संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|प्रपञ्चसारतन्त्रम्| चतुर्विंशः पटलः प्रपञ्चसारतन्त्रम् विशेष माहिती प्रथमः पटलः द्वितीयः पटलः तृतीयः पटलः चतुर्थः पटलः पञ्चमः पटलः षष्ठः पटलः सप्तमः पटलः अष्टमः पटलः नवमः पटलः दशमः पटलः एकादशः पटलः द्वादशः पटलः त्रयोदशः पटलः चतुर्दशः पटलः पञ्चदशः पटलः षोडशः पटलः सप्तदशः पटलः अष्टादशः पटलः एकोनविंशः पटलः विंशः पटलः एकविंशः पटलः द्वाविंशः पटलः त्रयोविंशः पटलः चतुर्विंशः पटलः पञ्चविंशः पटलः षड्विंशः पटलः सप्तविंशः पटलः अष्टाविंशः पटलः एकोनत्रिंशः पटलः त्रिंशः पटलः एकत्रिंशः पटलः द्वात्रिंशः पटलः त्रयस्त्रिंशः पटलः चतुर्विंशः पटलः प्रपञ्चसारतन्त्रम् (Prapancasaratantra), ज्याचा अर्थ 'ब्रह्मांडाचे सार' असा आहे. Tags : prapanchasarshankaracharyaप्रपञ्चसारतन्त्रशंकराचार्य चतुर्विंशः पटलः Translation - भाषांतर अथ सम्प्रति विष्णुपञ्जरस्यप्रतिवक्ष्यामि समासतो विधानम् ।जितवांस्त्रिपुरं हरोऽपि येनत्रिदशानामधिपो वलासुरं च ॥१॥शक्तेर्द्वादशगुणिते यन्त्रे मन्त्राणि मण्डलान्यपि च ।बीजानि यानि चोक्तान्येभिः कॢप्तं तु पञ्जरं विष्णो ॥२॥विष्णुं लिखेन्मध्यगशक्तिबिन्दौ कपोलयोः सिंहवराहबीजे ।तद्विश्वरूपाह्वयमन्त्रवीतं प्रवेष्टयेत्षोडशमन्त्रवर्णैः ॥३॥तारं हृदयं भगवत्पदं महाविष्णुवासुदेवौ ङेन्तौ ।विश्वादिरूपं शरणं भव मे प्रभविष्णवे नमस्यामन्त्रः ॥४॥द्वादशाक्षरमन्त्रान्ते भवेतां कवचास्त्रकौ ।स्वाहान्तषोडशार्णोऽयं मन्त्रः सर्वार्थसाधकः ॥५॥क्रमेण तद्वर्णविकारजाताश्चक्रादिकाः षोडश मूर्तयः स्युः ।याभिस्तु विष्णोरिह पञ्जरस्य प्रवर्तते शक्तिरनेकरूपा ॥६॥यन्त्रस्य बीजेषु चतुर्षु पूर्वंप्राग्दक्षिणप्रत्यगुदग्गतेषु ।विद्वांस्तु चक्रं च गदां च शाङ्र्गखङ्गं च मन्त्रैः सहितं विलिख्यात् ॥७॥शङ्खहलमुसलशूलान्यग्न्याद्यश्रिष्वथाष्टबीजेषु ।विलिखेद्दण्डं कुन्तं शक्तिं पाशाज्रुशं कुलिशशतमुखवह्नीन् ॥८॥सप्रणवत्दृदयभगवद्विष्णुस्वाख्यानमूर्तिधरयुक्ताः ।सेनापतिसहिता निजमन्त्रान्ता मूर्तयोऽत्र लिखितव्याः ॥९॥सहस्रारपदं पूर्वं कौमोदकि ततो भवेत् ।महाशाङ्र्गपदं पश्चान्महाखड्गपदं पुनः ॥१०॥प्रोक्तानि वर्मास्त्रान्तानि निजमन्त्राणि वै क्रमात् ।पूर्वं महापाञ्चजन्यं महाहलमनन्तरम् ॥११॥ततो महामुसलकं महाशूलं ततः परम् ।स्वाहान्तानि च मन्त्राणि शङ्खादीनां क्रमाद्विदुः ॥१२॥दण्डादीनामथाष्टानामन्ते युञ्ज्यान्नमःपदम् ।पात्रोद्धृतधरं विद्वान्वाराहे विष्ण्वभिख्ययोः ॥१३॥अन्तरा योजयेन्मन्त्री नारसिंहं पुनः सुधीः ।नखं च दलितं चैव रिपुविग्रहमेव च ॥१४॥योजयित्वा नृसिंहात्प्राक् सिंहमन्त्रं समापयेत् ।विष्णोरन्ते महापक्षिराजाय च गरुत्मते ॥१५॥हरिपूर्वं वाहनाय प्राणात्मन इतीरयेत् ।नमोऽन्तोऽसौ तु विद्वद्भिर्मन्त्रो गारुत्मतो मतः ॥१६॥स त्रिष्टुभा वह्निगृहेण पूर्वं सानुष्टुभेन्दोर्निलयेन चापि ।गायत्रिमन्त्रोल्लसितेन भूयः प्रवेष्टयेदर्कनिकेतनेन ॥१७॥अनुलोमविलोमगैश्च वर्णैरभिवीतं वसुधापुरद्वयेन ।नलिनं बहिरष्टयुग्मपत्रं प्रविदध्यादथ मूर्तिमन्त्रयुक्तम् ॥१८॥तद्बहिर्मण्डलं सर्वलक्षणैरभिलक्षितम् ।तस्मिन्नावाह्य विधिवद्विश्वरूपहिंर यजेत् ॥१९॥अग्नीषोमात्मकमरिगदाशाङ्र्गखड्गैः सशङ्खै-रुद्यद्बाहुं हलमुसलशूलैः सकुन्तैः सदण्डैः ।शक्त्या पाशाज्रुशकुलिशटज्रग्निभिश्चार्कवह्नि-द्योतद्वक्त्राङ्घ्रिकसरसिजं तप्तकार्तस्वराभम् ॥२०॥विष्णुं भास्वत्किरीटं मणिमकुटकटीसूत्रकेयूरहार-ग्रैवेयोम्र्यादिमुख्याभरणमणिगणोल्लासिदिव्याङ्गरागम् ।विश्वाकाशावकाशप्रविततमयुतादित्यनीकाशमुद्य-द्बाह्वग्रव्यग्रनानायुधनिकरकरं विश्वरूपं नमामि ॥२१॥अभ्यच्र्य पूर्ववत्पीठं नवशक्तिसमन्वितम् ।अर्चयेत्क्रमशो विद्वान्मूर्तिशक्तिचतुष्टयम् ॥२२॥चक्रं च चक्राज्र्किरीटमौलिंसचक्रशङ्खं सगदं सशाङ्र्गम् ।रक्ताम्बरं रक्ततनुं कराल-द्रष्ट्राननं प्राग्दलकेऽर्चयीत ॥२३॥पूज्या गदा गदाज्र्तिमौलि सगदा सचक्रशङ्खधनः ।पीताम्बरानुलेपा पीता क्रुद्धा च याम्यसंस्थदले ॥२४॥श्यामं शाङ्र्गाज्र्तिकं शाङ्र्गारिदरगदाहस्तम् ।रक्तांशुकानुलेपनमाल्यादिं वारुणे यजेत्पत्रे ॥२५॥खड्गं सखड्गशिरसं खड्गारिगदाधनुष्करं धूम्रम् ।विकृताम्बरानुलेपस्रजं समभ्यर्चयेदुदक्पत्रे ॥२६॥शङ्खं सशङ्खशिरसं शङ्खारिगदाधनुष्करं सुसितम् ।सितवसनमाल्यभूषं यजेन्महानादमग्निसंस्थदले ॥२७॥शङ्खोक्तचिह्नभूषान्स्वास्त्रादिकधरचतुर्भुजानपरान् ।हलमुसलशूलसंज्ञान्यजेन्निशाटादिकेषु पत्रेषु ॥२८॥दण्डादिकांस्तथाष्टौच्छिद्रदलेष्वर्चयीत रक्ताभान् ।स्वस्वायुधप्रधानांश्चतुर्भुजाञ्शतमुखानलान्तांश्च ॥२९॥दंष्ट्राग्रलग्नवसुधं सजलाम्बुवाह-चोरार्चिषं त्वभियजेदधरेऽष्टबाहुम् ।चक्रासिबाणसगदादरचर्मशाङ्र्ग-शक्त्याख्यकान्दधतमादिमहावराहम् ॥३०॥अर्कानलोज्ज्वलमुखं नयनैस्त्रिभिश्चवह्निं क्षरन्तमवधूतसटाकलापम् ।शुक्लाभभूषमरिशङ्खगदासिबाहुंभूयोऽभिराधयतु खे च महानृसिंहम् ॥३१॥अगेर समग्रबलमुग्रतनुं स्वपक्ष-विक्षेपविक्षतविलक्षविपक्षपक्षम् ।खण्डाग्रतुण्डममुमण्डजदण्डनाथ-माराधयेदथ च पञ्जरगस्य विष्णोः ॥३२॥भूयोऽपि केशवेन्द्रादिकौ समभ्यर्चयेच्च वङ्कादीन् ।गन्धादिभिरुपचारैः पञ्चभिरथ संयतात्मको मन्त्री ॥३३॥निवेदिते होमविधिश्च कार्योदीक्षाविधानाभिहितश्च वह्नौ ।सर्सिपषान्नेन तु वह्निमूर्तिहुत्वा तु विष्णोर्मनुना तथैव ॥३४॥जुहुयाच्च वामदेवादिकशान्त्यादींश्च रुद्रसङ्ख्येन ।दुग्धतरूत्थाः समिधः क्रमेण चक्रादिभिश्चतुर्मन्त्रैः ॥३५॥जुहुयादष्टोध्र्वशतं सङ्ख्याद्यैर्द्वादशभिरथ मनुभिः ।तिलसिद्धार्थैर्जुहुयाद्विकारसङ्ख्यं पृथक्पृथङ्मन्त्री ॥३६॥त्रिष्टुबनुष्टुप्तत्पदमन्त्रैर्मन्त्रार्णसङ्ख्यकं हविषा ।सघृतेन केशवाद्यैर्दिनकरसङ्ख्यं तथेन्द्रवङ्काद्यैः ।जुहुयात्पृथगपि वसुमितमथ च महाव्याहृतीर्हुनेन्मतिमान् ॥३७॥आराध्य च विसृज्याग्निमभिषिच्य सुसंयतः ।विष्णोस्तु पञ्जरं कुर्यादृषिब्र्रह्मबृहस्पती ॥३८॥छन्दस्त्वनुष्टुप् त्रिष्टुप् च मुनिभिः समुदाहृते ।विश्वरूपादिको विष्णुर्विष्णुपञ्जरदेवता ॥३९॥अष्टार्णचक्रमनुमध्यगतैश्च पादै-व्र्यस्तैस्तथा सुमतिरारचयेत्समस्तैः ।गीतामनोः क्रमश एव च जातियुञ्जिपञ्चाङ्गकानि हरिपञ्जरकल्पितानि ॥४०॥विष्णुः प्राच्यादिकमथ जपेन्नारसिंहोऽम्बरान्तंत्रिस्त्रिर्मन्त्रान्पुनरपि तथा पञ्चशस्त्वेकविंशत् ।बुद्धिस्वास्थ्यप्रभृति च तथा पञ्चवारं त्रिगाधाभूयो जप्याद्विमलशितधीश्चक्रमन्त्राभिधानम् ॥४१॥नमो भगवते सर्वविष्णवे विश्वरूपिणे ।वासुदेवाय चक्रादिसर्वायुधभृते नमः ॥४२॥अर्केन्दुवह्निनिलयस्फुरितत्रिमन्त्र-शक्तिप्रबन्धमहसः परमस्य विष्णोः ।पादारविन्दगलितामृतसिक्तगात्रंसाध्यं स्मरेज्जपविधावपि साधकेशः ॥४३॥विष्णोः सान्निध्यलब्धोल्लसितबलचलद्धस्तदण्डोद्यतास्त्रै-श्चक्राद्यैर्भीषणास्येक्षणचरणवचोहासहुङ्कारघौरैः ।उत्क्षिप्ताक्षिप्तकृत्तस्फुटितविगलिताघूर्णितध्वस्तशान्ताध्यायेद्वेतालभूतग्रहदुरितपिशाचारिनागारिरोगान् ॥४४॥पूर्वं स्थाने हृषीकेशमन्त्रयुक्तं विधानवित् ।विश्वरूपात्मकं जप्याद्वैष्णवं मूलमन्त्रकम् ॥४५॥योजयित्वा जपेत्पश्चाच्चक्रादिषु यथाक्रमम् ।चतुर्षु चतुरः पादान्गीतात्रिष्टुप्समुद्भवान् ॥४६॥पूर्णेषु षोडशेष्वेवमाद्यं पादे वराहके ।द्वितीयान्नारसिंहे च द्वितीयं गारुडे पुनः ॥४७॥चतुर्थं च क्रमं ते च योजयित्वा जपेत्सुधीः ।मन्त्रं सुदर्शनं चेत्थमिष्टमष्टादशं मनुम् ॥४८॥संयोज्य कृच्छ्रे महति जपेन्मन्त्री विधानवित् ।आग्नेये वक्ष्यमाणेन विधानेन समाहितः ॥४९॥सिकतोपलसर्वादीन्साधयेदथ तैः क्रियाः ।वास्तौ पुरे वा ग्रामे वा विदध्याद्विषयेऽपि वा ॥५०॥मध्ये च षोडशाशान्ते खनेदष्टदशावटान् ।अष्टादशं तु शक्रस्य विदध्यात्पुरतोऽवटम् ॥५१॥हस्तागाधांस्तथायामांश्चतुरश्रान्समन्ततः ।अन्योन्यतश्चङ्क्रमार्थं शुद्धान्मार्गान्विधाय च ॥५२॥गोमयेनोपलिप्येत नारीयस्थाप्यवस्त्वपि ।शुष्कपुष्करपत्रेषु विदध्याद्विंशतिष्वपि ॥५३॥ततो मध्यमकुण्डस्य प्रविश्य पुरतो गुरुः ।तदन्तरिष्ट्वा पीठं च तत्र यन्त्रमनुस्मरन् ॥५४॥स्थापयेद्वैष्णवे स्थाने विश्वरूपधिया सुधीः ।ततः क्रमेण चक्रादीन्दिक्कुण्डेषु चतुष्र्वपि ॥५५॥पुनः शङ्खादिकांस्तद्वत्कुण्डेष्वश्राश्रितेष्वपि ।तथा दण्डादिकानष्टौ च्छिद्राशासु प्रकल्पयेत् ॥५६॥मध्ये पुनरधश्चोध्र्वं कोलकेसरिणौ यजेत् ।चक्रस्य प्राक्तने कुण्डे स्थापयेद्विनतासुतम् ॥५७॥ततः समस्थलीकृत्य क्रमात्समुलिप्य च ।प्रत्यगानन आसीनो मध्यगस्थण्डिलस्थिते ॥५८॥यज्ञे काञ्चनपत्रस्थे पूजयेत्पूर्ववत्प्रभुम् ।वादित्रघोषबहुलं निवेद्यान्तं यथाक्रमम् ॥५९॥हुनेच्च पूर्वसन्दिष्टैद्र्रव्यैः पूर्वोक्तमार्गतः ।आशोपाशान्तराशासु बलिं दद्यात्त्रिशस्त्रिशः ॥६०॥क्रमाच्चक्रादिमूर्तीनां पञ्चपूरान्धसा सुधीः ।तत उद्वास्य देवेशं पूजां प्रतिसमाप्य च ॥६१॥दत्वा सुवर्णं वासांसि गुरवे ब्राह्मणानपि ।सन्तप्र्य विभवैः सम्यग्भोजयेद्देवताधिया ॥६२॥तत्रोपसर्गा नश्यन्ति नरनारीमहीभृताम् ।ग्रहक्षुद्रपिशाचाद्या नेक्षन्ते तां दिशं भयात् ॥६३॥अश्मपातादिका ये च भया नश्यन्ति ते चिरात् ।सस्यद्र्धिर्गोसमृद्धिश्च प्रजावृद्धिश्च जायते ॥६४॥धनधान्यसमृद्धिश्च वर्धते तत्कुलं क्रमात् ।दारिद्र्यरोगनिर्मुक्तं सुखमाभूतसम्प्लवम् ॥६५॥रक्षोभिरक्षितबलैरसुरैश्च दैत्यैःसर्वैः समुद्धृतमहास्त्रकरैः परीतम् ।विष्णोस्तु पञ्जरमिदं प्रभजन्तमव्या-त्साक्षादपीन्द्रमपरत्र नरे कथा का ॥६६॥इति श्रीमत्परमहंसपरिव्राजकाचार्यस्यश्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतःकृतौ प्रपञ्चसारे चतुर्विंशः पटलः ॥ N/A References : N/A Last Updated : January 21, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP