संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|प्रपञ्चसारतन्त्रम्| षोडशः पटलः प्रपञ्चसारतन्त्रम् विशेष माहिती प्रथमः पटलः द्वितीयः पटलः तृतीयः पटलः चतुर्थः पटलः पञ्चमः पटलः षष्ठः पटलः सप्तमः पटलः अष्टमः पटलः नवमः पटलः दशमः पटलः एकादशः पटलः द्वादशः पटलः त्रयोदशः पटलः चतुर्दशः पटलः पञ्चदशः पटलः षोडशः पटलः सप्तदशः पटलः अष्टादशः पटलः एकोनविंशः पटलः विंशः पटलः एकविंशः पटलः द्वाविंशः पटलः त्रयोविंशः पटलः चतुर्विंशः पटलः पञ्चविंशः पटलः षड्विंशः पटलः सप्तविंशः पटलः अष्टाविंशः पटलः एकोनत्रिंशः पटलः त्रिंशः पटलः एकत्रिंशः पटलः द्वात्रिंशः पटलः त्रयस्त्रिंशः पटलः षोडशः पटलः प्रपञ्चसारतन्त्रम् (Prapancasaratantra), ज्याचा अर्थ 'ब्रह्मांडाचे सार' असा आहे. Tags : prapanchasarshankaracharyaप्रपञ्चसारतन्त्रशंकराचार्य षोडशः पटलः Translation - भाषांतर अथ सङ्ग्रहेण कथयामि मनुमपि महागणेशितुः ।यमवहितधियः समुपास्य सिद्धिमधिकां प्रपेदिरे ॥१॥तारश्रीशक्तिमारावनिगणपतिबीजानि दण्डीनि चोक्त्वापश्चाद्विघ्नं चतुथ्र्या वरवरदमथो सर्वयुक्तं जनं च ।आभाष्य क्ष्वेलमेन्तं वशमिति च तथैवानयेति द्विठान्तःप्रोक्तोऽयं गाणपत्यो मनुरखिलविभूतिप्रदः कल्पशाखी ॥२॥ऋषिरपि गणकोऽस्य स्याच्छन्दोनिचृदन्विता च गायत्री ।सकलसुरासुरवन्दितचरणयुगो देवता महागणपः ॥३॥प्रणवादिबीजपीठस्थितेन दीर्घस्वरान्वितेन सता ।अङ्गानि षड्विदध्यान्मन्त्री विघ्नेश्वरस्य बीजेन ॥४॥मन्दाराद्यैः कल्पकवृक्षविशेषैर्विशिष्टतरफलदैः ।शिशिरितचतुराशेऽन्तर्बालातपचन्द्रिकाकुले च तले ॥५॥ऐक्षवजलनिधिलहरीकणजालकवाहिना च गन्धवहेन ।संसेविते च सुरतरुसुमनःश्रितमधुपपक्षचलनपरेण ॥६॥रत्नमये मणिवङ्काप्रवालफलपुष्पपल्लवस्य सतः ।महतोऽधस्तादृतुभिर्युगपत्संसेवितस्य कल्पतरोः ॥७॥सिंहमुखपादपीठगलिपिमयपद्मे त्रिषट्कोणोल्लसिते ।आसीनस्त्वेकरदो बृह्दुदरो दशभुजोऽरुणतनुश्च गजवदनः ॥८॥बीजापूरगदेक्षुकार्मुकरुजाचक्राब्जपाशोत्पल-व्रीह्यग्रस्वविषाणरत्नकलशप्रोद्यत्कराम्भोरुहः ।ध्येयो वल्लभया सपद्मकरयाश्लिष्टो ज्वलद्भूषयाविश्वोत्पत्तिविपत्तिसंस्थितिकरो विघ्नो विशिष्टार्थदः ॥९॥करपुष्करधृतकलशस्रुतमणिमुक्ताप्रवालवर्षेण ।अविरतधारां विकिरन्परितः साधकसमग्रसम्पत्त्यै ॥१०॥मदजललोलुपमधुकरमालां निजकर्णतालताडनया ।निर्वासयन्मुहुर्मुहुरमरैरसुरैश्च सेवितो युगपत् ॥११॥अग्रेऽथ बिल्वमभितश्च रमारमेशौतद्दक्षिणे वटजुषौ गिरिजावृषाज्रै ।पृष्ठेऽथ पिप्पलजुषौ रतिपुष्पबाणौसव्ये प्रियङ्गुमभितश्च महीवराहौ ॥१२॥ध्येयौ च पद्मयुगचक्रदरैः पुरोक्तौपाशाज्रुशाख्यपरशुत्रिशिखैरथान्यौ ।युग्मोत्पलेक्षुमयचापधरौ तृतीया-वन्यौ शुकाह्वकलमाग्रगदारथाङ्गैः ॥१३॥ध्येयाः षट्कोणाश्रिषुपरितः पाशाज्रुशाभयेष्टकराः ।सप्रमदा गणपतयो रक्ताकाराः प्रभिन्नमदविवशाः ॥१४॥अग्राश्रावामोदः प्रमोदसुमुखौ च तदभितोऽश्रियुगे ।पृष्ठे च दुर्मुखाख्यस्त्वमुमभितो विघ्नविघ्नकर्तारौ ॥१५॥सव्यापसव्यभागे तस्य ध्येयौ च शङ्खपद्मनिधी ।मौक्तिकमाणिक्याभौ वर्षन्तौ धारया धनानि सदा ॥१६॥सिद्धिसमृद्धी चान्या कान्तिर्मदनावती मदद्रवया ।द्राविणिवसुधाराख्ये वसुमत्यपि विघ्ननिधियुगप्रमदाः ॥१७॥ध्यात्वैवं विघ्नपतिं चत्वारिंशत्सहस्रसंयुक्तम् ।प्रजपेल्लक्षचतुष्कं चतुःसहस्रं च दीक्षितो मन्त्री ॥१८॥दिनशः स चतुश्चत्वारिंशत्सङ्ख्यं प्रतर्पयेद्विघ्नम् ।उक्तजपान्ते मन्त्री जुहुयाच्च दशांंशतोऽष्टभिद्र्रव्यैः ॥१९॥मोदकपृथुका लाजाः ससक्तवः सेक्षुनालिकेरतिलाः ।कदलीफलसहितानीत्यष्ट द्रव्याणि सम्प्रदिष्टनि ॥२०॥अनुदिनमर्चयितव्यो जपता मनुमपि च मन्त्रिणा गणपः ।प्राक्प्रोक्तपद्मपीठे सशक्तिके साधिका मनौ विधिना ॥२१॥तीव्रा ज्वालिनिनन्दे सभोगदा कामरूपिणी चोग्रा ।तेजोवती च नित्या सम्प्रोक्ता विघ्ननाशिनी नवमी ॥२२॥सर्वयुतं शक्तिपदं प्रोक्त्वा कमलासनाय नम इति च ।आसनमन्त्रः प्रोक्तो नवशक्त्यन्ते समर्चयेदमुना ॥२३॥आद्या मिथुनैरावृतिरपरा सनिधिभिरपि च षड्विघ्नैः ।अङ्गैरन्या मातृभिरपरेन्द्राद्यैश्च पञ्चमी पूज्या ॥२४॥दीक्षाभिषेकयुक्तः प्रजपेत्सम्पूजयेदिति गणेशम् ।अभिधीयतेऽस्य च पुनर्गुर्वादेशेन मन्त्रिणो दीक्षा ॥२५॥मध्ये च दिग्दलानां चतुष्टयाग्रे प्रविन्यसेत्कलशान् ।क्षीरद्रुबिल्वरोहिणपिप्पलफलिनीत्वगुद्भवैः क्वथितैः ॥२६॥सम्पूजयेद्यथावत्क्रमात्समावाह्य गणपमिथुनानि ।अभ्यच्र्य चोपचारैर्हुत्वा विधिवत्पुनः समभिषिञ्चेत् ॥२७॥इति जपहुतार्चनाद्यैः सिद्धो मन्त्रेण कर्म कुर्वीत ।अष्टद्रव्यैर्वान्यैर्हुनेच्च तत्तत्प्रयोजनावाप्त्यै ॥२८॥स्वर्णाप्त्यै मधुना च गव्यपयसा गोसिद्धये र्सिपषालक्ष्म्यै शर्करया जुहोतु यशसे दघ्ना च सर्वद्र्धये ।अन्नैरन्नसमृद्धये च सतिलैद्र्रव्याप्तये तण्डुलै-र्लाजाभिर्यशसे कुसुम्भकुसुमैः साश्वारिजैर्वाससे ॥२९॥पद्मैर्भूपतिमुत्पलैर्नृपवधूं तन्मन्त्रिणः कैरवै-रश्वत्थादिसमिद्भिरग्रजमुखान्वर्णान्वधूः पिष्टजैः ।पुत्तल्यादिभिरन्वहं च वशयेज्जुह्वन्ननावृष्टयेलोणैर्वृष्टिसमृद्धये च जुहुयान्मन्त्री पुनर्वेतसैः ॥३०॥मन्त्रेणाथ पुरामुनैव चतुरावृत्त्या समातप्र्य चश्रीशक्तिस्मरभूविनायकरतीर्नाम्नैव बीजादिकम् ।आमोदादिनिधिद्वयं च सचतुःपूर्वं चतुर्वारकंमन्त्री तर्पणतत्परोऽभिलषितं सम्प्राप्नुयान्मण्डलात् ॥३१॥अथ गजलिप्सुर्नृपतिर्गजवनमध्ये प्रसाधयेद्वारि ।तन्निकटे तु विशालं चतुरश्रं कारयेच्च गृहवर्यम् ॥३२॥परिवीतदृढावरणं तच्च चतुर्दारतोरणोल्लसितम् ।तस्मिन्मण्डपवर्ये चतुरश्रामुन्नतां स्थलीं कृत्वा ॥३३॥उत्तरभागे तस्याः कुण्डं रचयेद्यथा पुरा तत्र ।चापजहरिभवमानुषचक्रप्रोक्तानथाक्षरान्मन्त्री ॥३४॥ऊध्र्वादिमेखलासु क्रमेण विलिखेन्निजेष्टसमवाप्त्यै ।सम्प्रोक्तलक्षणयुतं प्रविरचयेन्मण्डलं स्थलीमध्ये ॥३५॥आवाह्य विघ्नेश्वरमर्चयित्वाप्रागुक्तया तत्र विधानकॢप्त्या ।निवेदयित्वा सह भक्ष्यलैह्यैःप्राज्यैश्च साज्यैरपि भोज्यजातैः ॥३६॥आधाय वैश्वानरमत्र कुण्डे समच्र्य मन्त्रैः क्रमशः कृशानोः ।तैरेव पूर्वं जुहुयाद्घृतेन मन्त्री समृद्ध्या च ततस्त्रिवारम् ॥३७॥तारेण लक्ष्म्यद्रिसुतास्मरक्ष्माविघ्नेशबीजैः क्रमशोऽनुबद्धैः ।पदत्रयेणापि च मन्त्रराजं विभज्य मन्त्री नवधा जुहोतु ॥३८॥पुनः समस्तेन च मन्त्रवर्णसङ्ख्यं प्रजुह्वन्नपि र्सिपषैव ।पूर्वप्रदिष्टैर्जुहुयादथाष्टद्रव्यैः प्रसिक्तैर्मधुरत्रयेण ॥३९॥सचतुश्चत्वारिंशत्सहस्रसङ्ख्यैश्चतुःशतैः श्रुतिभिः ।दशकचतुष्कैर्हुत्वा चत्वारिंशद्भिरन्तरेण दिनैः ॥४०॥करिकलभाः करिणीभिः सम्पात्यन्तेऽवटेऽत्र गणपतिना ।प्रतिदिनमभ्यवहार्य च विप्रान्संर्विधतस्तदाशीर्भिः ॥४१॥तेषां मातङ्गानां दद्यात्पञ्चांशदक्षिणां गुरवे ।तद्विक्रीतं वसु वा प्रसादितायाथ तद्दशांशं वा ॥४२॥मिथुनानां गणपानां निध्योश्च तथाङ्गमातृलोकेशानाम् ।मन्त्री घृतेन हुत्वाभ्यच्र्य च होमं समापयेत्सम्यक् ॥४३॥पुनरुद्धृत्य निवेद्यादिकं समभ्यच्र्य गणपतिं सावरणम् ।उद्वास्य स्वे हृदये विहरेदित्यर्चना क्रमोद्दिष्टा ॥४४॥प्रोक्तस्त्वेवं दशभुजमनुः सङ्ग्रहेणात्र भक्तोदीक्षां प्राप्तो विधिवदभिजप्त्वाथ हुत्वार्चयित्वा ।नुत्वा नत्वा दिनमनु तथा तर्पयित्वा स्वकामा-ल्लँब्ध्वा चान्ते व्रजति मुनिभिः प्रार्थनीयं पदं तत् ॥४५॥स्मृतिपीठः पिनाकी सानुग्रहो बिन्दुसंयुतः ।बीजमेतद्भुवः प्रोक्तं संस्तम्भनकरं परम् ॥४६॥चतुरीयो विलोमेन तारादिर्बिन्दुसंयुतः ।वैघ्नो मन्त्रो हृदन्तोऽर्चाविधौ होमे द्विठान्तकः ॥४७॥गणकः स्यादृषिश्छन्दो निचृद्विघ्नश्च देवता ।बीजेन दीर्घयुक्तेन दण्डिनाङ्गक्रियेरिता ॥४८॥रक्तो रक्ताङ्गरागांशुककुसुमयुतस्तुन्दिलश्चन्द्रमौलि-र्नेत्रैर्युक्तस्त्रिभिर्वामनकरचरणो बीजपूरात्तनासः ।हस्ताग्राकॢप्तपाशाज्रुशरदवरदो नागयज्ञाभिभूषोदेवः पद्मासनो वो नवतु नतसुरो भूतये विघ्नराजः ॥४९॥दीक्षितः प्रजपेल्लक्षचतुष्कं प्राक्समीरितैः ।जुहुयादष्टभिद्र्रव्यैर्यथापूर्वं दशांशतः ॥५०॥पीठे तीव्रादिभिः पद्मर्किणकायां विनायकम् ।आवाह्य पूजयेद्दिक्षु चतुष्र्वपि यजेत्पुनः ॥५१॥गणाधिपगणेशौ च गणनायकमेव च ।गणक्रीडं र्किणकायामङ्गैः किञ्जल्कसंस्थितैः ॥५२॥वक्रतुण्डैकदंष्ट्रौ च महोदरगजाननौ ।लम्बोदरश्च विकटो विघ्नराड्धूमवर्णकौ ॥५३॥समर्चयेन्मातृवर्गं बाह्ये लोकेश्वरानपि ।इति प्रोक्ता सङ्ग्रहेण गाणेशीयं समर्चना ॥५४॥नारिकेलान्वितैर्मन्त्री सक्तुलाजतिलैर्हुनेत् ।आरभ्याच्छां प्रतिपदं चतुथ्र्यन्तं चतुःशतम् ॥५५॥दिनशः सर्ववश्यं स्यात्सर्वकामप्रदं नृणाम् ।तिलतण्डुलकैर्लक्ष्मीवश्यकृच्च यशस्करम् ॥५६॥मधुरत्रयसिक्ताभिर्लाजाभिः सप्तवासरम् ।जुहुयात्कन्यकार्थी वा कन्यका वा वरार्थिनी ॥५७॥चतुथ्र्यां नालिकेरैस्तु होमः सद्यः श्रियावहः ।हविषा घृतसिक्तेन सर्वकार्यार्थदो हुतः ॥५८॥दध्यन्नलोणमुद्राभिहुनेन्निशि चतुर्दिनम् ।इष्टार्थसिद्ध्यै मतिमान्सद्यः संवादसिद्धये ॥५९॥ईदृशं गणपं ध्यात्वा मन्त्री तोयैः सुधामयैः ।दिनादौ दिनशस्तस्य तर्पयेन्मस्तके सुधीः ॥६०॥चत्वारिंशच्चतुःपूर्वं तत्पूर्वं वा चतुःशतम् ।चत्वारिंशद्दिनात्तस्य काङ्क्षिता सिद्धिरेष्यति ॥६१॥नवनीते नवे लिख्यादनुलोमविलोमकम् ।उदरस्थितसाध्याख्यं तद्बीजं तत्प्रतिष्ठितम् ॥६२॥समीरणं प्रतिष्ठाप्य जप्त्वाष्टशतसङ्ख्यकम् ।तूष्णीं प्रभक्षयेदेतत्सप्तरात्राद्वशीकरम् ॥६३॥अन्त्यासनोऽथ सूक्ष्मो लोहितगोऽग्निः पुनः स एव स्यात् ।सादान्तेनायार्णौ नत्यन्तो मनुरयं स्वबीजाद्यः ॥६४॥ऋषिदेवते तु पूर्वे च्छन्दस्तु विराडमुष्य सम्प्रोक्ता ।बीजेन दीर्घभाजा कथितोऽङ्गविधिः क्रमेण बिन्दुमता ॥६५॥धृतपाशाज्रुशकल्पकलतिकास्वरदश्च बीजपूरयुतः ।शशिशकलकलितमौलिस्त्रिलोचनोऽरुणतनुश्च गजवदनः ॥६६॥भासुरभूषणदीप्तो बृहदुदरः पद्मविष्टरो ललितः ।ध्येयोऽनायतदोःपदसरसिरुहः सम्पदे सदा मनुजैः ॥६७॥दीक्षायुक्तः प्रजपेल्लक्षं मनुमेनमथ तिलैरयुतम् ।त्रिमधुरसिक्तैर्जुहुयात्पूर्वोक्तैर्वाथ वाष्टभिद्र्रव्यैः ॥६८॥विघ्नविनायकवीराः सशूलवरदेभवक्त्रकैकरदाः ।लम्बोदरश्च मातङ्गावृत्योरन्तरा च लोकेशाः ॥६९॥पूज्याः सितघृतपायसहवनात्सञ्जायते महालक्ष्मीः ।केवलघृतहुतमुदितो विघ्नः सद्यो वशीकरोति जगत् ॥७०॥एकमपि नालिकेरं सचर्मलोष्टेन्धनं हुनेन्मन्त्री ।दिनशश्चत्वारिंशद्दिनतः स तु वाञ्छितार्थमभ्येति ॥७१॥सह पृथुकसक्तुलाजैस्तिलैरभीष्टार्थसिद्धये जुहुयात् ।सापूपनालिकेरेक्षुककदलीभिस्तथा सुमधुराभिः ॥७२॥अष्टभिरेतैर्विहितो होमः सर्वार्थसाधको भवति ।दिनशः सघृतान्नहुतो गृहयात्रायापको गृहस्थानाम् ॥७३॥अन्वहमन्वहमादौ गणपं सन्तर्पयेच्चतुःपूर्वम् ।चत्वारिंशद्वारैः शुद्धजलैरिन्दिराप्तये मन्त्री ॥७४॥समहागणपतियुत्तैरीवघ्नाद्यैर्दशभिराह्वयैर्दिनशः ।तर्पणपूजाहुतविधिरपि वाञ्छितसिद्धिदायको भवति ॥७५॥बिम्बादम्बुदवत्समेत्य सवितुः सोपानकै राजतै-स्तोयं तोयजविष्टरं ध्रतलतादन्तं सपाशाज्रुशम् ।नासां साध्यनृके निधाय सुधया तद्रन्ध्रनिर्यातयासिञ्चन्तं वपुरन्वहं गणपतिं स्मृत्वामृतैस्तर्पयेत् ॥७६॥प्राग्भाषितानपि विधीन्विधिवद्विदध्या-न्मन्त्री विशेषविदथान्वहमादरेण ।एकत्र वा गणपतौ मनुजाः स्वरुच्यानामानुरूपमनुमेनममी भजन्तु ॥७७॥इति जपहुतपूजातर्पणैर्विघ्नराजंप्रभजति मनुजो यस्तस्य शुद्धिर्विशाला ।भवति सधनधान्या पुत्रमित्रादियुक्ताविगतसकलविघ्ना विश्वसंवादिनी च ॥७८॥इति श्रीमत्परमहंसपरिव्राजकाचार्यस्यश्रीगोविन्दभगवत्पूज्यपादशिष्यस्यश्रीमच्छङ्करभगवतः कृतौ प्रपञ्चसारे षोडशोः पटलः ॥ N/A References : N/A Last Updated : January 21, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP