संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सुभाषितरत्नकोशः| असद्व्रज्या सुभाषितरत्नकोशः सुगतव्रज्या लोकेश्वरव्रज्या मञ्जुघोषव्रज्या महेश्वरव्रज्या तद्वर्गव्रज्या हरिव्रज्या सूर्यव्रज्या वसन्तव्रज्या ग्रीष्मव्रज्या प्रावृड्व्रज्या शरद्व्रज्या हेमन्तव्रज्या शिशिरव्रज्या मदनव्रज्या वयःसन्धिव्रज्या युवतिवर्णनव्रज्या ततोऽनुरागव्रज्या दूतीवचनव्रज्या सम्भोगव्रज्या समाप्तनिधुवनचिह्नव्रज्या मानिनीव्रज्या विरहिणीव्रज्या विरहिव्रज्या सतीव्रज्या दूतिकोपालम्भव्रज्या प्रदीपव्रज्या ततोऽपराह्णव्रज्या ततोऽन्धकारव्रज्या ततश्चन्द्रव्रज्या प्रत्यूषव्रज्या मध्याह्नव्रज्या यशोव्रज्या ततोऽन्यापदेशव्रज्या वातव्रज्या जातिव्रज्या माहात्म्यव्रज्या सद्व्रज्या असद्व्रज्या दीनव्रज्या अर्थान्तरन्यासव्रज्या ततश्चाटुव्रज्या निर्वेदव्रज्या वार्धक्यव्रज्या श्मशानव्रज्या वीरव्रज्या प्रशस्तिव्रज्या पर्वतव्रज्या शान्तिव्रज्या संकीर्णव्रज्या कविस्तुतिव्रज्या सुभाषितरत्नकोशः - असद्व्रज्या विद्याकर (१०५०-११३०) एक बौद्ध विद्वान कवि होते. त्यांची कृति 'सुभाषितरत्नकोश' प्रसिद्ध आहे. Tags : bookvidhyakarविद्याकरसंस्कृतसुभाषितरत्नकोश असद्व्रज्या Translation - भाषांतर अतिमलिने कर्तव्ये भवति खलानाम् अतीव निपुणा धीः ।तिमिरे हि कौशिकानां रूपं प्रतिपद्यन्ते दृष्टिः ३८.१ ॥१२५४॥सद्गुणालंकृते काव्ये दोषान् मृगयते खलः ।वने पुष्पकलाकीर्णः करभः कण्टकान् इव ३८.२ ॥१२५५॥मुखरस्याप्रसन्नस्य मित्रकार्यविघातिनः ।निर्माणम् आशानाशाय दुर्जनस्य घनस्य च ३८.३ ॥१२५६॥निर्वाते व्यजनं मदान्धकरिणां दर्पोपशान्तौ शृणिः पोतो दुस्तरवारिराशितरणे दीपो ऽन्धकारागमे ।इत्थं तद् भुवि नास्ति यत्र विधिना नोपायचिन्ता कृता मन्ये दुर्जनचित्तवृत्तिहरणे धातापि भग्नोद्यमः ३८.४ ॥१२५७॥अकारणाविष्कृतवैरदारुणाद् असज्जनात् कस्य भयं न जायते ।विषं महाहेर् इव यस्य दुर्वचः सुदुःसहं संनिहितं सदा मुखे ३८.५ ॥१२५८॥खलवृन्दं श्मशानं च भवत्य् अपचितं यदा ।ध्रुवं तदैव लोकानां कल्याणम् अवगम्यते ३८.६ ॥१२५९॥अन्तर् मलिनदेहेन बहिर् आह्लादकारिणा ।महाकालफलेनेव कः खलेन न वञ्चितः ३८.७ ॥१२६०॥सर्वत्रैव खलो जनः सरलतासद्भावनिःसङ्गिनां साधूनां पदबन्धनाय पिशुनप्रौढाभिमानोद्यमः ।सूत्रं किंचिद् अपूर्वम् एव जठराद् उत्पाद्य सद्यः स्वयं लूतातन्तुवितानजालकुटिलं चक्रं करोत्य् अद्भुतम् ३८.८ ॥१२६१॥देवानाम् अपि पश्यन्तां स श्रिया मेध्यते खलु ।वाससापि न योगो ऽस्ति निश्चक्रस्य पिनाकिनः ३८.९ ॥१२६२॥स्तोकेनोन्नतिम् आयाति स्तोकेनायात्य् अधोगतिम् ।अहो न सदृशी वृत्तिस् तुलाकोटेः खलस्य च ३८.१० ॥१२६३॥आखुभ्यः किं खलैर् ज्ञातं खलेभ्यः किम् अथाखुभिः ।अन्यत् परगृहोत्खातात् कर्म येषां न विद्यते ३८.११ ॥१२६४॥दुर्जनदूषितमनसां पुंसां स्वजने ऽपि नास्ति विश्वासः ।बालः पायसदग्धो दध्य् अपि फूत्कृत्य भक्षयति ३८.१२ ॥१२६५॥गुणोत्कर्षद्वेषात् प्रकृतिमहताम् अप्य् असदृशं खलः किंचिद् वाक्यं रचयति च विस्तारयति च ।न चेद् एवं तादृक् कमलकलिकार्धप्रतिनिधौ मुनेर् गण्डूषे ऽब्धिः स्थित इति कुतो ऽयं कलकलः ३८.१३ ॥१२६६॥प्रियसखि विपद्दण्डप्रान्तप्रपातपरम्परा- परिचयचले चिन्ताचक्रे निधाय विधिः खलः ।मृदम् इव बलात् पिण्डीकृत्य प्रगल्भकुलाकवद् भ्रमयति मनो नो जानीमः किम् अत्र विधास्यति ३८.१४ ॥१२६७॥पादाहतो ऽथ धृतदण्डविघट्टितो वा यं दंष्ट्रया स्पृशति तं किल हन्ति सर्पः ।को ऽप्य् अन्य एष पिशुनो ऽत्र भुजङ्गधर्मा कर्णे परं स्पृशति हन्त्य् अपरं समूलम् ३८.१५ ॥१२६८॥परिशुद्धाम् अपि वृत्तिं समाश्रितो दुर्जनः परान् व्यथते ।पवनाशिनो ऽपि भुजगाः परोपघातं न मुञ्चन्ति ३८.१६ ॥१२६९॥रविगुप्तस्यअगम्यो मन्त्राणां प्रकृतिभिषजाम् अप्य् अविषयः सुधासारासाध्यो विसदृशतरारम्भगहनः ।जगद् भ्रामीकर्तुं परिणतधियानेन विधिना स्फुटं सृष्टो व्याधिः प्रकृतिविषमो दुर्जनजनः ३८.१७ ॥१२७०॥यः स्वान् अपि प्रथमम् अस्तसमस्तसाधु- वृत्तिर् गुणान् खलतया मलिनीकरोति ।तस्यास्य भोगिन इवोग्ररुषः खलस्य दाक्षिण्यम् अस्ति कथम् अन्यगुणोपमर्दे ३८.१८ ॥१२७१॥रन्ध्रान्वेषिणि दुष्टदृष्टिविषिणि स्वच्छाशयद्वेषिणि क्षिप्रे रोषिणि शर्मशोषिणे विना हेतुं जगत्प्लोषिणि ।स्वार्थार्थं मृदुभाषिणीष्टविहताव् एकान्ततस् तोषिणि श्रेयः क्रुद्धभुजङ्गभोगविषमे संविद्यते किं खले ३८.१९ ॥१२७२॥गुणाकरस्य श्लेषश्लोकौजाड्यं ह्रीमति गण्यते व्रतरुचौ दम्भः शुचौ कैतवं शूरे निर्घृणतार्जवे विमतिना दैन्यं प्रियालापिनि ।तेजस्विन्य् अवलिप्तता मुखरता वक्तर्य् अशक्तिः स्थिरे तत् को नाम भवेद् गुणः स गुणिनां यो दुर्जने नाङ्कितः ३८.२० ॥१२७३॥वन्द्यान् निन्दति दुःखितान् उपहसत्य् आबाधते बान्धवान् शूरान् द्वेष्टि धनच्युतान् परिभवत्य् आज्ञापयत्य् आश्रितान् ।गुह्यानि प्रकटीकरोति घटयत्य् अन्योन्यवैराश्रयान् ब्रूते शीघ्रम् अवाच्यम् उज्झितगुणो गृह्णाति दोषान् खलः ३८.२१ ॥१२७४॥यद् यद् इष्टतरं तत् तद् देयं गुणवते किल ।अत एव खलो दोषान् साधुभ्यः सम्प्रयच्छति ३८.२२ ॥१२७५॥करुणाद्रवम् एव दुर्जनः सुतरां सत्पुरुषं प्रबाधते ।मृदुकं हि भिनत्ति कण्टकः कठिने कुण्ठक इव जायते ३८.२३ ॥१२७६॥आरम्भगुर्वी क्षयिणी क्रमेण लघ्वी पुरा वृद्धिमती च पश्चात् ।दिनस्य पूर्वार्धपरार्धभिन्ना छायेव मैत्री खलसज्जनानाम् ३८.२४ ॥१२७७॥खलानां खर्जूरक्षितिरुहकठोरं क्व च मनः क्व चोन्मीलन्मल्लीकुसुमसुकुमाराः कविगिरः ।इतीमं व्यामोहं परिहर विचित्राः शृणु कथा यथायं पीयूषद्युतिर् उपलखण्डं द्रवयति ३८.२५ ॥१२७८॥उपकारिणि शुद्धमतौ वार्जने यः समाचरति पापम् ।तं जनम् असत्यसंधं भगवति वसुधे कथं वहसि ३८.२६ ॥१२७९॥मुखे नीचस्य पतिता अहेर् इव पयःकणाः ।क्षणेन विषतां यान्ति सूक्तपीयूषबिन्दवः ३८.२७ ॥१२८०॥मुण्डाप्रियाद् आयतिदुःखदायिनो वसन्तम् उत्सार्य विजृम्भितश्रियः ।न कः खलात् तापितमित्रमण्डलाद् उपैति पापं तपवासराद् इव ३८.२८ ॥१२८१॥नरदत्तस्यतुल्योत्पत्ती प्रकृतिधवलाव् अप्य् अमू शङ्खसोमौ तत्र स्थाणुर् विधुम् असदृशेनोत्तमाङ्गेन धत्ते ।शङ्खस् तापक्रकचनिचयैर् भिद्यते शङ्खकारैः को नामान्तःप्रकृतिकुटिलो दुर्गतिं नाभियाति ३८.२९ ॥१२८२॥अकलितनिजपररूपः स्वकम् अपि दोषं परस्थितं वेत्ति ।नावास्थितस् तटस्थान् अचलान् अपि विचलितान् मनुते ३८.३० ॥१२८३॥आश्रयाशः कृष्णवर्त्मा दहनश् चैष दुर्जनः ।अग्निर् एव तथाप्य् अस्मिन् स्याद् भस्मनि हुतं हुतम् ३८.३१ ॥१२८४॥वरम् आक्षीणतैवास्तु शशिनो दुर्जनस्य च ।न प्रवृद्धिस् तु विस्तारि- लाञ्छनप्रतिपादिनी ३८.३२ ॥१२८५॥सर्वत्र मुखरचपलाः प्रभवन्ति न लोकसंमता गुणिनः ।तिष्ठन्ति वारिराशेर् उपरि तरङ्गास् तले मणयः ३८.३३ ॥१२८६॥आरम्भरमणीयानि विमर्दे विरसानि च ।प्रायो वैरावसानानि संगतानि खलैः सह ३८.३४ ॥१२८७॥गुणकणिकान् अपि सुजनः शशिलेखाम् इव शिवः शिरसि कुरुते ।चन्द्र इव पद्मलक्ष्मीं न क्षमते परगुणं पिशुनः ३८.३५ ॥१२८८॥बिभीमो वयम् अत्यन्तं चाक्रिकस्य गुणाद् अपि ।निष्पन्नम् अपि यः पात्रं गुणेनैव निकृन्तति ३८.३६ ॥१२८९॥परसंतापनहेतुर् यत्राहनि न प्रयाति निष्पत्तिम् ।अन्तर्मना असाधुर् गणयति न तदायुषो मध्ये ३८.३७ ॥१२९०॥दिवसांस् तान् अभिनन्दति बहुमनुते तेषु जन्मनो लाभम् ।ये यान्ति दुष्टबुद्धेः परोपतापाभियोगेन ३८.३८ ॥१२९१॥दयामृदुषु दुर्जनः पटुतरावलेपोद्धवः परां व्रजति विक्रियां न हि भयं ततः पश्यति ।यतस् तु भयशङ्कया सुकृशयापि संस्पृश्यते विनीत इव नीचकैश् चरति तत्र शान्तोद्धवः ३८.३९ ॥१२९२॥शूरस्यअसज्जनाश् चेन् मधुरैर् वचोभिः शक्यन्त एव प्रतिकर्तुम् आर्यैः ।तत् केतकीरेणुभिर् अम्बुराशेर् बन्धक्रियायाम् अपि कः प्रयासः ३८.४० ॥१२९३॥नूनं दर्पात् तुहिनरुचिना दुर्जनस्य प्रमार्ष्टुं नीतं चेतो न च धवलितं हेलया नार्पितं च ।येनेदानीं मलिनहृदयो लक्ष्यते शीतरश्मिर् यस्माच् चायं हृदयरहितो दुर्विधः सर्वदैव ३८.४१ ॥१२९४॥निर्यन्त्रणं यत्र न वर्तितव्यं न मोदितव्यं प्रणयातिवादे ।विशङ्कितान्योन्यभयं सुदूरान् नमस्क्रियाम् अर्हति सौहृदं तत् ३८.४२ ॥१२९५॥अभिनन्दस्यएते स्निग्धतमा इति मा मा क्षुद्रेषु कुरुत विश्वासम् ।सिद्धार्थानाम् एषां स्नेहो ऽप्य् अश्रूणि पातयति ३८.४३ ॥१२९६॥वृथाज्वलितकोपाग्नेः परुषाक्षरवादिनः ।दुर्जनस्यौषधं नास्ति किंचिद् अन्यद् अनुत्तरात् ३८.४४ ॥१२९७॥चक्रसम्भारिणि क्रूरे परच्छिद्रानुसारिणि ।द्विजिह्वे दृष्टमात्रे चेत् कस्य न स्याच् चमत्कृतिः ३८.४५ ॥१२९८॥चक्षुर् आश्रयते कामः कामुकस्य दरिद्रतः ।क्रूरस्य चाप्रभवतः परद्रोहः सरस्वतीम् ३८.४६ ॥१२९९॥शतानन्दस्यखलं दृष्ट्वैव साधूनां हृदयं काष्ठवद् भवेत् ।ततस् तद् दारयत्य् अस्य वाचः क्रकचकर्कशाः ३८.४७ ॥१३००॥हेतोर् विनोपकारी यदि नाम शतेषु कश्चिद् एकः स्यात् ।तत्रापि क्लिष्टधियां दोषं वक्ष्यत्य् अतिखलत्वम् ३८.४८ ॥१३०१॥आक्रान्तेव महोपलेन मुनिना शप्तेव दुर्वाससा सातत्यं बत मुद्रितेव जतुना नीतेव मूर्छां विषैः ।बद्धेवातनुरज्जुभिः परगुणान् वक्तुं न शक्ता सती जिह्वा लोहशलाकया खलमुखे विद्धेव संलक्ष्यते ३८.४९ ॥१३०२॥श्रीधर्मदासस्यप्रकृतिर् इह खलानां दोषचित्तं गुणज्ञे विनयललितभावे द्वेषरक्ता च बुद्धिः ।उभयम् इदम् अवश्यं जायते सर्ववारं पटुर् अपि नियतात्मा कीर्तिम् एवाभिधत्ते ३८.५० ॥१३०३॥इत्य् असद्व्रज्या ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP