सप्तदशः पटलः
प्रपञ्चसारतन्त्रम् (Prapancasaratantra), ज्याचा अर्थ 'ब्रह्मांडाचे सार' असा आहे.
अथ मन्मथमन्त्रविधिं विधिना
कथयामि सहोमविधिं सजपम् ।
मथनस्य पुरामपि मोहकरं
व्यथिताखिलसिद्धसुरादिगणम् ॥१॥
अजकलाप्रथमावनिशान्तिभिर्युतसुधाकरखण्डविकासिभिः ।
निगदितो मनुरेष मनोभुवः सकलधर्मयशोर्थसुखावहः ॥२॥
ऋष्यादिकाश्च सम्मोहनगायत्रीमनोभवाः प्रोक्ताः ।
बीजेन दीर्घभाजा कथितान्यङ्गान्यमुष्य जातियुजा ॥३॥
अरुणमरुणवासोमाल्यदामाङ्गरागं
स्वकरकलितपाशं साज्रुशास्त्रेषुचापम् ।
मणिमयमकुटाद्यैर्दीप्तमाकल्पजातै-
ररुणनलिनसंस्थं चिन्तयेदङ्गयोनिम् ॥४॥
तरणिलक्षममुं मनुमादरात्समभिजप्य हुनेच्च दशांशकैः ।
तदनु किंशुकजैः प्रसवैः शुभैस्त्रिमधुराद्र्रतरैर्निजसिद्धये ॥५॥
मोहिनी क्षोभिणी त्रासी स्तम्भिन्यार्किषणी तथा ।
द्राविणीह्लादिनीक्लिन्नाक्लेदिन्यः स्मरशक्तयः ॥६॥
आशान्तिद्वयवामश्रुतिसर्गैद्र्रयुगकलबलैश्च ससैः ।
शोषणमोहनसन्दीपनतापनमादनान्यजेत्क्रमशः ॥७॥
अनङ्गरूपा सानङ्गमदनानङ्गमन्मथा ।
अनङ्गकुसुमानङ्गकुसुमातुरसंज्ञका ॥८॥
अनङ्गशिशिरानङ्गमेखलानङ्गदीपिका ।
अङ्गाशापालयोर्मध्ये बाणानङ्गावृतीर्यजेत् ॥९॥
आलिख्यात्र्किणकायामनलपुरपुटे मारबीजं ससाध्यं
तद्रन्ध्रेष्वङ्गषट्कं बहिरपि गुणशो मारणाय त्रिवर्णान् ।
मालामन्त्रं दलाग्रेष्वपि गुहमुखशः पार्थिवाश्रिष्वनङ्गं
कुर्याद्यन्त्रं तदेतद्भुवनमपि वशे का कथा मानवेषु ॥१०॥
प्रोक्त्वाथ कामदेवाय विद्महे तदनु पुष्पबाणाय ।
तथा च धीमह्यन्ते तन्नोऽनङ्गः प्रचोदयाद्गायत्री ॥११॥
नत्यन्ते कामदेवाय प्रोक्त्वा सर्वजनं वदेत् ।
प्रियायेति तथा सर्वजनसम्मोहनाय च ॥१२॥
वीप्सयित्वा ज्वलपदं प्रज्वलं च प्रभाषयेत् ।
पुनः सर्वजनस्येति हृदयं मम चेत्यथ ॥१३॥
वशमुक्त्वा कुरुं वीप्स्य कथयेद्वह्निवल्लभाम् ।
प्रोक्तो मदनमन्त्रोऽष्टचत्वारिंशद्भिरक्षरैः ॥१४॥
इति यन्त्रकॢप्तकलशो बहुशः कतमं नरं न परिमोहयति ।
प्रमदावनीश्वरसभानगरादिकमीश्वरीनपि वशे कुरुते ॥१५॥
वक्ष्ये विधानमन्यन्मनोभवस्याथ मोहनं जगतः ।
येनार्चितः स देवो वाञ्छितमखिलं करोति मन्त्रविदाम् ॥१६॥
अमृतोद्भवो मकरकेतनश्च सङ्कल्पजाह्वयाक्षरूपौ ।
इक्षुधनुर्धरपुष्पशराख्यावङ्गानि वह्निजायान्तानि ॥१७॥
अरुणतरवसनमाल्यानुलेपनाभरणमिषुशरासधरम् ।
न्यस्तशरबीजदेहो ध्यायेदात्मानमङ्गजं रुचिरम् ॥१८॥
अङ्गबाणावृतेरूध्र्वं पूज्याः षोडश शक्तयः ।
युवतिर्विप्रलम्भा च ज्योत्स्ना सुभ्रूर्मदद्रवा ॥१९॥
सुरता वारुणी लोला कान्तिः सौदामिनी तथा ।
कामच्छत्रा चन्द्रलेखा शुकी च मदनाह्वया ॥२०॥
योनिर्मायावती चेति शक्तयः स्युर्मनोभुवः ।
शोको मोहो विलासश्च विभ्रमो मदनातुरः ॥२१॥
अपत्रपो युवा कामी चूतपुष्पो रतिप्रियः ।
ग्रीष्मस्तपान्त ऊर्जश्च हेमन्तः शिशिरो मदः ॥२२॥
चतुथ्र्यामावृतौ पूज्याः स्युर्मारपरिचारकाः ।
परभृत्सारसौ चैव शुकमेघाह्वयौ तथा ॥२३॥
अपाङ्गभ्रूविलासौ द्वौ हावभावौ स्मरप्रियाः ।
माधवी मालती चैव हरिणाक्षी मदोत्कटा ।
एताश्चामरहस्ताः स्युः पूज्याः कोणेषु संस्थिताः ॥२४॥
हृल्लेखया स्व नाम्ना च शक्त्यादीनां समर्चनम् ।
इन्द्राद्यैः सप्तमी पूज्या स्मरार्चाविधिरीदृशः ॥२५॥
मदनविधानमितीत्थं प्रोक्तं योऽनेन पूजयेद्विधिना ।
स तु सकललोकपूज्यो भवेन्मनोज्ञश्च मन्दिरं लक्ष्म्याः ॥२६॥
विलसदहङ्कारतनुर्मनःशिवो विभ्रमास्पदीभूतः ।
बुद्धिशरीरां नारीं नरः सदा चित्तयोनिमभिगच्छेत् ॥२७॥
इति मदनयोगरत्या यो रमयेन्नित्यशो निजां वनिताम् ।
स तु भुक्तिमुक्तिकामी वनिताजनहृदयमोहनो भवति ॥२८॥
आत्मानं मदनं ध्यायेदाशुशुक्षणिरूपिणम् ।
तद्बीजाग्रं शिवज्वालातनुं तन्वीतनुं तथा ॥२९॥
सुधामयीं च तद्योनिं नवनीतमयं स्मरेत् ।
सङ्गच्छेच्च शिवज्वालालीढं तद्धृदयादिकम् ॥३०॥
आलिङ्गेदग्निसंस्पर्शद्रुततद्रूपकामृतम् ।
रसनाशिखया कर्षेत्तद्दन्तवसनामृतम् ॥३१॥
कुसुमास्त्रधिया बाह्ये स्पृशेत्कररुहैरपि ।
हानिं न कुर्याज्जीवस्य मन्त्री विशदमानसः ॥३२॥
रतावथोऽधोमध्योध्र्वक्रमेणैवं समाहितम् ।
निजप्रियां भजेदेवं सा मारशरविह्वला ।
छायेवानपगा तस्य भवेदेवं भवान्तरे ॥३३॥
साध्याख्या कामवर्णैः प्रतिपुटितलसत्र्किणकं पत्रराज-
त्तार्रित्वक्पक्षजाष्टादशसमिदृतुगण्डान्तगान्ताक्षराढ्यम् ।
आशाशूलाज्र्तिं तद्विपतिरिपुदले सम्यगालिख्य सेरं
मारं जप्त्वास्य यामाशयति वशगता भा भवेत्सद्य एव ॥३४॥
हंसारूढो मदनस्त्रैलोक्यक्षोभको भवेदाशु ।
द्युयुतो रञ्जनकृत्स्याज्जीवोपेतस्तथायुषे शस्तः ॥३५॥
तारयुजा त्वमुनाग्नौ हुत्वा सम्पातितेन चाज्येन ।
सम्भोजयेत्पतिं स्वं वनिता स नितान्तरञ्जितो भवति ॥३६॥
दध्यक्ताभिर्जुहुयाल्लाजाभिः कन्यकां समाकाङ्क्षन् ।
कन्यापि वरं लभते विधिना नित्यानुरक्तममुनैव ॥३७॥
अभिनवैः सुमनोभिरशोकजैर्दधितिलैर्विहिता हवनक्रिया ।
परमवश्यकरी परिकाङ्क्षितामपि लभेदचिरादिव कन्यकाम् ॥३८॥
अभीष्टदायी स्मरणादपि स्मर-
स्तथा जपादर्चनया विशेषतः ।
प्रसादतोऽस्याखिललोकर्वितन-
श्चिराय वश्याश्च भवन्ति मन्त्रिणः ॥३९॥
कृङा मध्यगताः ष्णायगोव्यर्णा यल्लमध्यगाः ।
गोपीजनवकाराः स्युर्भायस्वाहास्मरादिकाः ॥४०॥
ऋषिस्तु नारदोऽस्य स्याद्गायत्रं छन्द इष्यते ।
मन्त्रस्य देवता कृष्णस्तदङ्गविधिरुच्यते ॥४१॥
मूलमन्त्रचतुर्वर्णचतुष्केण द्विकेन च ।
प्रोक्तान्यङ्गानि भूयोऽमुं चिन्तयेद्देवकीसुतम् ॥४२॥
अव्यान्मीलत्कलापद्युतिरहिरिपुपिञ्छोल्लसत्केशजालो
गोपीनेत्रोत्पलाराधितललितवपुर्गोपगोबृन्दवीतः ।
श्रीमद्वक्त्रारविन्दप्रतिहसितशशाज्रकृतिः पीतवासा
देवोऽसौ वेणुवाद्यक्षपितजनधृतिर्देवकीनन्दनो वः ॥४३॥
अयुतद्वितयावधिर्जपः स्यादरुणैरम्बुरुहैर्हृतो दशांशैः ।
मुरजिद्विहिते तु पीठवर्ये दिनशो नन्दसुतः समर्चनीयः ॥४४॥
अङ्गाशेड्वङ्काद्यैः परिवृत्य च पायसेन सुसितेन ।
हैयङ्गवीनकदलीफलदधिभिः प्रीणयेच्च गोविन्दम् ॥४५॥
जुहुयाद्दुग्धहविर्भिविमलैः र्सिपःसितोपलोपेतैः ।
इष्टं तुष्टो लक्ष्मीं समावहेत्सद्य एव गोविन्दः ॥४६॥
बालं नीलाम्बुदाभं नवमणिविलसत्किज्र्णिईजालनद्ध-
श्रोणीजङ्घान्तयुग्मं विपुलरुरुनखप्रोल्लसत्कण्ठभूषम् ।
फुल्लाम्भोजाभवक्त्रं हतशकटपतत्पूतनाद्यं प्रसन्नं
गोविन्दं वन्दितेन्द्राद्यमरवरमजं पूजयेद्वासरादौ ॥४७॥
वन्द्यं देवैर्मुकुन्दं विकसितकरवन्दाभमिन्दीवराक्षं
गोपीगोबृन्दवीतं जितरिपुनिवहं कुन्दमन्दारहासम् ।
नीलग्रीवाग्रपिञ्छाकलनसुविलसत्कुन्तलं भानुमन्तं
देवं पीताम्बराढ्यं यजतु च दिनशो मध्यमेऽह्नो रमायै ॥४८॥
विक्रान्त्या ध्वस्तवैरिव्रजमजितमपास्तावनीभारमाद्यै-
रावीतं नारदाद्यैर्मुनिभिरनुदिनं तत्त्वनिर्णीतिहेतोः ।
सायाह्ने निर्मलं तं निरुपममजरं पूजयेन्नीलभासं
मन्त्री विश्वोदयस्थित्यपहरणपरं मुक्तिदं वासुदेवम् ॥४९॥
त्रिकालमेवं प्रविचिन्त्य शार्ङ्गिणं
प्रपूजयेद्यो मनुजो महामनः ।
स धर्ममर्थं सुसुखं श्रियं परा-
मवाप्य देहापदि मुक्तिमाप्नुयात् ॥५०॥
ग्रामं गच्छन्नगरमपि वा मन्त्रजापी मनुष्यो
देवेशं तं मुखमनु मुहुस्तर्पयेद्दुग्धबुद्ध्या ।
शुद्धैस्तोयैः स तु बहुरसोपेतमाहारजातं
दद्यान्नित्यं प्रचुरधनधान्यांशुकाद्यैर्मुकुन्दः ॥५१॥
भिक्षावृत्तिर्दिनमनु तमेवं विचिन्त्यात्मरूपं
गोपस्त्रीभ्यो मुहुरपहरन्तं मनोभिः सहैव ।
लीलावृत्त्या ललितललितैश्चेष्टितैर्दुग्धर्सिप-
र्दध्याद्यं वा स पुनरमितामेति भिक्षां गृहेभ्यः ॥५२॥
ध्यानी मन्त्री मन्त्रजापी च नित्यं यद्यद्वाञ्छन्यत्र यत्र प्रयाति ।
तत्तत्प्राप्त्वा तत्र तत्र प्रकामं प्रीतः क्रीडेद्देववन्मानुषेषु ॥५३॥
एवं देवं पूजयन्मन्त्रमेनं
जप्यान्मन्त्री सर्वलोकप्रियः स्यात् ।
इष्टान्कामान्प्राप्य सम्पन्नवृत्ति-
रिनत्यं शुद्धं तत्परं धाम भूयात् ॥५४॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः
कृतौ प्रपञ्चसारे सप्तदशः पटलः ॥
N/A
References : N/A
Last Updated : January 21, 2026

TOP