संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|प्रपञ्चसारतन्त्रम्| द्वादशः पटलः प्रपञ्चसारतन्त्रम् विशेष माहिती प्रथमः पटलः द्वितीयः पटलः तृतीयः पटलः चतुर्थः पटलः पञ्चमः पटलः षष्ठः पटलः सप्तमः पटलः अष्टमः पटलः नवमः पटलः दशमः पटलः एकादशः पटलः द्वादशः पटलः त्रयोदशः पटलः चतुर्दशः पटलः पञ्चदशः पटलः षोडशः पटलः सप्तदशः पटलः अष्टादशः पटलः एकोनविंशः पटलः विंशः पटलः एकविंशः पटलः द्वाविंशः पटलः त्रयोविंशः पटलः चतुर्विंशः पटलः पञ्चविंशः पटलः षड्विंशः पटलः सप्तविंशः पटलः अष्टाविंशः पटलः एकोनत्रिंशः पटलः त्रिंशः पटलः एकत्रिंशः पटलः द्वात्रिंशः पटलः त्रयस्त्रिंशः पटलः द्वादशः पटलः प्रपञ्चसारतन्त्रम् (Prapancasaratantra), ज्याचा अर्थ 'ब्रह्मांडाचे सार' असा आहे. Tags : prapanchasarshankaracharyaप्रपञ्चसारतन्त्रशंकराचार्य द्वादशः पटलः Translation - भाषांतर अथ रमाभुवनेशिमनोभवैस्त्रिपुटसंज्ञकमन्त्रमुदीरितम् ।सकलवर्गफलाप्तियशस्करं जगति रञ्जनकृत्कविताकरम् ॥१॥बीजैस्त्रिभिर्द्विरुक्तैः कुर्यादङ्गानि साधकः सिद्ध्यै ।पूर्वतरेरितयोर्वा द्वयोरथैकं तदङ्गयोः प्रभजेत् ॥२॥नवकनकभासुरोर्वीविरचितमणिकुट्टिमे सकल्पतरौ ।रत्नवरबद्धसिंहासननिहितसरोरुहे समासीनाम् ॥३॥आबद्धरत्नमकुटां मणिकुण्डलोद्यत्केयूरकोर्भिरशनाह्वयनूपुराढ्याम् ।ध्यायेद्धृताब्जयुगपाशकशाज्रुरेक्षु-चापां सपुष्पविशिखां नवहेमवर्णाम् ॥४॥चामरमुकुरसमुद्गकताम्बूलकरज्र्वाहिनीभिश्च ।दूतीभिः समभिवृतां पश्यन्तीं साधकं प्रसन्नदृशा ॥५॥योगेश्वरीमिति विचिन्त्य जपेच्च मन्त्र-मादित्यलक्षमथ मन्त्रितमो जपान्ते ।श्रीराजवृक्षसमिधां सजपार्तवानांतावत्सहस्रसमितं मधुरैर्जुहोतु ॥६॥अङ्गैर्लक्ष्मीहरिगिरिसुताशर्वरत्यङ्गजातैःषट्कोणस्थैर्निधियुगयुतैस्तद्बहिर्मातृभिश्च ।योषिद्रूपैर्बहिरपि यजेल्लोकपालैस्तदेत-त्प्रोक्तं देव्या अपि सुरगणैः पूजनीयं विधानम् ॥७॥लक्ष्मीगौरीमनसिशयबीजानि कृत्वा कलायांतां वा बिन्दौ तमपि गगने तच्च सिन्दूरवर्णम् ।स्मृत्वा बुद्ध्या भुवनमखिलं तन्मयत्वेन मन्त्रीदेवान्वश्यानपि वितनुते किं पुनर्मत्र्यजातीन् ॥८॥य इमं भजते मनुं मनस्वी विधिना वा पुनरर्चयेद्विधानम् ।स तु सम्यगवाप्य दृष्टभोगान्परतस्तत्पदमैशमेति धाम ॥९॥सहृदयभगवत्यै दान्तरण्यै धरार्णाःसणिधरशिवधार्णारे द्विठान्ता ध्रुवाद्याः ।गदितमिति धराया मन्त्रमुत्कृष्टधात्री-सुखसुतधनधान्यप्राप्तिदं कीर्त्तिदं च ॥१०॥ऋषिरपि वराह उक्तश्छन्दो निचृदस्य देवता धरणी ।मनुनामुनैव च पदैः षोढा भिन्नेन निगदितोऽङ्गविधिः ॥११॥मुख्याम्भोजे निविष्टारुणचरणतला श्यामलाङ्गी मनोज्ञाचञ्चच्छाल्यग्रचुम्बच्छुकलसितकरो प्राप्तनीलोत्पला च ।रत्नाकल्पाभिरामा मणिमयमकुटा चित्रवस्त्रा प्रसन्नादिश्याद्विश्वम्भरा वः सततमभिमतं वल्लभा कैटभारैः ॥१२॥लक्षायता च सदशांशहुतावसानाप्रोक्ता धराहृदयमन्त्रजपक्रिया स्यात् ।र्सिपष्मता सुविमलेन पयोन्धसास्यहोमो विधिः सकलसिद्धिकरः किलायम् ॥१३॥पीठे विष्णोः पूजयेत्पूर्वमन्त्रै-र्भूवह्न्यम्बुप्राणसंज्ञैश्च भूतैः ।शान्त्यन्ताभिः शक्तिभिः साकमाशा-पालैः पृथ्वीं संयतात्मोपचारैः ॥१४॥पुष्पैः प्रियङ्गोर्मधुरत्रयाक्तै-नीलोत्पलैर्वापि तथारुणैस्तैः ।सहस्रमानं प्रतिजुह्वतः स्या-द्गौर्गोमती सस्यकुलाकुला च ॥१५॥पिङ्गलां पृथुलशालिञ्जरींयो जुहोति मधुरत्रयोक्षिताम् ।नित्यशः शतमथास्य मण्डला-द्धस्तगा भवति विस्तृता मही ॥१६॥भृगोस्तु वारे निजसाध्यभूभृ-द्विलोलिताम्भःपरिपक्वमन्धः ।पयोघृताक्तं जुहुयात्सहस्रंदुग्धेन वा तेन दिनावतारे ॥१७॥षण्मासादनुभृगुवारमेष होमःसम्पन्नान्समुपनयेद्धराप्रदेशान् ।पुत्रान्वा पशुमहिषेष्टजुष्टपुष्टा-मिष्टामप्यनुदिनमिन्दिरां समग्राम् ॥१८॥सङ्क्षेपतो हृदयमन्त्रविधिर्धरायाःप्रोक्तो हिताय जगतां रहितक्षमाणाम् ।एनं भजन्निति धराकमलासमृद्धःस्यादत्र सिद्धिमपरत्र परां प्रयाति ॥१९॥अथ पुरुषार्थचतुष्टयसिद्धिकरी मन्त्रजापनिरतानाम् ।त्वरिताख्येयं विद्या निगद्यते जपहुतार्चनाविधिभिः ॥२०॥भक्तियुतानां त्वरया सिद्धिकरी चेति मन्त्रिणां सततम् ।देव्यास्त्वरिताख्या स्यात्त्वरितं क्ष्वेलग्रहादिहरणतया ॥२१॥वर्मद्ध्र्ये च तदन्त्यः शिवयुक्चरमेऽङ्गनाद्युसाधिलवम् ।अन्त्यः स योनिरस्त्रान्तिकः सतारो मनुर्दशार्णयुतः ॥२२॥तारान्तेऽस्त्रादावपि मायाबीजं प्रयोजयेन्मन्त्री ।तेन हि काङ्क्षितसिद्धिर्भूयादचिरेण मन्त्रविदाम् ॥२३॥कूर्मादिभ्यां द्वाभ्यां द्वाभ्यामपि पूर्वपूर्वहीनाभ्याम् ।कुर्यात्सप्तभिरर्णैरङ्गानि च षट् क्रमेण मन्त्रज्ञः ॥२४॥कालिकगलहृन्नाभिकगुह्योरुषु जानुजङ्घयोः पदयोः ।देहे न्यासं कुर्यान्मन्त्रेण व्यापकं समस्तेन ॥२५॥श्यामतनुमरुणपज्र्जचरणतलां वृषलनागमञ्जीराम् ।स्वर्णांशुकपरिधानां वैश्याहिद्वन्द्वमेखलाकलिताम् ॥२६॥तनुमध्यलतां पृथुलस्तनयुगलां करविराजदभयवराम् ।शिखिपिञ्छनालवलयां गुञ्जाफलगुणितभूषणारुणिताम् ॥२७॥नृपफणिकेयूरां तां गलविलसद्विविधमणियुताभरणाम् ।द्विजनागविहितकुण्डलमण्डितगण्डद्वयीमुकुरशोभाम् ॥२८॥शोणतराधरपल्लवविद्रुममणिभासुरां प्रसन्नां च ।पूर्णशशिबिम्बवदनामरुणायतलोचनत्रयीनलिनाम् ॥२९॥कुञ्चितकुन्तलविलसन्मकुटाघटिताहिवैरिपिञ्छयुताम् ।कैरातीं वनकुसुमोज्ज्वलां मयूरातपत्रकेतनिकाम् ॥३०॥सुरुचिरसिंहासनगां विभ्रमसमुदायमन्दिरां तरुणीम् ।तामेनां त्वरिताख्यां ध्यात्वा कुयौज्जपार्चनाहोमान् ॥३१॥दीक्षां प्राप्य गुरोरथ लक्षं जप्याद्दशांशकं जुहुयात् ।बिल्वसमिद्भिस्त्रिमधुरयुक्ताभिः साधकः सुसंयतधीः ॥३२॥अष्टहरिविधृतसिंहासने समावाह्य सरसिजे देवीम् ।अङ्गैः सह प्रणीतां गायत्रीं पूजयेद्दिशां क्रमतः ॥३३॥हुज्रराख्या खेचरि चण्डेसच्छेदनी तथा क्षपणी ।भूयः स्त्रियाह्वया हुङ्कारीसक्षेमकारिकाः पूज्याः ॥३४॥सश्रीबीजा लोकेशायुधभूषान्विता दलाग्रेषु ।फट्कारी चाप्यग्रे शरासशरधारिणी च तद्बाह्ये ॥३५॥सस्वर्णवेत्रयष्ट्यौ द्वाःस्थे पूज्ये पुनर्जयाविजये ।कृष्णो बर्बरकेशो लगुडधरः किङ्करश्च तत्पुरतः ॥३६॥अरुणैश्चन्दनकुसुमैर्वनजैरपि धूपदीपनैवेद्यैः ।प्रवरैश्च नृत्तगीतैः समर्चयेद्भक्तिभारनम्रतनुः ॥३७॥जपहुतपूजाभेदैरिति सिद्धे मन्त्रजापिनो मन्त्रे ।नारीनरनरपतयः कुर्वन्तिसदा नमस्क्रियामस्मै ॥३८॥विद्याधर्यो यक्ष्यः ससुरासुरसिद्धचारणप्रमदाः ।अप्सरसश्च विशिष्टाः साधकसक्तेन चेतसाकुलिताः ॥३९॥स्मरशरविह्वलिताङ्ग्यो रोमाञ्चितगात्रवल्लरीललिताः ।घनघर्मबिन्दुमौक्तिकविलत्कुचगण्डमण्डलद्वितयाः ॥४०॥विस्पष्टजघनवक्षोरुहदोर्मूलाः स्खलत्पदन्यासाः ।मुकुलितनयनसरोजाः प्रस्पन्दितदशनवसनसम्भिन्नाः ॥४१॥श्लथमानांशुकचिकुरा मदविवशस्खलितमन्दभाषिण्यः ।मृदुतरमस्तकविरचितनत्यञ्जलयः प्रसादकाङ्क्षिण्यः ॥४२॥वीक्षस्व देहि वाचं परिरम्भणपरमसौख्यमस्माकम् ।एहि सुरोद्यानादिषु रंस्यामः स्वेच्छया निरातज्र्म् ॥४३॥इत्यादि वाणिनीभिर्विलोभ्यमानो यदा न विक्रियते ।मन्त्री तदेत्य वाञ्छितमखिलं तस्मै ददाति सा देवी ॥४४॥योनिं कुण्डस्यान्तः प्रकल्प्य तत्रानलं समाधाय ।सम्पूज्य पूर्वविधिना जुहुयात्सर्वार्थसिद्धये मन्त्री ॥४५॥इक्षुशकलैः समृद्ध्यै दूर्वाभिः स्वायुषे श्रिये धान्यैः ।धान्याय यवैः पुष्ट्यै गोधूमैत्र्र+द्धये तिलैर्जुहुयात् ॥४६॥जम्बूभिः स्वर्णाप्त्यै राजीभिः शत्रुशान्तयेऽक्षतकैः ।अक्षयसिद्ध्यै वकुलैः कीत्त्र्यै कुन्दैर्महोदयाय तथा ॥४७॥अरुणोत्पलैश्च पुष्ट्यै मधूकजैरिष्टसिद्धयेऽशोकैः ।पुत्राप्त्यै पाटलजैः स्त्रीसिद्ध्यै निम्बजैश्च विद्विष्ट्यै ॥४८॥नीलोत्पलकैस्तुष्ट्यै चम्पकजैः कनकसिद्धये पद्मैः ।सह किंशुकैश्च सर्वोपद्रवशान्त्यै स साधको जुहुयात् ॥४९॥हुतसङ्ख्यासाहस्री नियुता वाथायुतान्तिकी भवति ।यावत्सङ्ख्यो होमस्तावज्जप्यश्च मन्त्रिणा मन्त्रः ॥५०॥अनुमन्त्रितैश्च वारिभिरासेकः क्ष्वेलशान्तिकृद्भवति ।तज्जप्तयष्टिघातो मन्त्रितचुलुकोदकाहतिश्च तथा ॥५१॥तत्कर्णरन्ध्रजापात्सद्यो नश्युर्विषग्रहादिरुजः ।तद्यन्त्रस्थापनमपि विषभूतादिप्रशान्तिकृद्भवति ॥५२॥आख्यां मध्ये सतारे मनुमथ शतसंयुक्तविंशत्पुटेषुप्रादक्षिण्येन शर्वादिकमनुविलिखेद्वादशावृत्ति मन्त्री ।विंशद्वन्द्वाष्टशूलाकलितविरचितं यन्त्रमेतत्सुजप्तंबद्धं क्ष्वेलग्रहार्ति हरति विजयलक्ष्मीप्रदं कीर्त्तिदं च ॥५३॥आख्यां मध्यगतानले लिखतु दिक्पङ्क्तिष्वथ स्युः सहूंक्ष्रूं च्रूं छ्रूं करणद्विषष्टिपदके शैवादि कालीमनुम् ।नैत्र्र+त्यादि तथा क्रमाक्रमवृतं बाह्येऽनलैरावृतंप्रोक्तं निग्रहचक्रमन्तकपुरप्राप्तिप्रदं वैरिणाम् ॥५४॥कालीमाररमालीका लीनमोक्षक्षमोनली ।मामोदेततदेमोमा रक्षतत्वत्वतक्षरः ॥५५॥यमापाटटपामाय माटमोटटमोटया ।वामो भूरिरिभूमोवा टररीस्त्वस्त्वरीरट ॥५६॥वह्नेर्विण्णिम्बनिर्यासकविषमषिभिः सीसपट्टेंशुके वाशावे पाषाणके वा विलिखतु मतिमान्काकपत्रेण यन्त्रम् ।वल्मीके चत्वरे वा क्षततरुविवरे वा निदध्यादराति-र्मृत्युं प्राप्नोति भूयादवयवविकलो व्याधितः पातितो वा ॥५७॥चक्रे चाष्टाष्टपदे कालीशिवयातुधानखण्डाद्यम् ।यमदहनानिलवीतं विलिख्य विषदण्डिमर्कटीलिप्तम् ॥५८॥जप्तमधोमुखमेतद्यत्र तु देशे विनिक्षिपेन्मन्त्री ।तत्रोपद्रवमखिलं दिनशः सर्वात्मना भवति ॥५९॥खण्डेष्वेकाशीतिषु मध्येन्दुगसाध्यंजुंसः पूर्वं दिक्स्थचतुष्पङ्क्तिषु शैखम् ।लिख्याल्लक्ष्मीं शिष्टचतुःषष्ठिषु विद्वा-नीशाद्यं कन्यादि च बाह्ये त्वरिताख्याम् ॥६०॥दिग्दिक्संस्थामस्त्रपदाभिर्वषडन्तांमेदोमालावेष्टितबिम्बं घटवीतम् ।पद्मस्थं तत्पज्र्जराजद्वदनान्तंप्रोक्तं चक्रं सम्यगिहानुग्रहसंज्ञम् ॥६१॥श्रीसामायायामासाश्री सानोयाज्ञेज्ञेयानोसा ।मायालीलालीयामा याज्ञेलालीलीलाज्ञेया ॥६२॥लाक्षाभिः कुज्रुमैर्वा विलिखतु धवले वांशुके स्वर्णपट्टेलेखिन्या स्वर्णमय्या दृढमपि गुलिकीकृत्य सन्धारयेद्यः ।कृत्याभ्यो मृत्युतो वा ग्रहविषदुरितेभ्यो विमुक्तः स धन्योजीवेत्स्वैः पुत्रपौत्रैरपरिमितमहासम्पदा दीर्घकालम् ॥६३॥चतुःषष्ट्यंशे वा क्रमविदथ लक्ष्मीमनुममुंशिवाद्यं नैत्र्र+त्यादिकमपि चतुर्णामृतवृतम् ।बहिः स्वच्छे पट्टे कनकविहिते पूर्वविधिनालिखित्वा जप्त्वा निक्षिपतु शितधीर्यत्र तदिदम् ॥६४॥चक्रमनुग्रहसंज्ञं मन्त्री देशेऽत्र सम्पदो विरतम् ।शुभतरफलदायिन्यो भवन्ति सस्र्यिद्धकालवृष्ट्याद्याः ॥६५॥हुङ्कारे साध्यसंज्ञां विलिखतु तदधः र्किणकायां च शिष्टा-नष्टौ वर्णान्दलेष्वारचयतु हरमायां त्रिशो वेष्टयित्वा ।कुम्भस्थं यन्त्रमेतत्सरसिजपुटितं सर्वरक्षाप्रसिद्ध्यैकॢप्तं सर्वोपसर्गप्रशमनफलदं श्रीकरं वश्यकारि ॥६६॥इति निगदितकॢप्त्या पूजयेत्तोतलायांमनुमनुदिनमेनं मानयन्मानवो यः ।स तु जगति समग्रां सम्पदं प्राप्य देहा-पदि मुदिततरात्मा युक्तधीर्मुक्तिमेति ॥६७॥स्मरदीर्घैधरकाग्न्योन्दीर्घाभ्यक्ष्वेलदद्रलान्तशिवाः ।अभितः शक्तिनिरुद्धो द्वादशवर्णोऽयमीरितो मन्त्रः ॥६८॥द्वाभ्यां वा चैकेन द्वाभ्यां द्वाभ्यां तथा पुनर्द्वाभ्याम् ।मन्त्राक्षरैर्विदध्यादङ्गविधिं जातिसंयुतैर्मन्त्री ॥६९॥इन्दुकलाकलितोज्ज्वलमौलिर्मारमदाकुलितायुगनेत्रा ।शोणितसिन्धुतरङ्गितपोतद्योतितभानुदलाम्बुजसंस्था ॥७०॥दोर्धृतदाडिमसायकपाशा साज्रुशचापकपालसमेता ।शोणदुकूलविलेपनमाल्या शोणतरा भवतोऽवतु देवी ॥७१॥स्मृत्वा नित्यां देवीमेवं प्रजपेन्मनुं शतसहस्रम् ।अयुतं जुहुयादन्ते नृपतरुसमिधां घृतेन वा सिद्ध्यै ॥७२॥शाक्त पीठे पूज्या देवी कुसुमानुलेपनैररुणैः ।स्वयमप्यलङ्कृताङ्गः सधूपदीपैर्निवेद्यताम्बूलैः ॥७३॥हृल्लेखा क्लेदनी नन्दा क्षोभणी मदनातुरा ।निरञ्जना रागवती तथान्या मदनावती ॥७४॥मेखला द्राविणी चैव भूयोऽन्या वेगवत्यपि ।सस्मारा द्वादश प्रोक्ताः शक्तयः पत्रसंस्थिताः ॥७५॥अङ्गैः शक्तिभिराभिर्मातृभिराशाधिपैः क्रमात्पूज्या ।भक्तिभरानतवपुषा भवभयभङ्गाय मन्त्रिणाहरहः ॥७६॥दारिद्र्यरोगदुःखैर्दौर्भाग्यजरापमृत्युदोषैश्च ।अस्पृष्टो निरपायो जीवति मन्त्रं भजन्नमुं मनुजः ॥७७॥इतीरिता लोकहिताय वङ्का-प्रस्तारिणी मन्दिरमिन्दिरायाः ।या सर्वनारीनरराजवर्ग-सम्मोहनी मोहनबाणभूता ॥७८॥निद्रयोरन्तरा त्यक्लिन्नै मदाः स्युश्च वेशिरः ।मायादिकस्तया वर्णद्वन्द्वैश्चाङ्गविधिः स्मृतः ॥७९॥रक्तारक्तांशुककुसुमविलेपादिका सेन्दुमौलिःस्विद्यद्वक्त्रा मदविवशसमाघूर्णितत्रीक्षणा च ।दोःसत्पाशाज्रुशयुतकपालाभया पद्मसंस्थादेवी पायादमितफलदा नित्यशः पार्वती वः ॥८०॥दीक्षितः प्रजपेल्लक्षं मनुमेनं हुनेत्ततः ।मधूकपुष्पैः स्वाद्वक्तैरयुतं हविषा तथा ॥८१॥पीठीं पूर्ववदभ्यच्र्य तत्रावाह्यापि पूजयेत् ।अङ्गैश्च शक्तिभिर्लोकपालैर्देवीं समाहितः ॥८२॥नित्या निरञ्जना क्लिन्ना क्लेदिनी मदनातुरा ।मदद्रवा द्राविणी च द्रविणा शक्तयो मताः ॥८३॥प्रजपेत्यप्रमदां विचिन्त्य यां वाशयनस्थो मनुवित्सहस्रमानम् ।निशि मारशिलीमुखाहताङ्गीनचिरात्सा मदविह्वला समेति ॥८४॥नित्याभिः सदृशतरा न सन्ति लोकेलक्ष्मीदा जगदनुरञ्जनाश्च मन्त्राः ।तस्मात्ताञ्शुभमतयो भजन्तु नित्यंजापार्चाहुतसमुपासनाविशेषैः ॥८५॥इति श्रीमत्परमहंसपरिव्राजकाचार्यस्यश्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतःकृतौ प्रपञ्चसारे द्वादशः पटलः ॥ N/A References : N/A Last Updated : January 21, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP