संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|प्रपञ्चसारतन्त्रम्| द्वात्रिंशः पटलः प्रपञ्चसारतन्त्रम् विशेष माहिती प्रथमः पटलः द्वितीयः पटलः तृतीयः पटलः चतुर्थः पटलः पञ्चमः पटलः षष्ठः पटलः सप्तमः पटलः अष्टमः पटलः नवमः पटलः दशमः पटलः एकादशः पटलः द्वादशः पटलः त्रयोदशः पटलः चतुर्दशः पटलः पञ्चदशः पटलः षोडशः पटलः सप्तदशः पटलः अष्टादशः पटलः एकोनविंशः पटलः विंशः पटलः एकविंशः पटलः द्वाविंशः पटलः त्रयोविंशः पटलः चतुर्विंशः पटलः पञ्चविंशः पटलः षड्विंशः पटलः सप्तविंशः पटलः अष्टाविंशः पटलः एकोनत्रिंशः पटलः त्रिंशः पटलः एकत्रिंशः पटलः द्वात्रिंशः पटलः त्रयस्त्रिंशः पटलः द्वात्रिंशः पटलः प्रपञ्चसारतन्त्रम् (Prapancasaratantra), ज्याचा अर्थ 'ब्रह्मांडाचे सार' असा आहे. Tags : prapanchasarshankaracharyaप्रपञ्चसारतन्त्रशंकराचार्य द्वात्रिंशः पटलः Translation - भाषांतर अथ यन्त्रविरचनाभिर्मन्त्रविशेषान्बहुप्रकारयुतान् ।कथयिष्ये मन्त्रविदामैहिकपारत्रिकाप्तये सुधियाम् ॥१॥त्रिगुणितसंज्ञे मायालङ्कृतकोणे तयाभिवीते च ।या या विशेषकॢप्तिस्तां तामपि सङ्ग्रहेण समभिदधे ॥२॥कोणोल्लसितसुधाक्षरगलदमृतस्फरितवह्निपरिवीतान् ।बिन्दोर्मध्यगबीजस्थितान्सुधाधारया परिस्रुतया ॥३॥पूर्णसुषम्नारन्ध्रां साध्यतनुं संस्मरञ्शिरसि बध्यात् ।तेनारोगी पुरुषः प्रज्ञावान्दीर्घमायुराप्नोति ॥४॥शीतांशुमण्डलस्थं कूर्मचतुर्थात्तकोणलसितमिदम् ।शीतप्रलिप्तजप्तं कधृतं च शिरोरुजाज्वरार्तिहरम् ॥५॥तद्यन्त्रयुगं विलिखेदभिविलिखितसाध्यसाधकाख्ययुतम् ।साध्यमधस्तात्कृत्वा बद्ध्वात्र स्वपतु साधको नित्यम् ॥६॥विधिनानेन तु सम्यक्साध्योऽस्य वशे भवेदयत्नेन ।तत्तु खनित्वागारे तत्रान्नं सिद्धमत्तु वश्यकरम् ॥७॥साध्याख्यां शक्तिवह्नौ नरहरिमपि रन्ध्रत्रये च त्रिशक्तौकर्मालिख्याथ लोष्टे सततगमपि संस्थाप्य जप्त्वा स्वशक्त्या ।आगारे स्थापयित्वा नरमुदकनिधेश्चित्रपत्रे लिखित्वादीपाग्नौ तापयित्वा स्त्रियममलधियः सम्यगाकर्षयेयुः ॥८॥त्रिगुणितविहिता विधयः षड्गुणिते च प्रयोजनीयाः स्युः ।रक्षाकर्मणि विहितं तत्प्रायः प्रचुरमन्त्रयुक्ततया ॥९॥पाशाष्टाक्षरवीतशक्ति दहनप्रोल्लासिसाध्याह्वयंशक्तिश्रीस्मरसंवृतं कुयुगरन्ध्राबद्धचिन्तामणि ।इत्थं षड्गुणितं विलिख्य जपितं मन्त्री दधानोऽसकृ-द्राज्ञां वामदृशां प्रियो भवति सङ्ग्रामे पुरे वा चिरम् ॥१०॥चिन्तारत्नाश्रिताश्रित्रियुगमथ नृसिंहावृतान्तःस्थबीजंप्रादुःसाध्याभिधानं बहिरपि लिपिभिः प्रानुलोमानुवीतम् ।क्ष्माबिम्बद्वन्द्वरन्ध्रप्रचलितचतुरर्णं ग्रहोन्मादभूत-व्याधिघ्नं यन्त्रमस्मिन्कृतकलशविधिर्गर्भरक्षाधिकारी ॥११॥द्वादशगुणिते शूले नृसिंहबीजं नरेन्द्रपुरवीतम् ।पीतालिप्तं पुरलघुधूपितमन्तःप्रबद्धकर्मयुतम् ॥१२॥चतसृषु दिक्षु निखन्यात्सीमायां द्वारतोरणाधो वा ।देशाभिगुप्तिरेषा गुप्ततमा सूरिभिः पुरा प्रोक्ता ॥१३॥अलदलनिशाकुशीतैर्मसृणे पट्टे विलिख्य यन्त्रमिदम् ।घेरस्थापनकर्म प्रतिजप्तं प्राङ्गणे खनेन्मन्त्री ॥१४॥तत्र विशन्ति न चोरा ग्रहकृत्या स्यान्निकेतरक्षा च ।अश्माभिपातवारणमभिवृद्धिं सम्पदां करोत्यचिरात् ॥१५॥तद्वद्घटर्गलाख्यं यन्त्रं नीले विलिख्य पट्टवरे ।मेचकसाध्यप्रतिकृतिहृदये गुलिकां विधाय निक्षिप्य ॥१६॥त्रिमधुरपूर्णे पात्रे विन्यस्याभ्यच्र्य गन्धपुष्पाद्यैः ।बलिमपि विकिरेद्रात्रिषु सप्ताहादानयेद्वधूमिष्टाम् ॥१७॥तामेवाथ प्रतिकृतिमग्नौ किञ्चित्प्रतापयेत्प्रजपन् ।शक्तिं पाशाज्रुशमनुसाध्याह्वयर्दिभतां समाहितधीः ॥१८॥विधिनामुना त्रिरात्राद्गर्वितधियमपि सुराङ्गनां मन्त्री ।आकर्षेन्निजवाञ्छाप्रदायिनीं मदनबाणविह्वलिताम् ॥१९॥यन्त्रं तदेवलाक्षाताम्रावीतं निधाय कलशजले ।जप्त्वा भानुसहस्रकमभिषिञ्चेद्रजतकाञ्चनाभ्यां च ॥२०॥तद्वद्विधाय कलशे तद्यन्त्रं धारयेत्पुर्निनत्यम् ।वाञ्छितसिद्धिं लभते भक्त्या प्रणमन्ति देवता अपि तम् ॥२१॥यन्त्रं तदेव विधिवद्भित्तावालिख्य पूजयेद्दिनशः ।चोरारिभूतनागा अपि तं देशं न वीक्षितुं शक्ताः ॥२२॥आलिख्य वीरपट्टे यन्त्रमिदं मस्तकार्पितं कृत्वा ।युध्यन्प्रत्र्यिथनमपि हत्वा यात्यव्रणाज्र्तिओ योद्धा ॥२३॥मदजलविलिखितमेतद्यन्त्रं जप्तं च मस्तके न्यस्तम् ।करिणीमपि मदयेद्द्राक्चण्डतरे का कथा करेणुवरे ॥२४॥बहुनेति भाषितेन किमेभ्यो मुख्यं न किमपि यन्त्रेभ्यः ।तस्मादमूनि सद्भिर्धार्याणि च विश्ववश्यमिच्छद्भिः ॥२५॥गजमृगमदकाश्मीरैर्मन्त्रितमः सुरभिरोचनायुक्तैः ।विलिखेदलक्तकरसालुलितैर्यन्त्राणि सकलकार्यार्थी ॥२६॥राज्या पटुसंयुतया सपाशशक्त्यज्रुशेन मन्त्रेण ।स्वाद्वक्तयाभिजुह्वन्निश्युर्वीशांस्तथोर्वशीं वशयेत् ॥२७॥हृल्लेखाग्निस्थसाध्याह्वयमपि बहिराक्रोंवृतं वह्निगेह-द्वन्द्वाश्रिस्वस्तिकाढ्यं प्रतिलिखतु दले यन्त्रजं नागवल्ल्याः ।जप्त्वा शक्तिं तु पाशाज्रुशलिपिसहितां तापयेद्दीपवह्नौनक्तं भक्त्यानताङ्गी स्मरशरविवशा प्रेमलोलाभियाति ॥२८॥शक्तिस्थं निजनाभिवह्निभवनद्वन्द्वोदरे मान्मथंबीजं साध्यविदर्भया परिवृतं शक्त्या बहिः पार्थिवम् ।तत्कोणे स्मरमन्यपुष्टनयनप्रोत्थैः पुनः र्किणकै-स्ताम्बूलैर्लिखिताभिजप्तमदयेद्योषिन्मनोमोहनम् ॥२९॥शक्त्यन्तः स्थितसाध्यनाम परितो बीजैश्चतुर्भिः समा-बद्धं शक्तिमनोभवाज्रुशलिपिप्रोम्भिः समावेष्टितम् ।शाल्युत्थे प्रतिलिख्य पिष्टविकृतौ प्राणान्प्रतिष्ठाप्य चत्रिस्वादौ परिभज्र्य तत्समदतः साध्यो वशे तिष्ठति ॥३०॥डान्तं शिखीलवयुतं दहनांशसाध्यंमायांशसाधकमथाभिवृतं कलाभिः ।मध्योल्लसद्विमुखशूलमिदं तु भुर्तु-र्यन्त्राह्वयं नरनताङ्गिवशङ्करं स्यात् ॥३१॥मृत्काराङ्गुलिकात्तया सकृकलासान्तर्वसायुक्तयासाध्यस्याङ्घ्रिरजोयुजा मृदुमृदा कॢप्तस्य शक्तिं हृदि ।रूपस्याभिविलिख्य तद्विवरके साध्यं तदीरान्प्रति-ष्ठाप्याजल्प्य निखन्य तत्र दिनशो मेहेच्चिरं वश्यकृत् ॥३२॥वामाक्ष्याः प्रतिलिख्य नाम निशया वामोरुदेशे निशा-मध्ये वामकरेण संशितमतिः सञ्छादयंस्तन्मनाः ।पूर्वं रुद्रपदं ततश्च दयितेयोगीश्वरीबिन्दुम-न्मन्त्रं जप्यति चेदनङ्गविवशां सद्यः प्रियामानयेत् ॥३३॥मायाहृदोरथान्ते ब्रह्मश्रीराजितेऽक्षरान्प्रोक्त्वा ।राजयुतपूजितेऽर्णान्स जये विजये च गौरि गान्धारि ॥३४॥त्रिभुवनवशङ्करीति च सर्वलोकान्तिके वशङ्करि च ।सर्वस्त्रीपुरुषवशङ्करि सुदुघे वाक्षरान्प्रवीप्स्य ततः ॥३५॥मायाद्विठान्तिको मनुरेकाधिकषष्टिवर्णकः प्रोक्तः ।ऋषिरस्याजोऽतिनिचृच्छन्दो गौरी च देवता प्रोक्ता ॥३६॥सचतुर्दशभिर्दशभिस्तथाष्टभिश्चाष्टभिस्तथा दशभिः ।एकादशभिर्मन्त्राक्षरैः क्रमादुच्यते षडङ्गविधिः ॥३७॥असकलशशिराजन्मौलिराबद्धपाशा-ज्रुशरुचिरकराब्जा बन्धुजीवारुणाङ्गी ।अमरनिकरवन्द्या त्रीक्षणा शोणलेपां-शुककुसुमयुता स्यात्सम्पदे पार्वती वः ॥३८॥अयुतं प्रजपेज्जुहुयाद्घृताप्लुतैः पायसैर्दशांशेन ।आराधयेत्तदङ्गैर्मातृभिराशाधिपैश्च निशितमनाः ॥३९॥तिलतण्डुलकैर्लोणैस्त्रिमधुरसिक्तैः फलैश्च मधुरतरैः ।साज्यैररुणकुवलयैस्त्रिदिनं हवनक्रिया सुवश्यकरी ॥४०॥नित्यं चादित्यगतां देवीं प्रतिपद्य तन्मुखो जप्यात् ।अष्टोत्तरशतमह्नामादौ भुवनं वशीकरोत्यचिरात् ॥४१॥वर्णादर्वाङ्मन्त्री प्रयोजयेत्साध्यनामकर्मयुतम् ।प्रजपेद्वा हवनविधौ वाच्छितसिद्धिप्रदस्तथा मन्त्रः ॥४२॥सतारराजमुख्यन्ते राजाधिमुखिवर्णकान् ।सम्भाष्य वश्यमुखि च स्वां श्रीमारार्णकान्वदेत् ॥४३॥वीप्स्य देविमहादेविपदं देवादिदेवि च ।प्रोक्त्वा सर्वजनस्येति मुखं मम वशं वदेत् ॥४४॥कुरु कुर्विति ठद्वन्द्वान्तिकं मन्त्रं समुद्धरेत् ।सप्ताधिकैः सदशभिस्तथा त्रिंशद्भिरक्षरैः ॥४५॥दशभिः सप्तभिश्चैव चतुर्भिः करणाक्षरैः ।पञ्चभिः सप्तदशभिर्वर्णैरङ्गक्रिया मता ॥४६॥ब्रह्माश्रीमन्त्रसम्प्रोक्ता प्रतिपत्तिरमुष्य च ।मन्त्रस्य जपकॢप्तिस्तु तथा होमविधिर्मतः ॥४७॥मन्त्री सर्वजनस्थाने कुर्यात्साध्याह्वयान्मनोः ।प्रजपे हवने वाथ तथा तर्पणकर्मणि ॥४८॥देवीध्माष्टशतं प्रसूनवदथ त्रिस्वादुयुक्तं हुने-त्सप्ताहं भसितेन तेन विहितं पुण्ड्रादिकं वश्यकृत् ।आज्यैस्तत्कृतहोमपातितसमाजप्तं घृतं प्राशये-त्साध्यं निष्परिहारकं च तदिदं वश्यं भवेद्देहिनाम् ॥४९॥शक्तिं साध्यक्र्षवृक्षप्रतिकृति हृदि संलिख्य संस्थाप्य जीवंजप्त्वा खन्याज्र्णेऽस्मिन्विधिवदनलमाधाय पुष्पैर्जपायाः ।देवीमन्त्रेण रात्रौ दशपरशतसङ्ख्यैस्तु काचन्दनाक्तै-र्हुत्वा तां सप्तरात्रं सरिति निखनतादुत्तमं वश्यकर्म ॥५०॥अन्नं मय्यह्यन्नं मे देह्यन्नाधिपतये ममेत्युक्त्वा ।अन्नं प्रदापयेति च ठद्वयुगान्तोऽन्नदायको मन्त्रः ॥५१॥करणेन्द्रियरसधातुद्वयवर्णैरङ्गमन्त्रपत्रपदैः ।द्व्ययुतजपावधिरेष द्विसहस्रहुतं च र्सिपरन्नाभ्याम् ॥५२॥दुग्धाब्धौ रूप्यवप्रावृतकनकमयद्वीपवर्ये सुराढ्येकल्पद्रूद्यानकाधो मणिमयलसिते वित्तसस्याग्रभागे ।आसीने भूश्रियौ वाञ्छितवसुनिचयं मन्त्रिणे संसृजन्त्यौमन्त्री सञ्चिन्तयानो जपतु दिनमुखे सम्पदेऽन्नस्य मन्त्रम् ॥५३॥नत्यादिभगवत्यन्ते माहेश्वरिपदं वदेत् ।अन्नपूर्णेऽग्निजायान्तो मन्त्रोऽन्नप्रदसंज्ञकः ॥५४॥मायाविहितषडङ्गो दिनमुखजप्यश्च षोडशसहस्रम् ।प्रोक्तो जपावसाने सघृतैरन्नैर्दशांशको होमः ॥५५॥रुद्रताण्डवविलोकनलोलां भद्रवक्त्रनयनां भवकान्ताम् ।अन्नदाननिरतां जननीं तां चिन्तयञ्जपतु चित्रदुकूलाम् ॥५६॥वैश्रवणः पक्वाशः पिङ्गलनिधिपौ तथैव वित्तेशः ।सकुबेरस्वाहान्तः सव्याहृतयः समीरिता मन्त्राः ॥५७॥वित्तेशस्यान्तराले दशवटसमिधः र्सिपषाक्ता विविक्ताहोतव्या द्रव्यसिद्ध्यै कनकघटकरण्डात्तदोस्तुन्दिलोऽसौ ।हेमाभो रत्नदीप्तो दरकमलनिधिद्योतितो हेमपीठेध्येयो न्यग्रोधमूले हुतभुजि विदुषा वैश्वदेवावसाने ॥५८॥मन्त्रैरेतैर्घृतयुतपायसहोमोऽपि मन्त्रिणां विहितः ।लक्ष्म्यै सघृतैश्च तिलैर्बिल्वसमिद्धो मतस्तदेव फलम् ॥५९॥भयाहारेन्दुयुक्सैव विदण्डाहस्पताक्षराः ।बालिस्थयोनिर्नत्यन्तो वसुवर्णो मनुर्मतः ॥६०॥वर्णसाहस्रजाप्यश्च तावच्छतहुतो मतः ।होमः र्सिपष्मतान्नेन बीजेनाङ्गक्रिया मता ॥६१॥रत्नस्वर्णांशुकादीन्निजकरकमलाद्दक्षिणादाकिरन्तंवासोराशौ निधायापरममरगुरुं पीतवस्त्रादिभूषम् ।ध्यायन्नासीनमप्यापणभुवि शतसङ्ख्यं सविंशत्कमेवंभीतापुष्पैर्घृतात्तैरीत्रदिनमथ हुनेत्स्वर्णवस्त्रादिसिद्ध्यै ॥६२॥वययोरन्तरास्त्रं मे देहि शुक्राक्षराद्विठः ।मन्त्रोऽयुतजपः र्सिपः सहस्रहवनक्रियः ॥६३॥शुक्रास्ये शुक्लपुष्पैर्हुतभुजि गुणशः सप्तशोऽप्येकविंश-द्वारं होतव्यमेषोऽप्यतिसितकुसुमालेपनो वामदोष्णा ।वासोरत्नादिकार्तस्वरमपि सततं साधकाय प्रयच्छ-न्ध्यातो व्याख्यानमुद्राकलितपरकरस्त्वापणालिन्दसंस्थः ॥६४॥राजेरस्थोऽहिपो दण्डी वेदान्तेऽसौ विदण्डकः ।सायान्ते नतिरप्यष्ठवर्णो वैयासिको मनुः ॥६५॥मुनिव्रातावीतं मुदितधियमम्भोदरुचिर-द्युतिं व्याख्यामुद्राकलनविलसद्दक्षिणकरम् ।परं जानौ कृत्वा दृढकलितकक्ष्ये कविवरंसमासीनं व्यासं स्मरत निरतं पुण्यचरितम् ॥६६॥विकृतिसहस्रजपोऽयं दशांशतः पायसाज्यहवनविधिः ।निरुपमकविताप्रज्ञाव्याख्याश्रीसम्पदावहो मन्त्रः ॥६७॥करचरणपाश्र्वमूलद्युलोंहरेबिन्दुदुंसरसनार्णाः ।अलिकाद्याः वर्मास्त्रद्विठान्तिको मनुरयं ध्रुवादिः स्यात् ॥६८॥अयुतं प्रजपेच्च षट्सहस्रावधि मन्त्रे जुहुयाद्दशांशमानम् ।तिलसर्षपतण्डुलैः सशालीहविराज्यैः सुसमेधिते कृशानौ ॥६९॥उत्तुङ्गादिः प्रचेता अपि दहनसमीरौ धराव्योमसंज्ञेप्राक्प्रत्यग्दक्षसौम्यास्वध उपरि च दिक्षु प्रबन्धप्रभाः स्युः ।तन्मध्यस्थान्विपक्षादिकहरिरुरुदन्तीन्द्रनागान्सचोरा-न्हन्त्येतैर्मन्त्रिमुख्यो मनुविहितबलव्याकुलान्सद्य एव ॥७०॥निजरिपुमचलाद्यैस्तैः ससम्बाधवीतंमनुविदथ हलोभ्यां रुद्धनिश्वासवेगे ।तदुपरिगतबीजैः साधुसंस्यूतवक्त्रंदहतु सकवचास्त्रद्वीन्दुभिः स्वेच्छयैनम् ॥७१॥योनिर्वियत्सुनेत्रं परमे वर्णांस्तथास्थिगं मेदः ।रक्तस्थदृग्द्विठान्तस्ताराद्योऽयं मनुर्दशार्णयुतः ॥७२॥अयुतं जपेन्मनुमिमं सहस्रवारं हुनेत्तथाज्येन ।ध्यातापि गिरिसुतेयं जगतीं विश्वां वशीकरोत्यनिशम् ॥७३॥अश्वारूढा कराग्रे नवकनकमयीं नेत्रयष्टिं दधानादक्षेऽन्येनानयन्ती स्फुरिततनुलतापाशबद्धां स्वसाध्याम् ।देवी नित्यप्रसन्नाननशशधरबिम्बा त्रिनेत्राभिरामादद्यादाद्यानवद्या प्रवरसुखफलप्राप्तिहृद्यां श्रियं वः।७४॥विद्ययानुदिनहृद्ययानया होमकर्मवरहेमदायि तत् ।कामितां सपदि वामलोचनामानयेदपि च मारपीडिताम् ॥७५॥हवनक्रिया सपदि वश्यकरी मधुरावसेकपटुना पटुना ।सदृशो न कश्चन जगत्यपरो मनुनामुनानयनकर्मविधौ ॥७६॥वाणी स्यात्ताररूपा शिरसि गिरिसुता शक्तिरूपा ललाटेरव्यग्न्यक्ष्णोस्तथामौ विधुरपि वदनावेष्टने टान्तरूपः ।श्रीर्जिह्वायां स्वरूपा स्वभिमतकरिरूपौ स्वहौ दीर्घयुक्ता-वेवं न्यासे मुखश्रीविभवसुखयशःकान्तिमेधाकरः स्यात् ॥७७॥इति श्रीमत्परमहंसपरिव्राजकाचार्यस्यश्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतःकृतौ प्रपञ्चसारे द्वात्रिंशः पटलः ॥ N/A References : N/A Last Updated : January 21, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP