सुभाषितरत्नकोशः - प्रत्यूषव्रज्या
विद्याकर (१०५०-११३०) एक बौद्ध विद्वान कवि होते. त्यांची कृति 'सुभाषितरत्नकोश' प्रसिद्ध आहे.
मध्येव्योमकटिभ्रमास् तु कितवप्राग्भारकोपक्रम- क्षिप्रक्षिप्तकपर्दमुष्टिकलनां कुर्वन्त्य् अमूस् तारकाः ।
किं चायं रजनीपतिः प्रविगलल्लावण्यलक्ष्मीरितः पर्यन्तस्थितचारुवृत्तकठिनीखण्डच्छविं वाञ्छति ३०.१ ॥९५७॥
क्वैमल्लस्य
तमोभिः पीयन्ते गतवयसि पीयूषवपुषि ज्वलिष्यन् मार्तण्डोपलपटलधूमैर् इव दिशः ।
सरोजानां कर्षन्न् अलिमयम् अयस्कान्तमणिवत् क्षणाद् अन्तःशल्यं तपति पतिर् अद्यापि न रुचाम् ३०.२ ॥९५८॥
जाताः पक्वपलाण्डुपाण्डमधुरच्छायाकिरस् तारकाः प्राचीम् अङ्कुरयन्ति किंचन रुचो राजीवजीवातवः ।
लूतातन्तुवितानवर्तुलम् इतो बिम्बं दधच् चुम्बति प्रातः प्रोषितरोचिर् अम्बरतलाद् अस्ताचलं चन्द्रमाः ३०.३ ॥९५९॥
प्राचीविभ्रमकर्णिकाकमलिनीसंवर्तिकाः सम्प्रति द्वे तिस्रो रमणीयम् अम्बरमणेर् द्याम् उच्चरन्ते रुचः ।
सूक्ष्मोच्छ्वासम् अपीदम् उत्सुकतया सम्भूय कोषाद् बहिर् निष्क्रामद्भ्रमरौघसम्भ्रमभराद् अम्भोजम् उज्जृम्भते ३०.४ ॥९६०॥
एकद्विप्रभृतिक्रमेण गणनाम् एषाम् इवास्तं यतां कुर्वाणा समकोचयदृशशतान्य् अम्भोजसंवर्तिकाः ।
भूयो ऽपि क्रमशः प्रसारयति ताः सम्प्रत्य् अमून् उद्यतः संख्यातुं सकुतूहलेव नलिनी भानोः सहस्रं करान् ३०.५ ॥९६१॥
पीत्वा भृशं कमलकुड्मलशुक्तिकोषा दोषातनीतिमिरवृष्टिम् अथ स्फुटन्तः ।
निर्यन्मधुव्रतकदम्बमिषाद् वमन्ति बिभ्रन्ति कारणगुणान् इव मौक्तिकानि ३०.६ ॥९६२॥
अमी मुरारेः
ताराणां तगरत्विषां परिकरः संख्येयशेषः स्थितः स्पर्धन्ते ऽस्तरुचः प्रदीपकशिखाः सार्धं हरिद्राङ्कुरैः ।
तत्र स्तम्भितपारदद्रवजडो जातः प्रगे चन्द्रमाः पौरस्त्यं च पुराणसीधुमधुरच्छायं नभो वर्तते ३०.७ ॥९६३॥
द्वित्रैर् व्योम्नि पुराणमौक्तिकमणिच्छायैः स्थितं तारकैर् ज्योत्स्नापानभरालसेन वपुषा सुप्ताश् चकोराङ्गनाः ।
यातो ऽस्ताचलचूलम् उद्वसमधुच्छत्रच्छविश् चन्द्रमाः प्राची बालबिडाललोचनरुचां याता च पात्रं ककुप् ३०.८ ॥९६४॥
क्षीणान्य् एव तमांसि किं तु दधति प्रौढिं न सम्यग् दृशो वासः संवृतम् एव किं तु जहति प्राणेश्वरं नाबलाः ।
पारावारगतैश् च कोकमिथुनैर् आनन्दतो गद्गदं साकूतं रुतम् एव किं तु बहलं झात्कृत्य नोड्डीयते ३०.९ ॥९६५॥
झत्कृत्य
सात्कृत्य
परिस्फुरत तारकाश् चरत चौरचक्राण्य् अलं प्रसर्पत तमांसि रे समय एष युष्मादृशाम् ।
न यावद् उदयाचलोद्धतरजाः समाक्रामति प्रभापटलपाटलीकृतनभो.अन्तरालो रविः ३०.१० ॥९६६॥
प्रातः कोपविलोहितेन रविणा ध्वस्तं तमः सर्वतो भृङ्गाः पद्मपुटेषु वर्णसदृशास् तस्येति कृष्टाः करैः ।
हा कष्टं तिमिरत्विषो वयम् अपि व्यक्तं हता इत्य् अमी काकाः सम्प्रति घोषयन्ति सभयाः काकेति नाम्नात्मनः ३०.११ ॥९६७॥
शक्यार्चनः सुचिरम् ईक्ष्णपङ्कजेन काश्मीरपिण्डपरिपाटलमण्डलश्रीः ।
ध्वान्तं हरन्न् अमरनायकपालितायां देवो ऽभ्युदेति दिशि वासरबीजकोषः ३०.१२ ॥९६८॥
विष्णुहरेः
कुन्तल इवावशिष्टः स्मरस्य चन्दनसरोनिमग्नस्य ।
प्रतिभाति यत्र हरिणः स हरिणलक्ष्मा गतो ऽस्तमयम् ३०.१३ ॥९६९॥
दक्षस्य
पत्यौ याते कलानां व्यति गतिवशाद् अस्तम् इन्दौ क्रमेण क्रन्दन्ती पत्रिनादैर् विगलिततिमिरस् तोमधम्मिल्लभारा ।
प्रभ्रंशिस्थूलमुक्ताफलनिकरपरिस्पर्धिताराश्रुबिन्दुः प्रोन्मीलत्पूर्वसंध्याहुतभुजि रजनी पश्य देहं जुहोति ३०.१४ ॥९७०॥
सो ऽहं सुदूरम् अगमं द्विजराजरूढिं गाढप्रसक्तिर् अभवं बत वारुणीतः ।
इत्य् आकलय्य नियतं शशभृत् समस्तम् अस्ताद् ददौ झगिति झम्पमयं पयोधौ ३०.१५ ॥९७१॥
नरसिंहस्य
स्तोकस्तोकम् अभूमिर् अम्बरतले ताराभिर् अस्तं गतं गच्छन्त्य् अस्तगिरेः शिरस् तदनु च च्छायादरिद्रः शशी ।
प्रत्यासन्नतरोदयस्थतरणेर् बिम्बारुणिम्ना ततो मञ्जिष्ठारसलोहिनी दिग् अपि च प्राची समुन्मीलति ३०.१६ ॥९७२॥
लक्ष्मीधरस्य
मुषितमुषितालोकास् तारातुषारकणत्विषः सवितुर् अपि च प्राचीमूले मिलन्ति मरीचयः ।
श्रयति शिथिलच्छायाभोगस् तटीम् अपराम्बुधेर् जठरलवलीलावण्याच्छच्छविर् मृगलाञ्छनः ३०.१७ ॥९७३॥
शर्वस्य
व्रजत्य् अपरवारिधिं रजतपिण्डपाण्डुः शशी नमन्ति जलबुद्बुधद्युतिसपङ्क्तयस् तारकाः ।
कुरुण्टकविपाण्डुरं दधति धाम दीपाङ्कुराश् चकोरनयनारुणा भवति दिक् च सौत्रामणी ३०.१८ ॥९७४॥
राजशेखरस्य
लब्ध्वा बोधं दिवसकरिणः कीर्णनक्षत्रमालं दीर्घाद् अस्माद् गगनशयनाद् उज्जिहानस्य दर्पात् ।
सज्जद्दानोदकतनुमलो जर्जराभीषुरज्जुर् भ्रश्यत्य् एष प्रशिथिल इव श्रोत्रशङ्खः शशाङ्कः ३०.१९ ॥९७५॥
तनु
तुन
तेजोराशौ भुवनजलधेः प्लाविताशातटान्तं भानौ कुम्भोद्भव इव पिबत्य् अन्धकारोत्कराम्भः ।
सद्यो माद्यन्मकरकमठस्थूलमत्स्या इवैते यान्त्य् अन्तस्थाः कुलशिखरिणो व्यक्तिवर्त्मक्रमेण ३०.२० ॥९७६॥
आमुद्रन्तस् तम इव सरःसीम्नि सम्भूय पङ्कं तारासार्थैर् इव पतिशुचा फेनकैः श्लिष्टपादाः ।
भ्रान्त्यादष्टस्फुटबिसलताचुञ्चुभिश् चञ्चुचक्रैश् चक्रा बन्दीकृतविरहकृच्चन्द्रलेखा इवैते ३०.२१ ॥९७७॥
भट्टशिवस्वामिनः
कृतपादनिगूहनो ऽवसीदन्न् अधिकश्यामकलङ्कपङ्कलेखः ।
गगनोदधिपशिमान्तलग्नो विधुर् उत्तान इवास्ति कूर्मराजः ३०.२२ ॥९७८॥
शतानन्दस्य
अयम् उदयति मुद्राभञ्जनः पद्मिनीनाम् उदयगिरिवनालीबालमन्दारपुष्पम् ।
विरहविधुरकोकद्वन्द्वबन्धुर् विभिन्दन् कुपितकपिकपोलक्रोधताम्रस् तमांसि ३०.२३ ॥९७९॥
योगेश्वरस्य
रथ्याकार्पटिकैः पटच्चरशतस्यूतोरुकन्थाबल- प्रत्यादिष्टहिमागमार्तिविशदप्रस्निग्धकण्ठोदरैः ।
गीयन्ते नगरेषु नागरजनप्रत्यूषनिद्रानुदो राधामाधवयोः परस्पररहःप्रस्तावनागीतयः ३०.२४ ॥९८०॥
डिम्बोकस्य
इति प्रत्यूषव्रज्या ॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP