त्रयोविंशः पटलः
प्रपञ्चसारतन्त्रम् (Prapancasaratantra), ज्याचा अर्थ 'ब्रह्मांडाचे सार' असा आहे.
अथ प्रवक्ष्यामि नृसिंहमन्त्रस्यानुष्टुभः सङ्ग्रहतो विधानम् ।
साङ्गं सजापं सहुतक्रमं च सार्चाविधानं निजवाञ्छिताप्त्यै ॥१॥
उग्रं वीरयुतं महान्तिकमथो विष्णुं ज्वलन्तान्वितं
सम्प्रोक्त्वाथ च सर्वतोमुखनृसिंहार्णं तथा भीषणम् ।
भद्रं मृत्युयुतं च मृत्युमपि च प्रोक्त्वा नमाम्यायुतं
भूयोऽहम्पदमुद्धरेन्मनुमिमं मन्त्री समस्तार्थकम् ॥२॥
ब्रह्मा प्रजापतिर्वा प्रोक्त ऋषिर्नारदश्च विद्वद्भिः ।
छन्दोऽनुष्टुबुदाहृतमथ विष्णुर्देवता नृसिंहाख्यः ॥३॥
वर्णैश्चतुर्भिरुदितं हृदयं शिरश्च
तावद्भिरष्टभिरथास्य शिखा प्रदिष्टा ।
षड्भिश्च वर्म नयनं च चतुर्भिरस्त्रं
प्रोक्तं क्रमेण मनुनाक्षरशः षडङ्गम् ॥४॥
सशिरोललाटदृग्युगमुखकरपदसन्धिकेषु साग्रेषु ।
उदरहृदोर्गलपाश्र्वेष्वपरे ककुदि क्रमान्न्यसेद्वर्णान् ॥५॥
प्रतिपत्तिरस्य चोक्ता प्रसन्नता क्रूरता विशेषेण ।
द्विविधा प्रसन्नया स्यात्मसाधनपूजान्यया प्रयोगविधिः ॥६॥
जान्वोरासक्ततीक्ष्णस्वनखरुचिलसद्बाहुसंस्पृष्टकेश-
श्चक्रं शङ्खं च दोभ्र्यां दधदनलसमज्योतिषा भग्नदैत्यः ।
ज्वालामालापरीतं रविशशिदहनत्रीक्षणं दीप्तजिह्वं ।
दंष्ट्रोग्रं धूतकेशं वदनमपि वहन्पातु वो नारसिंहः ॥७॥
उद्यद्भास्वत्सहस्रप्रभमशनिनिभत्रीक्षणैर्विक्षरन्तं
वह्नीनह्नाय विद्युत्ततिविततसटाभीषणं भूषणैश्च ।
दिव्यैरादीप्तदेहं निशितनखलसद्बाहुदण्डैरनेकैः
सम्भिन्नं भिन्नदैत्येश्वरतनुमतनुं नारसिंहं नमामि ॥८॥
नरसिंहममुं धियैव पूर्वं प्रणिपत्याघ्र्यकपाद्यसाचमाद्यैः ।
प्रयजेत्सहगन्धपुष्पधूपादिभिरेवं प्रवरैश्च नृत्तगीतैः ॥९॥
सुविशदमतिरथ बहिरपि सम्यक्सम्पूज्य वैष्णवं पीठम् ।
तत्रावाह्य च नरहरिमुपचारैः सम्यगर्चयेत्प्रवरैः ॥१०॥
अङ्गैः प्रथमावृतिरपि पक्षीन्द्रानन्तशर्वकमलभवैः ।
सश्रीह्रीधृतिपुष्टिभिरपरोक्ता लोकपालकैरन्या ॥११॥
प्राक्प्रत्यग्यमशशिनां दिगाश्रया मूर्तयोऽनलादिषु च ।
स्युः शक्तय इत्येवं भक्त्या परया युतोऽर्चयेद्देवम् ॥१२॥
द्वात्रिंशके सहस्रैरधिकृतिरयुतैर्भवेत्पुरश्चरणम् ।
तावद्भिस्तावद्भिर्लक्षैः सिद्धिः समीरितास्य मनोः ॥१३॥
विकृतिद्विगुणसहस्रैर्जुहुयादाज्यान्वितैश्च दुग्धान्नैः ।
जपसम्पूर्तौ मन्त्री दिनशः सम्पूजयेच्च नरसिंहम् ॥१४॥
विधाय तद्बीजविशिष्टर्किणकं चतुश्चतुर्वर्णलसद्दलाष्टकम् ।
सुलक्षितं मण्डलमन्यलक्षणैर्निधाय तस्मिन्कलशं प्रपूर्य च ॥१५॥
यथोक्तमार्गेण समच्र्य साष्टकं सहस्रसङ्ख्यं प्रजपेन्मनुं ततः ।
त्रिरुच्चरन्मन्त्रमथाभिषेचयेद्यमेष मृत्योविरिफ्?निवर्तते मुखात् ॥१६॥
वर्णान्तानलभुवनार्धेन्दुभिरुक्तं नृसिंहबीजमिदम् ।
तन्नास्ति सम्यगमुना मन्त्रविदा साधितेन यदसाध्यम् ॥१७॥
विभवानुरूपतोऽस्मै दातव्या दक्षिणा च निजगुरवे ।
प्राणप्रदानकत्र्रे न तु कार्यं वित्तशाठ्यममलधिया ॥१८॥
सम्प्रीणयित्वा गुरुमात्मशक्त्या सम्भोजयेद्विप्रवरान्यथावत् ।
स त्वैहिकी सिद्धिमवाप्य शुद्धं परं परत्रापि पदं समेति ॥१९॥
दूर्वात्रिकैरष्टसहस्रसङ्ख्यै-
राराध्य मन्त्री जुहुयादथाप्सु ।
शान्तिं प्रयान्त्येव तदोपसर्गा
आपो हि शान्ता इति च श्रुतिः स्यात् ॥२०॥
उत्पाते महति सति ह्युपद्रवाणां
होमोऽयं भवति च शान्तिदो नराणाम् ।
यद्वान्यन्निजमनसेप्सितं च कामं
तच्चाप्नोत्यखिलनृणां प्रियश्च भूयात् ॥२१॥
दुःस्वप्नेष्वपि दृष्टेष्ववशिष्टा जाग्रता निशा नेया ।
जपमानमन्त्रशक्त्या सुस्वप्नो भवति तत्क्षणादेव ॥२२॥
चरन्वने दुष्टमृगाहिचोरव्यालाकुले मन्त्रममुं जपेद्यः ।
असाधितं साधितमेव तस्य न विद्यते भीर्बहुरूपजाता ॥२३॥
जप्तेनाष्टसहस्रं कलशेनाप्यहिविषार्तमभिषिञ्चेत् ।
अतिविषमेण विषेणाप्यसौ विमुक्तः सुखी भवति ॥२४॥
मूषिकलूतावृश्चिकबहुपादाद्युत्थितं विषं शमयेत् ।
अष्टोत्तरशतजापान्मनुरयमभिमन्त्रितं च भस्माद्यम् ॥२५॥
सशिरोक्षिकण्ठदद्गलकुक्षिरुजाज्वरविसर्पवमिहिक्काः ।
मन्त्रौषधाभिचारककृतान्विकारानयं मनुः शमयेत् ॥२६॥
नरहरिवपुषात्मना गृहीतं हरिणशिशुं निजवैरिणं विचिन्त्य ।
क्षिपतु गगनतः क्षितौ सुदूरं यमनुदिनं प्रतिचाट्यते समासात् ॥२७॥
यां च दिशं प्रति मनुना क्षिप्तोऽसौ तां दिशं प्रयात्यचिरात् ।
पुत्रकलत्रधनादींस्त्यक्त्वा त्वपुनर्निवृत्तये सहसा ॥२८॥
नरहरिवपुषात्मना निजारिं नखरखराग्रसमग्रभिन्नदेहम् ।
क्षणमिव निहतं विचिन्त्य खादन्निव जपतां मनुमेष नाशमेति ॥२९॥
पूर्वतरे मृत्युपदे विधाय निजसाध्यनाम मन्त्रितमः ।
क्रूरेण चक्षुषा तं दहन्निवालोक्य जपतु सप्तदिनम् ॥३०॥
दिनशोऽष्टोध्र्वसहस्रं म्रियते रिपुरस्य नात्र सन्देहः ।
मारणकर्म न शस्तं क्रियते यद्ययुतमथ जपेच्छान्त्यै ॥३१॥
वश्याकृष्टिद्वेषण मोहोच्चाटादिकानि यदि वाञ्छेत् ।
तदर्हया प्रतिपत्त्या तत्तत्कर्म प्रसाधयेन्मन्त्री ॥३२॥
दिनमनु दिननाथं पूजयित्वा दिनादौ
नरहरिमपि सम्यक्प्रोक्तमार्गेण मन्त्री ।
तदनु तदनुमत्या भस्मना मन्त्रितेन
प्रतिरचयतु राज्ञे वाप्यभीष्टाय रक्षाम् ॥३३॥
न्यासोक्तेषु स्थानेष्वपि न्यसेद्भस्मना समन्त्रार्णम् ।
अखिलोपद्रवशान्त्यै सम्पत्त्यै वाञ्छितार्थसंसिद्ध्यै ॥३४॥
अथ परराष्ट्रजयेच्छो राज्ञः कुर्यात्प्रयोगविधिमेवम् ।
नरहरिमपि विधिना तं हिरण्यकशिपुद्विषं समभ्यच्र्य ॥३५॥
तस्य पुरस्ताद्विधिवन्निधाय वह्निं विभीततरुकाष्ठैः ।
उज्ज्वलिते च ज्वलने समूलतूलैः शरेध्मदशशतकैः ।
खादन्निवोच्चरन्मनुमरींश्च भिन्दन्निव क्षिपेत्समिधः ॥३६॥
हुत्वा परराष्टेरभ्यः पृतनां सन्नाह्य च पुरस्तस्याः ।
निघ्नन्तं रिपुसेनां स्मरन्नृसिंहं पुरेव दितितनयात् ॥३७॥
यावज्जितारिरेष्यति नृपतिस्तावज्जपेत्स्मरन्नेवम् ।
सेन्द्रसुरासुररक्षोयक्षानपि जयति का कथा मनुजे ॥३८॥
श्रीकामः श्रीप्रसूनैर्दशकमथ शतानां हुनेद्बिल्वकाष्ठै-
स्तत्पत्रैर्वा प्रसूनैः सुमतिरथ समिद्भिः फलैर्वा तदीयैः ।
पुत्रेप्सुः पुत्रजीवेन्धनचितदहने तत्फलैर्वा सहस्रं
दूर्वाभिस्त्वायुषेऽब्दादभिमतमखिलं प्राप्नुयान्मन्त्रजापी ॥३९॥
ब्राह्मीं वचां वाष्टशताभिजप्तां
प्रातः समद्यान्नृहिंर विचिन्त्य ।
सम्प्राप्य मेधां स तु वेदशास्त्र-
निष्णातधीः स्यादपि वासरेण ॥४०॥
उक्तैः किमत्र बहुभिर्मनुनामुनैव
सम्प्रार्थितं सकलमेव लभेद्विधिज्ञः ।
तस्मादमुं भजत तत्प्रतिपन्नचित्ताः
संसारसागरसमुत्तरणार्थिनो ये ॥४१॥
पाशाज्रुशान्तरितशक्तिनृसिंहबीजै-
र्वर्मास्त्रयुङ्मनुरयं कथितः षडर्णः ।
ऋष्यादिकाः स्वभवपङ्क्तिकनारसिंहा
वर्णैश्च मन्त्रनिहितैः कथितं षडङ्गम् ॥४२॥
अव्यान्निव्र्याजरौद्राकृतिरभिविवृतास्योल्लसत्तीक्ष्णदंष्ट्र-
श्चक्रं शङ्खं च पाशाज्रूशकुलिशगदादारणाख्यान्दधानः ।
रक्ताकारश्च नाभेरध उपरि सितो दिव्यभूषाविशेषो
देवोऽर्काग्नीन्दुनेत्रो निखिलसुखकरो नारसिंहश्चिरं वः ॥४३॥
हृल्लेखान्तःस्थसाध्यं दहनपुरयुगाश्रिस्थमन्त्रार्णमन्तः-
सिंहानुष्टुप्चतुर्वर्णकलसितदलाढ्यं कलाकेसरं च ।
वृत्तोद्यद्व्यञ्जनावेष्टितमवनिपुराश्रस्थचिन्तोपलं त-
द्यन्त्रं रक्षःपिशाचामयविषयरिपुध्वंसनं नारसिंहम् ॥४४॥
इति विरचितयन्त्रप्रोज्ज्वले मण्डले प्रा-
क्समभिहितकषायाम्भोभिरापूर्य कुम्भम् ।
प्रतियजतु तदङ्गैरस्त्रभेदैस्तदीयै-
स्तदनु मखशताद्यैः साधुवङ्कादिकैश्च ॥४५॥
रथचरणशङ्खपाशाज्रुशकुलिशगदाह्वयानि चास्त्राणि ।
दारुणमुद्राकरयोर्ययोस्तदीयौ कृपाणखेटाख्यौ ॥४६॥
इति कृतदीक्षः प्रजपेदक्षरलक्षप्रमाणकं मन्त्रम् ।
जुहुयाच्च षट्सहस्रं जपावसाने घृतेन शुद्धेन ॥४७॥
खरमञ्जरीसमुत्थं जुहुयादथ मञ्जरीसहस्रतयम् ।
प्रस्नातपञ्चगव्यं सप्तदिनं भूतशान्तये मन्त्री ॥४८॥
छिन्नरुहां समिधां त्रिसहस्रं यश्च जुहोति चतुर्दिनमात्रम् ।
दुग्धयुजं नचिरान्मनुजानां होमविधिज्र्वरशान्तिकरः स्यात् ॥४९॥
अस्य यन्त्रमभिलिख्य भूर्जके साधु चाथ तृणराजपत्रके ।
मन्त्रजप्तमपि शीर्षबन्धनाज्जूर्तिविभ्रमशिरोरुजापहम् ॥५०॥
रक्तोत्पलैः प्रतिदिनं मधुरत्रयाक्तै-
र्यो वा जुहोति नियमेन सहस्रसङ्ख्यैः ।
मासेन वाञ्छितमवाप्स्यति मन्त्रजापी
स्याद्वत्सरेण धनधान्यसमृद्धगेहः ॥५१॥
आरक्तैस्तरणिसहस्रकं प्रफुल्लै-
रम्भोजैस्त्रिमधुरसंयुतैर्जुहोति ।
लक्ष्मीः स्यादथ महती महत्तथायुः
सम्प्राप्तः सकलजगत्प्रियश्च भूयात् ॥५२॥
लाजाभिस्त्रिमधुरसंयुताभिरह्नो
मासार्धं प्रतिजुहुयान्मुखे सहस्रम् ।
कन्यार्थी प्रतिलभते वरोऽथ कन्यां
कन्या वा भवति वरार्थिनी वराढ्या ॥५३॥
तिलैः सराजीखरमञ्जरीसमि-
द्धविधृतैश्च द्विसहस्रसङ्ख्यकैः ।
प्रजुह्वतो नैव रुजा ग्रहोद्भवा
न चाभिचारक्षतिरस्य जायते ॥५४॥
दशाधिकशतैः पयोधृतयुतैश्च दूर्वात्रयै-
र्हुनेद्दिनमुखेऽपि यो नरहिंर विचिन्त्यानले ।
अवाप्य स तु दीर्घमायुरखिलैर्वियुक्तो गदैः
सुखी भवति मानवो निजकलत्रपुत्रादिभिः ॥५५॥
विस्तारैः किं प्रतिजपति यो मन्त्रमेनं यथोक्तं
लब्ध्वा कामान्समभिलषितानाशु मन्त्री स भूयः ।
द्रव्यैराढ्यो द्विजनृपवरैः पूजितः शान्तचेताः
स्यादप्यन्ते परमपरिशुद्धं परं धाम विष्णोः ॥५६॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः
कृतौ प्रपञ्चसारे त्रयोविंशः पटलः ॥
N/A
References : N/A
Last Updated : January 21, 2026

TOP