संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|प्रपञ्चसारतन्त्रम्| एकादशः पटलः प्रपञ्चसारतन्त्रम् विशेष माहिती प्रथमः पटलः द्वितीयः पटलः तृतीयः पटलः चतुर्थः पटलः पञ्चमः पटलः षष्ठः पटलः सप्तमः पटलः अष्टमः पटलः नवमः पटलः दशमः पटलः एकादशः पटलः द्वादशः पटलः त्रयोदशः पटलः चतुर्दशः पटलः पञ्चदशः पटलः षोडशः पटलः सप्तदशः पटलः अष्टादशः पटलः एकोनविंशः पटलः विंशः पटलः एकविंशः पटलः द्वाविंशः पटलः त्रयोविंशः पटलः चतुर्विंशः पटलः पञ्चविंशः पटलः षड्विंशः पटलः सप्तविंशः पटलः अष्टाविंशः पटलः एकोनत्रिंशः पटलः त्रिंशः पटलः एकत्रिंशः पटलः द्वात्रिंशः पटलः त्रयस्त्रिंशः पटलः एकादशः पटलः प्रपञ्चसारतन्त्रम् (Prapancasaratantra), ज्याचा अर्थ 'ब्रह्मांडाचे सार' असा आहे. Tags : prapanchasarshankaracharyaप्रपञ्चसारतन्त्रशंकराचार्य एकादशः पटलः Translation - भाषांतर अथ श्रियो मन्त्रविधिः समासतोजगद्धिताय प्रतिवक्ष्यतेऽधुना ।सहाङ्गभेदैः सजपार्चनाहुत-क्रमैः समभ्युद्धरणाय दुर्गतेः ॥१॥वियत्तुरीयस्तु विलोमतोऽनल-प्रदीपितो वामविलोचनाञ्चितः ।सचन्द्रखण्डः कथितो रमामनु-र्मनोरथावाप्तिमहासुरद्रुमः ॥२॥ऋषिर्भृगुश्छन्दसि चोदिता निचृत्समीरिता श्रीरपि देवता पुनः ।दृगक्षिकर्णेनमनुस्वरानलान्वितेन चास्थ्ना विहितं षडङ्गकम् ॥३॥भूयाद्भूयो द्विपद्माभयवरदकरा तप्तकार्तस्वराभाशुभ्राभ्राभेभयुग्मद्वयधृतकरकुम्भाद्भिरासिच्यमाना ।रत्नौघाबद्धमौलिर्विमलतरदुकूलार्तवालेपनाढ्यापद्माक्षी पद्मनाभोरसि कृतवसतिः पद्मगा श्रीः श्रिये वः ॥४॥सन्दीक्षितोऽथ गुरुणा मनुवर्यमेनंसम्यग्जपेन्निशितधीर्दिनननाथलक्षम् ।अभ्यर्चयन्नहरहः श्रियमादरेणमन्त्री सुशुद्धचरितो रहितो वधूभिः ॥५॥जपावसाने दिनकृत्सहस्रसङ्ख्यैः सरोजैर्मधुरत्रयाक्तैः ।हुनेत्तिलैर्वा विधिनाथ बैल्वैः समिद्वरर्मन्त्रिवरस्त्रिभिर्वा ॥६॥रुचिराष्टपत्रमथ वारिरुहं गुणवृत्तराशिचतुरश्रयुतम् ।प्रविधाय पीठमपि तत्र यजेन्नवशक्तिभिः सह रमां तु ततः ॥७॥विभूतिरुन्नतिः कान्तिर्हृष्टिः कीर्त्तिश्च सन्नतिः ।पुष्टिराकृष्टित्र्र+द्धिश्च रमाया नव शक्तयः ॥८॥आवाह्यसम्यक्कलशे यथावत्समर्चनीया विधिना रमासौ ।जप्त्वा यथाशक्ति पुनर्गुरुस्तु संसेचयेत्संयतमात्मशिष्यम् ॥९॥अङ्गैः प्रथमावृतिरपि मूर्तीभचतुष्कनिधियुगैरपरा ।शक्त्यष्टकेन चान्या चरमा ककुबीश्वरैः समभ्यच्र्या ॥१०॥वासुदेवः सङ्कर्षणः प्रद्युम्नश्चानिरुद्धकः ।दमकः शललश्चैव गुग्गुलश्च कुरण्डकः ॥११॥बलाकी विमला चैव कमला वनमालिका ।विभीषिका द्राविका च शाङ्करी वसुमालिका ॥१२॥अयनैव च पूर्वसेवया परितुष्टा कमला प्रसीदति ।धनधान्यसमृद्धिसङ्कुलामचिरादेव च मन्त्रिणे श्रियम् ॥१३॥अम्भस्युरोजद्वयसे हि तिष्ठंस्त्रिलक्षमेनं प्रजपेच्च मन्त्री ।श्रियं विचिन्त्यार्कगतां यथावद्दरिद्रताया भवति प्रमुक्तः ॥१४॥वसतावुपविश्य कैटभारेः कमलावृक्षतलेऽथ वा त्रिलक्षम् ।जपतोऽपि भवेच्च काङ्क्षितार्थादधिकं वत्सरतो वसुप्रपञ्चः ॥१५॥जुहुयादशोकदहने सघृतैरपि तण्डुलैः सकलवश्यतमम् ।खदिरानले त्रिमधुरैरपि तैर्धनदं च राजकुलवश्यमपि ॥१६॥रसमधुरनलिनानां लक्षहोमादलक्ष्मी-परिगतमपि जन्तुं प्राप्नुयाच्छ्रीः समग्रा ।घनविभवसमृद्ध्या नित्यमाह्लादयन्तीत्यजति न करुणाद्र्रा तस्य सा सन्ततिं च ॥१७॥बिल्वं श्रीसूक्तजापी निजभुवि मुखजो वर्धयित्वास्य पूर्वंपत्रैस्त्रिस्वादुयुक्तैः कुसुमफलसमिद्भिस्ततस्कन्धभैदैः ।तन्मूलैर्मण्डलात्प्राक्सुनियतचरितोऽसौ हुतान्निर्मलात्मारूपं पश्येद्रमायाः कथमपि न पुनस्तत्कुले स्यादलक्ष्मीः ॥१८॥हृदयेकमलवर्णतः परस्ता-दमृतनन्तयुगं ततश्च सिन्यै ।हुतवहदयितेत्यसौ रमायाःप्रवरधनार्थिभिरर्थितो हि मन्त्रः ॥१९॥दक्षोऽस्य स्यादृषिश्छन्दसि सुमतिभिरुक्तो विराड्देवता चश्रीदेवीपद्मिनीभ्यां हृदयकशिरसी विष्णुपत्न्या शिखा च ।मेदोरेफाह्वदार्णैरपि च कमलरूपाक्षरैवर्मसास्रांताराद्याभिर्नमोन्ताभिरिति निगदितं जातियुक्ताभिरङ्गम् ॥२०॥पद्मस्था पद्मनेत्रा कमलयुगवराभीतियुग्दोःसरोजादेहोत्थाभिः प्रभाभिस्त्रिभुवनमखिलं भासुरा भासयन्ती ।मुक्ताहाराभिरामोन्नतकुचकलशा रत्नमञ्जीरकाञ्ची-ग्रैवेयोम्र्यङ्गदाढ्या धृतमणिमकुटा श्रेयसे श्रीर्भवेदः ॥२१॥ध्यात्वैवं श्रियमपि पूर्वकॢप्तपीठेपद्मादौ प्रथममथर्चयेत्तदङ्गैः ।अष्टाभिर्दलमनुशक्तिभिस्तदन्तेलोकेशैरिति विधिनार्चयेत्समृद्ध्यै ॥२२॥दीक्षातो जपतु रमारमेशभक्तोलक्षणां दशकममुं मनुं नियत्या ।स श्रीमान्बहुधनधान्यसङ्कुलः स-न्मेधावी भवति च वत्सरेण मन्त्री ॥२३॥इति मन्त्रजपादृतधीर्मधुरत्रितयैरयुतं जुहुयात्कमलैः ।परिशुद्धमना नचिरात्स पुनर्लभते निजवाञ्छितमर्थचयम् ॥२४॥समुद्रगायामवतीर्य नद्यां स्वकण्ठमात्रे पयसि स्थितः सन् ।त्रिलक्षजाप्याढ्यतमोऽब्दमात्रान्मन्त्री भवेन्नात्र विचारणीयम् ॥२५॥नन्द्यावर्तैर्जुहुत भगभेऽभ्यच्र्य लक्ष्मीं सहस्रंतावद्बैल्वैस्त्रिमधुरयुतैर्वा फलैः पौर्णमास्याम् ।पञ्चम्यां वा सितसरसिजैः शुक्रवारेऽच्छपुष्पै-रन्यैर्मासं प्रतिहुतविधिर्वत्सरैः स्याद्धनाढ्यः ॥२६॥ताररमामायाश्रीः कमले कमलालये प्रसीदयुगम् ।बीजानि तानि पुनरपि समहालक्ष्मीहृदिन्दिरामन्त्रः ॥२७॥त्रिभिस्तु वर्णैर्हृदयं शिरोभिःस्यात्पञ्चभिश्चाथ शिखा त्रिवर्णा ।त्रिभिस्तथा वर्म चतुर्भिरस्त्रंपृथक् त्रिबीजापुटितैस्तदङ्गम् ॥२८॥हस्तोद्यद्वसुपात्रपज्र्जयुगादर्शा स्फुरन्नूपुर-ग्रैवेयाङ्गदहारकज्र्णमहामौलिज्वलत्कुण्डला ।पद्मस्था परिचारिकापरिवृता शुक्लाङ्गरागांशुकादेवी दिव्यगणानता भवदघप्रध्वंसिनी स्याद्रमा ॥२९॥लक्षं जपेन्मनुमिमं मधुरत्रयाक्तै-र्बैल्वैः फलैः प्रतिहुनेदयुतं तदन्ते ।आराधयेदनुदिनं प्रतिवक्ष्यमाण-मार्गेण दुर्गतिभयाद्रहितो भवेत्सः ॥३०॥श्रीधरश्च हृषीकेशो वैकुण्ठो विश्वरूपकः ।वासुदेवादयश्चाङ्गावरणात्समनन्तरम् ॥३१॥भारतीपार्वतीचान्द्रीशचीभिरपि संयुता ।दमकादिस्तृतीयानुरागाद्यैश्च चतुथ्र्यपि ॥३२॥अनुरागो विसंवादो विजयो वल्लभो मदः ।हर्षो बलश्च तेजश्चेत्यष्टौ बाणा महाश्रियः ॥३३॥अनन्तब्रह्मपर्यन्तैः पञ्चमीन्द्रादिभिर्मता ।चक्रपद्मान्तिकैः षष्ठीवङ्काद्यैरावृतिः श्रियः ॥३४॥सम्पूज्यैवं श्रियमनुदिनं यो जपेन्मन्त्रमेनंप्रोक्तां सङ्ख्यां सहुतविधिमप्युच्छ्रितां प्राप्य लक्ष्मीम् ।द्वित्रादर्वाग्भवति पशुपुत्रादिभोगैः समृद्धोवर्षाद्देहापदि च पदमभ्येति नित्यं स विष्णोः ॥३५॥श्रीमन्त्रेष्विति गदितेषु भक्तियुक्तःश्रीसूक्तान्यपि च जपेद्यजेद्धुनेच्च ।सूक्ते तु प्रथमतरे स्वयं मुनिः स्या-दन्येषां मुनय इमे भवन्ति भूयः ॥३६॥आनन्दः कर्दमश्चैव चिल्कीतश्चेन्दिरासुतः ।ऋचामथो तदन्यासामृषयः समुदीरिताः ॥३७॥आद्ये सूक्तत्रये च्छन्दोऽनुष्टुप्कांसे बृहत्यपि ।तदन्त्ययोस्त्रिष्टुबाख्यां परस्तादष्टके पुनः ॥३८॥अनुष्टुबन्त्ये प्रस्तारपङ्क्तिश्छन्दांसि वै क्रमात् ।श्र्यग्नी स्यातां देवते च न्यासाङ्गविधिरुच्यते ॥३९॥मूर्धाक्षिकर्णनासामुखगलदोर्हृदयनाभिगुह्येषु ।पायूरुजानुजङ्घाचरणेषु न्यसतु सूक्तकैः क्रमशः ॥४०॥सहिरण्मयी च चन्द्रारजतहिरण्यस्रजे हिरण्याख्या ।अङ्गानि जातियुञ्ज्यथ हिरण्यवर्णाह्वया तथास्त्रं स्यात् ॥४१॥अरुणकमलसंस्था तद्रजःपुञ्जवर्णाकरकमलधृतेष्टाभीतियुग्माम्बुजा च ।मणिमकुटविचित्रालङ्कृताकल्पाजातै-र्भवतु भुवनमाता सन्ततं श्रीः श्रिये वः ॥४२॥प्रारभ्याच्छां प्रतिपदमथ प्राप्तदीक्षो वियुक्त-स्तन्वङ्गीभिस्तनुविमलवासाः सुधौतद्विजाद्यः ।एकादश्यामपि परिसमाप्यार्कसाहस्रिकान्तंजापं मन्त्री प्रयजतु रमां प्राक्तनप्रोक्तपीठे ॥४३॥पद्मा सपद्मवर्णा पद्मस्थाद्र्रा च तर्पयन्त्यभिधा ।तृप्ता ज्वलन्त्यभिख्या स्वर्णप्राकारसंज्ञका चेति ॥४४॥मध्ये दिशाधिपाङ्गावृत्योरेतास्ततश्च वङ्कादीन् ।प्रयजेच्चतुरावरणं निगदितमिति सूक्तकल्पितविधानम् ॥४५॥अन्नघृताभ्यां जुहुयादर्चास्वष्टोत्तरं शतं मन्त्री ।आवाहनासनाघ्र्यकपाद्याचमनमधुपर्कसेकानि ॥४६॥वासोभूषणगन्धान्सुमनोयुतधूपदीपभोज्यानि ।सोद्वासनानि कुर्याद्भक्तियुतः पञ्चदशभिरथ मनुभिः ॥४७॥व्यस्तैरपि च समस्तैः पूजायां संयतात्मकः सिद्ध्यै ।पक्वैर्बिल्वसमिद्भिः पयोन्धसा र्सिपषा क्रमाज्जुहुयात् ॥४८॥एकैकं त्रित्रिशतं द्वादश्यां भोजयीत विप्रांश्च ।मन्दारकुन्दकुमुदकनन्द्यावर्ताह्वमालतीजात्यः ॥४९॥कह्लारपद्मरक्तोत्पलकेतकचम्पकादयो ग्राह्याः ।परिषिञ्चेत्त्रिशो नित्यं सूक्तैस्तैः स्नानकर्मणि ॥५०॥आदित्याभिमुखो जप्यात्तावत्तावच्च तर्पयेत् ।अर्चयेद्विधिना तेन दिनशो जुहुयात्त्रिशः ॥५१॥एवं करोति षण्मासं योऽसौ स्यादिन्दिरापतिः ।उद्बुद्धमात्रे नलिने नवनीतं विनिक्षिपेत् ॥५२॥सर्किणके सकिञ्जल्कोदरे पत्रान्तरालके ।पुनः पद्मं तदुद्धृत्य समिद्धे तु हुताशने ॥५३॥जुहुयादन्त्ययाथर्चा शतमष्टोत्तरं जपेत् ।चत्वारिंशच्छुक्रवारैर्महाश्रीस्तस्य जायते ॥५४॥कांसोऽस्मीत्यनया सम्यगेकादश घृताहुतीः ।षण्मासं जुह्वतो नित्यं भूयात्प्रायो महेन्दिरा ॥५५॥सूक्तैरेतैर्जुहुत जपताभ्यर्चयीतावगाहे-त्सिञ्चेद्वक्त्रे दिनमनु तथा संयतस्तर्पयीत ।संशुद्धात्मा विविधधनधान्याकुलाभ्यन्तरोऽसौमन्त्री सर्वैर्भुवि बहुमतः श्रीमतां स्यात्पुरोगः ॥५६॥श्रीलक्ष्मीर्वरदा विष्णुपत्नी च सवसुप्रदा ।हिरण्यरूपा सस्वर्णमालिनी रजतस्रजा ॥५७॥ससुवर्णप्रभा स्वर्णप्राकारा पद्मवासिनी ।पद्महस्ता पद्मपूर्वप्रिया मुक्तापदादिका ॥५८॥अलङ्कारा तथा सूर्या चन्द्रा बिल्वप्रियेश्वरी ।भुक्तिः प्रपूर्वा मुक्तिश्च विभूत्यृद्धिसमृद्धयः ॥५९॥तुष्टिः पुष्टिश्च धनदा तथान्या तु धनेश्वरी ।श्रद्धा सभोगीनी भोगदात्री धातृविधातृके ॥६०॥द्वात्रिंशदेताः श्रीदेव्या ये मन्त्राः समुदीरिताः ।तारादिका नमोन्ताश्च तैरर्चासु बलिं हरेत् ।तर्पयेच्च महादेवीं दिनादौ मन्त्रवित्तमः ॥६१॥नाभ्यक्तोऽद्यान्न नग्नः सलिलमवतरेन्न स्वपेद्वाशुचिः स-न्नाभ्यज्यान्नैव चाद्यात्तिलरुहलवणे केवले नैव दोषम् ।वक्त्रे लिम्पेद्वदेन्नानृतमपि मलिनः स्यान्न बिम्बाम्बुजन्म-द्रोणान्नो धारयेत्के भुवमपि न वृथैवालिखेदिन्दिरार्थी ॥६२॥सुविमलचरितः स्याच्छुद्धमाल्यानुलेपा-भरणवसनदेहो मुख्यगन्धोत्तमाङ्गः ।सुविशदनखदन्तः शुद्धधीर्विष्णुभक्तोविमलरुचिरशय्यः स्याच्चिरायेन्दिरार्थी ॥६३॥दुष्टां कष्टान्ववायां कलहकलुषितां मार्गदृष्टामनिष्टा-मन्यासक्तामसक्तामतिविपुलकृशाङ्गीमतिह्रस्वदीर्घाम् ।रोगार्तां भोगलोलां प्रतिपुरुषचलां राजकान्तामकान्तांकाकाक्षीमेकचारां ग्रहकुसुमयुतां च स्पृशेदिन्दिरार्थी ॥६४॥शान्तः शश्वत्स्मितमधुरपूर्वाभिभाषी दयाद्र्रोदेवाचार्यातिथिदहनपूजारतः पुण्यशीलः ।नित्यस्नायी नियमनिरतः प्रत्यगाशामुखाशीमन्त्री वर्णाश्रमदृढरतिः स्याच्चिरायेन्दिरार्थी ॥६५॥श्रीमन्त्रभक्तः श्रितविष्णुदीक्षःश्रीसूक्तजापी शितधीः सुशीलः ।स्वदारतुष्टो मितभाषणाशीलोकप्रियः स्याच्चिरमिन्दिरार्थी ॥६६॥इति श्रीमत्परमहंसपरिव्राजकाचार्यस्यश्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतःकृतौ प्रपञ्चसारे एकादशः पटलः ॥ N/A References : N/A Last Updated : January 21, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP