संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सुभाषितरत्नकोशः| सतीव्रज्या सुभाषितरत्नकोशः सुगतव्रज्या लोकेश्वरव्रज्या मञ्जुघोषव्रज्या महेश्वरव्रज्या तद्वर्गव्रज्या हरिव्रज्या सूर्यव्रज्या वसन्तव्रज्या ग्रीष्मव्रज्या प्रावृड्व्रज्या शरद्व्रज्या हेमन्तव्रज्या शिशिरव्रज्या मदनव्रज्या वयःसन्धिव्रज्या युवतिवर्णनव्रज्या ततोऽनुरागव्रज्या दूतीवचनव्रज्या सम्भोगव्रज्या समाप्तनिधुवनचिह्नव्रज्या मानिनीव्रज्या विरहिणीव्रज्या विरहिव्रज्या सतीव्रज्या दूतिकोपालम्भव्रज्या प्रदीपव्रज्या ततोऽपराह्णव्रज्या ततोऽन्धकारव्रज्या ततश्चन्द्रव्रज्या प्रत्यूषव्रज्या मध्याह्नव्रज्या यशोव्रज्या ततोऽन्यापदेशव्रज्या वातव्रज्या जातिव्रज्या माहात्म्यव्रज्या सद्व्रज्या असद्व्रज्या दीनव्रज्या अर्थान्तरन्यासव्रज्या ततश्चाटुव्रज्या निर्वेदव्रज्या वार्धक्यव्रज्या श्मशानव्रज्या वीरव्रज्या प्रशस्तिव्रज्या पर्वतव्रज्या शान्तिव्रज्या संकीर्णव्रज्या कविस्तुतिव्रज्या सुभाषितरत्नकोशः - सतीव्रज्या विद्याकर (१०५०-११३०) एक बौद्ध विद्वान कवि होते. त्यांची कृति 'सुभाषितरत्नकोश' प्रसिद्ध आहे. Tags : bookvidhyakarविद्याकरसंस्कृतसुभाषितरत्नकोश सतीव्रज्या Translation - भाषांतर दृष्टिं हे प्रतिवेशिनि क्षणम् इहाप्य् अस्मद्गृहे दास्यसि प्रायो नैव शिशोः पिताद्य विरसाः कौपीर् अपः पास्यति ।एकाकिन्य् अपि यामि तद् वरम् इतः श्रोतस् तमालाकुलं नीरन्ध्राः स्तनम् आलिखन्तु जठरच्छेदा नलग्रन्थयः २४.१ ॥८०७॥विद्यायाःतेषां गोपवधूविलाससुहृदां राधारहःसाक्षिणां क्षेमं भद्र कलिन्दराजतनयातीरे लतावेश्मनाम् ।विच्छिन्ने स्मरतल्पकल्पनविधिच्छेदोपयोगे ऽधुना ते जाने जरठीभवन्ति विगलन्नीलत्विषः पल्लवाः २४.२ ॥८०८॥विद्यायाःसिकतिलतलाः सान्द्रच्छायास् तटान्तविलम्बिनः शिशिरमरुतां लीलावासाः क्वणज्जलरङ्कवः ।अविन्यवतीनिर्विच्छेदस्मरव्ययदायिनः कथय मुरले केनामी ते कृता निचुलद्रुमाः २४.३ ॥८०९॥पान्थ स्वैरगतिं विहाय झटिति प्रस्थानम् आरभ्यताम् अत्यन्तं करिसूकराहिगवयैर् भीमं पुरः काननम् ।चण्डांशोर् अपि रश्मयः प्रतिदिशं म्लानास् त्वम् एको युवा स्थानं नास्ति गृहे ममापि भवतो बालाहम् एकाकिनी २४.४ ॥८१०॥विटपिनि शिशिरच्छाये क्षणम् इह विश्रम्य गम्यतां पथिकाः ।अतरुवारिर् अतः परम् असमशिलादुर्गमो मार्गः २४.५ ॥८११॥अम्बा शेते ऽत्र वृद्धा परिणतवयसाम् अग्रणीर् अत्र तातो निःशेषागारकर्मश्रमशि"थिलतनुः कुम्भदासी तथेह ।अस्मिन् पापाहम् एका कतिपयदिवस्प्रोषितप्राणनाथा पान्थायेत्थं युवत्या कथितम् अभिमतं व्याहृतिव्याजपूर्वम् २४.६ ॥८१२॥स्मरविवशया किंचिन् मिथ्यानिषेधमनोज्ञया दिशि दिशि भयाद् भूयो भूयः प्रवर्तितनेत्रया ।कुवलयदृशा शून्ये दैवाद् अतर्कितलब्धया निभृतनिभृतं ये चुम्ब्यन्ते त एव विदुः सुखम् २४.७ ॥८१३॥व्यपेतव्याहारं गतविविधशिल्पव्यतिकरं करस्पर्शारम्भप्रगलितदुकूलान्तशयनम् ।मुहुर् बद्धोत्कम्पं दिशि दिशि मुहुः प्रेषितदृशोर् अहल्यासुत्राम्णोः क्षणिकम् इव तत् संगतम् अभूत् २४.८ ॥८१४॥योगेश्वरस्ययः कौमारहरः स एव च वरस् ताश् चन्द्रगर्भा निशाः प्रोन्मीलन्नवमालतीसुरभयस् ते च विन्ध्यानिलाः ।सा चैवास्मिंस् तथापि धैर्यसुरतव्यापारलीलाभृतां किं मे रोधसि वेतसीवनभुवां चेतः समुत्कण्ठते २४.९ ॥८१५॥क्व प्रस्थितासि करभोरु घने निशीथे प्राणाधिको वसति यत्र जनः प्रियो मे ।एकाकिनी वद कथं न बिभेषि बाले नन्व् अस्ति पुङ्खितशरो मदनः सहायः २४.१० ॥८१६॥उदेति यस्यां न निशाकरो रिपुस् तिथिर् नु का पुण्यवतीभिर् आप्यते ।इतीव दुष्ट्या परिदेविते मुहुः कुहूकुहूर् इत्य् अलम् आह कोकिलः २४.११ ॥८१७॥मातर् गेहिनि यद्य् अयं हतशुकः संवर्धनीयो मया लौहं पञ्जरम् अस्य दुर्नयवतो गाढं तदा कारय ।अद्यैनं बदरीनिकुञ्जकुहरे लीनं प्रचण्डोरगे कर्षन्त्या मम तावद् अङ्गलिखनैर् एवापदेषागता २४.१२ ॥८१८॥ध्वस्तं केन विलेपनं कुचयुगे केनाञ्जनं नेत्रयोर् रागः केन तवाधरे प्रमथितः केशेषु केन स्रजः ।तेनाशेषजनौघकल्मषमुषा नीलाब्जभासा सखि किं कृष्णेन न यामुनेन पयसा कृष्णानुरागस् तव २४.१३ ॥८१९॥आकृष्यादाव् अमन्दग्रहम् अलकचयं वक्त्रम् आसज्य वक्त्रे कण्ठे लग्नः सुकण्ठः पुनर् अपि कुचयोर् दत्तगाढाङ्गसङ्गः ।बद्धासक्तिर् नितम्बे पतति चरणयोर् यः स तादृक् प्रियो मे बाले लज्जा प्रणष्टा न हि न हि कुटिले चोलकः किं त्रपाकृत् २४.१४ ॥८२०॥आमोदिना समधुना परिधूसरेण सव्याकुलभ्रमवता पतता पुरस्तात् ।आयासितास्मि सखि तेन दिवावसाने मत्तेन किं प्रणयिना न हि केसरेण २४.१५ ॥८२१॥पान्थे पद्मसरो ऽन्तशाद्वलभुवि न्यस्याञ्चलं शायिनि त्वं श्रान्तास्य् अवहं च वर्त्म वसतिग्रामो न वेलाप्य् अगात् ।उत्तानद्विगुणासमञ्जसमिलज्जानूदरास्तांशुक- स्तोकोन्मीलदसञ्जितोरु वयम् अप्य् एकाकिनः किं न्व् इदम् २४.१६ ॥८२२॥वल्लणस्यइन्दुर् यत्र न निन्द्यते न मधुरं दूतीवचः श्रूयते नालापा निपतन्ति बाष्पकलुषा नोपैति कार्श्यं तनुः ।स्वाधीनाम् अनुकूलिनीं स्वगृहिणीम् आलिङ्ग्य यत् सुप्यते तत् किं प्रेम गृहाश्रमव्रतम् इदं कष्टं समाचर्यते २४.१७ ॥८२३॥लक्ष्मीधरस्यप्रणयविशदां वक्त्रे दृष्टिं ददाति विशङ्किता घटयति घनं कण्ठाश्लेषं सकम्पपयोधरा ।वदति बहुशो गच्छामीति प्रयत्नधृताप्य् अहो रमयतितरां संकेतस्था तथापि हि कामिनी २४.१८ ॥८२४॥श्रीहर्षस्यदुर्दिननिशीथपवने निःसंचारासु नगरवीथीषु ।पत्यौ विदेशयाते परं सुखं जघनचपलायाः २४.१९ ॥८२५॥मार्गे पङ्किनि तोयदान्धतमसे निःशब्दसंचारकं गन्तव्या दयितस्य मे ऽद्य वसतिर् मुग्धेति कृत्वा मतिम् ।आजानूद्धृतनूपुरा करतलेनाछाद्य नेत्रे भृशं कृच्छ्राल् लब्धपदस्थितिः स्वभवने पन्थानम् अभ्यस्यति २४.२० ॥८२६॥बिभ्राणार्द्रनखक्षतानि जघने नान्यत्र गात्रे भयान् नेत्रे चुम्बनपाटले च दधती निद्रालसे निव्रणे ।स्वं संकेतम् अदूरम् एव कमितुर् भ्रूसंज्ञया शंसती सिद्धिं याति विटैककल्पलतिका रण्डा न पुण्यैर् विना २४.२१ ॥८२७॥अद्य स्वां जननीम् अकारणरुषा प्रातः सुदूरं गतां प्रत्यानेतुम् इतो गतो गृहपतिः श्रुत्वैव मध्यंदिने ।पङ्गुत्वेन शरीरजर्जरतया प्रायः स लक्ष्याकृतिर् दृष्टो ऽसौ भवता न किं पथिक हे स्थित्वा क्षणं कथ्यताम् २४.२२ ॥८२८॥वस्त्रप्रोतदुरन्तनूपुरमुखाः संयम्य नीवीमणीन् उद्गाढांशुकपल्लवेन निभृतं दत्ताभिसारक्रमाः ।एताः कुन्तलमल्लिकापरिमलव्यालोलभृङ्गावली- झंकारैर् विकलीकृताः पथि बत व्यक्तं कुरङ्गीदृशः २४.२३ ॥८२९॥पतिर् दुर्वञ्चो ऽयं विधुरमलिनो वर्त्म विषमं जनश् छिद्रान्वेषी प्रणयिवचनं दुःपरिहरम् ।अतः काचित् तन्वी रतिविहितसंकेतगतये गृहाद् वारंवारं निरसरद् अथ प्राविशद् अथ २४.२४ ॥८३०॥उदेष्यत्पीयूषद्युतिरुचिकणार्द्राः शशमणि- स्थलीनां पन्थानो घनचरणलाक्षालिपिभृतः ।चकोरैर् उड्डीनैर् झटिति कृतशङ्काः प्रतिपदं पराञ्चः संचारान् अविनयवतीनां विवृणुते २४.२५ ॥८३१॥मलयजपङ्कलिप्ततनवो नवहारलताविभूषिताः सिततरदन्तपत्रकृतवक्त्ररुचो रुचिरामलांशुकाः ।शशभृति विततधाम्नि धवलयति धराम् अविभाव्यतां गताः प्रियवसतिं व्रजन्ति सुखम् एव निरस्तभियो ऽभिसारिकाः २४.२६ ॥८३२॥बाणस्यनिशान्धकारे विहिताभिसाराः सखीः शपन्तीह नितान्तमुग्धा ।पथि स्खलन्ती बत वारिधाराम् आलिङ्गितुं वाञ्छति वारिदानाम् २४.२७ ॥८३३॥पुरुषोत्तमस्यकृत्वा नूपुरमूकतां चरणयोः संयम्य नीवीमणीन् उद्दामध्वनिपिण्डितान् परिजने किंचिच् च निद्रायिते ।कस्मै कुप्यसि यावद् अस्मि चलिता तावद् विधिप्रेरितः काश्मीरीकुचकुम्भसम्भ्रमहरः शीतांशुर् अभ्युद्यतः २४.२८ ॥८३४॥उरसि निहितस् तारो हारः कृता जघने जघने कलकलवती काञ्ची पादौ रणन्मणिनूपुरौ ।प्रियम् अभिसरस्य् एवं मुग्धे समाहतण्डिण्डिमा किम् इदम् अपरं त्रासोत्कम्पा दिशो मुहुर् ईक्षसे २४.२९ ॥८३५॥देवगुप्तस्यअनुमतम् इवानेतुं जोषं तमीतमसां कुलं दिशि दिशि दृशो विन्यस्यन्त्यः श्रियाङ्कुरिताञ्जनाः ।मदनहुतभुग्धूमच्छायैः पटैर् असितैर् वृताः प्रययुर् अरसद्भूषैर् अङ्गैः प्रियान् अभिसारिकाः २४.३० ॥८३६॥भट्टशिवस्वामिनःइत्य् असतीव्रज्या N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP