A Last Updated : January 21, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP